वैद्यनाथस्थलस्य गयाक्षेत्रसमं माहात्म्यवर्णनम्
- ऋषि अगस्त्यप्रोक्तम् -
वैद्यनाथस्थले तस्मात् गयाक्षेत्रसमं भुवि ।
तदारभ्य मुनिश्रेष्ठा गङ्गाकुण्डमिदं विदुः ॥ ४६॥
ब्रह्मकुण्डमिति ख्यातं ब्रह्महत्यादिपापहम् ।
दर्शनं ब्रह्मकुण्डस्य जलपानं च मुक्तिदम् ॥ ४७॥
त्रयस्त्रिंशत्कोटिगणैस्तीर्थैरासेवितोदके ।
ब्रह्मकुण्डे नरा स्नान्ति य तु भक्तिसमन्विताः ॥ ४८॥
तेषामष्टविधा सिद्धिः भवत्येव न संशयः ।
स्वर्णस्तेयी सुरापायी गुरुतल्पी च वीरहा ॥ ४९॥
भ्रूणहा वृषलीभुक्ता ब्रह्मकुण्डाभिषेचनात् ।
वैद्यनाथस्थले शुद्धो भवेत्तीर्थस्य वैभवात् ॥ ५०॥
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽन्य एव वा ।
वैद्यनाथस्थलं प्राप्य ब्रह्मकुण्डजले शुभे ॥ ५१॥
स्नात्वा नत्वा महादेवं पित्रोर्मृतदिनेऽपि वा ।
माघमासेऽथवा ऋक्षे माघाख्ये पितृदेवते ॥ ५२॥
यस्मिन् कस्मिंश्च दिवसे देवर्षिपितृतर्पणम् ।
किश्च द्विजान् दक्षिणाभिस्तिलदानैर्यथाविधि ॥ ५३॥
यः करोति नरो भक्त्या तस्येदं फलमुच्यते ।
गयायां पिण्डदानेन प्रयागे पिण्डदानतः ॥ ५४॥
पिण्डदानेन रामेशे यथा मुक्तिस्तथा द्विजाः ।
ये शृण्वन्ति कथामेतां पुण्यामद्भुतवैभवाम् ॥ ५५॥
पठन्ति वाखिलान् कामान् प्राप्नुयुर्मुनिपङ्गवाः ॥ ५६॥
॥ इति वैद्यनाथस्थलमाहात्म्ये वैद्यनाथस्थलस्य गयाक्षेत्रसमं माहात्म्यवर्णनं सम्पूर्णम् ॥
- ॥ वैद्यनाथस्थलमाहात्म्यम् । सप्तमोऽध्यायः । ४६-५६॥
- .. vaidyanAthasthalamAhAtmyam . saptamo.adhyAyaH . 46-56..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य describes the merits of visiting and conducting of certain rites in the Vaidyanātha Sthala वैद्यनाथ स्थल that gives benefits similar to the Gayā Kṣetra गया क्षेत्र.
Encoded and proofread by Ruma Dewan