वरुणादिदेवैःकृता शिवस्तुतिः
वरुणः -
अशेषसुरतामदप्रभवनाशनाशीविषा
विशेषगरभूषणमुरगहारकण्ठद्युतिम् ।
उषःकरणकारणं वृषवराधिसंरोहणं
विषाणवृषपूजितं वपुषि शोभिकान्तार्धकम् ॥ २॥
एकोऽद्वितीयः शिव एव कर्ता देवस्तुरीयः परमश्चतुर्थः ।
सनातनोऽव्यक्तगतिः परत्परो ध्येयः परित्यज्य समस्तमन्यत् ॥ ३॥
यस्मान्महेशाद्धरिधातृरुद्रदेवेन्द्रदेवा मुनयः प्रसूताः ।
स व्योमकेशोऽखिललोकपूर्तिः शम्भुः सदानन्दघनो महेशः ॥ ४॥
अग्निः -
अम्बामुखाम्भोजविकासिभानुमिभेन्द्रतारासुतहर्षनेत्रम् ।
अम्भोजजातोत्तममौलिपाणिमम्भोजनेत्रार्चितपादपद्मम् ॥ ६॥
श्रीशूलपाणिचरणार्चनजातपुण्यैर्वाणीपतित्वमरविन्दगतासुजानेः ।
पदे पदे मे न भवेन्मनः पदे किश्चात्भभोगेषु न सज्यते सदा ॥ ७॥
अर्वसप्तकमहार्णवगर्वापारदर्षहरणामलनेत्रम् ।
शम्बराम्बरवरे (तनोः) सुलाञ्छनोद्भासि नेत्रसुललाममुप से ॥ ८॥
व्यालमालगलनीलगलं तं कालकालमबलार्धककायम् ।
फालमूलनिहितानलकूलज्वालया कृतपुरादिककामम् ॥ ९॥
वायुः -
परावरशरावरीकृतमहाब्धिगङ्गारयो-
ज्ज्वलच्छशिजटाकुटीविधृतभस्मपुण्ड्राङ्कित ।
महोक्षवरवाहन विधृतरत्नरुद्राक्षज
श्रुतीनयनहारधृग्वरकपालमालाधर ॥ १२॥
अङ्गजभङ्ग तुरङ्गस्थाङ्ग भुजङ्गमहाङ्गाम्बरचर्म ।
शताङ्ग विहङ्ग पतङ्ग निषङ्ग कुरङ्ग वहाङ्ग पुरस्फुलिङ्ग ॥ १३॥
आगमचन्द्रार्ध विहगाधिप हारधरसागर
उरगोत्तम गिरिभूमिविधि ग्रहनायक सम्भृति संहृतगर्व ।
पुरत्रितय परिपाहि दयारसया सुदृशा
भवभवतारकयाशरणाय (?) ॥ १४॥
यमः -
भव भर्ग भगाक्षिहराव्यय मधुमदसूदन पूजितपाद ।
दमितयम स्मरगजहर शङ्कर हर गङ्गाधर परिपाहि ॥ १७॥
वर गिरिवरशय पुरहर भवहर प्रथितभवार्णव बडवाग्ने ।
निटिलविलोचन कुटिलजटाधर तटिनीवरकलितेन्दुललाम ॥ १८॥
उग्रमहोग्रसटापटलीयुत भीम मृगेन्द्राजिनवसन ।
करटिकटीतटपटभवचर्मजवसनान्तकहर परिपाहि ॥ १९॥
भव भवदक्षसुराद्य भवाङ्गज विधिहरिनमितारुण पाद ।
शमितान्तक हर स्मरगरशोषण इन्दुकलाधर परिपाहि ॥ २०॥
कुबेरः-
भुवनजनावन दनुतनयाननवरपरिखेलन अनलविलोचन अव सदयम् ।
वरवरुणालयपीतमहामुनितोषण पन्नग परिपाहि ॥ २४॥
अरुणानुजपतिपूजितपाद प्रकटसरोरुहभवविनुत ।
तरणिधुतिशशिनयनामल हर उक्षककुगद्गत परिपाहि ॥ २५॥
उरगान्तकवहशिक्षणचणचरणाम्बुज शङ्कर उक्षवह ।
अध्वरशिक्षितदक्षसुपक्ष अधोक्षज भक्षितविष परिपाहि ॥ २६॥
गन्धवहाङ्गपतङ्गभुजङ्ग धृताम्बुधिसङ्ग तमोमयाम्बर संहनन ।
परिपाहि विभो करुणारसया सरसीरुहसन्निभया सुदृशा ॥ २७॥
रविः -
खण्डसोमफणिकुण्डलगण्डं पाणिमण्डललसद्विधिमुण्डम् ।
आखण्डलस्तम्मितबाहुदण्डं तं खण्डपर्शुः प्रणमाम्यखण्डम् ॥ ३१॥
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
हाराधीश्वरशङ्करं शरहरिं मारारिणं भासुरम् ।
वीरं भूसुरपूजिताङ्घ्रिकमलं विस्तारिताराधिपो-
त्तुङ्गद्रम्यकलाघरं पुरहरं तारं मजे स्वान्तरं (रे) ॥ ३२॥
चन्द्रः -
अण्डजाण्डजगतीशराय ते चण्डशीतकिरणौ तव चक्रम् ।
भूमिमण्डलमिदं रथ ईश वेदमण्डलमिदं हरयस्ते ॥ ३५॥
ज्याकुण्डलीशो भगवान् सुमेरुकोदण्डग्वरसुहारकपुण्डरीक ।
त्वं पुण्डरीकवरचर्मवसान शम्भो
हृत्पुण्डरीकवसते कलितत्रिपुण्ड्र ॥ ३६॥
ईशानः-
दिशां पतिं पशुपतिं पत्तीनां पतिमीश्वरं
अन्नानां च पतिं परात्परतरं त्वां व्योमकेशं हरम् ।
पुष्टानां च पतिं रमापतिलसन्नेत्रारविन्दार्चितं
त्वां बभ्लुश हरिशरं हरिकेशमीश-
माशामुखं शरणमाशु हरं प्रपद्ये ॥ ३८॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये वरुणादिदेवैःकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ३४ । २-३८॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 34 . various 2-38..
Notes: Devā-s देवाः worship and eulogize Śiva शिव severally at various Kṣetra-s क्षेत्र, and find respite from their respective distresses including those that were bought upon them due to their own misdoings that had led some of them to be cursed by various Ṛṣi ऋषि - the details of which can be gleaned from the source text. Varuṇa वरुण worshipped Śiva शिव at Śrīśailaṃ श्रीशैलं, Agni अग्नि at Somanātha सोमनाथ्a, Vāyu वायु at Tryambakakṣetra त्र्यम्बकक्षेत्र by the banks of River Gautamī गौतमी, Yama यम at Gokarṇeśa गोकर्णेश, Kubera कुबेर at Kedāreśvara केदारेश्वर, Sūrya सूर्य (Ravi रवि) at Ekāmranāthaṃ-Kāñcī एकाम्रनाथं-काञ्ची, Candra चन्द्र at Śrīmaddabhrasamānāthaṃ श्रीमद्दभ्रसमानाथं and Īśāna ईशान at KālahastīśvaraM कालहस्तीश्वरम्.
Proofread by Ruma Dewan