स्कन्दप्रोक्तं वेदरहस्यकथनम्
कालकालो महादेवः कालावच्छेदवर्जितः ॥ १९॥
कालावच्छेदयुक्तानां ब्रह्मविष्णुहरात्मनाम् ।
इन्द्रादीनाम्मुनीनाञ्च ग्रहाणाञ्चऋषेस्तथा ॥ २०॥
सप्तर्षिणाञ्चसिद्धानां पितृणाञ्च सनातनः ।
भूतानाञ्चभविष्याणां साम्प्रतानाञ्च शङ्करः ॥ २१॥
करोतिसृष्टिन्नाशञ्चस्थितिङ्कालस्यकल्पनाम् ।
मायाभिर्मोहितानाञ्च ब्रह्मविष्णुहरात्मनाम् ॥ २२॥
शरीराणिप्रविश्यैवकरोतीदञ्चराचरम् ।
स एव सर्वभूतानां प्राणानादायोदेति च ॥ २३॥
स एव सर्वभूतानां प्राणानादायास्तमेति च ।
स्त्त्र्यन्नपानोपभोगैश्च तत्तद्देहेषु सर्वदा ॥ २४॥
परां प्रीतिं वितनुते जडेष्वजड ईश्वरः ।
स एव जाग्रदाद्यासु ह्यवस्थास्वपि शङ्करः ॥ २५॥
अवस्थारहितश्चायं सर्वेष्वन्तर्गतस्थितिः ।
स एव जाग्रद्भूतेषु स्वपित्येको महेश्वरः ॥ २६॥
स एवानन्दमूर्तिहि तस्यानन्दैकलेशतः ।
प्रियात्मकं जगज्जालं कुरुते दुःखदायकम् ॥ २७॥
असत्यमेतच्चजडं स्वसत्यात्सत्यवत्स्थितः ।
करोति च जडं सर्वं चेतनानां सचेतनः ॥ २८॥
असङ्गोऽपि सदा भाति जगत्स्वेतेषु शङ्करः ।
समवानपि विश्वेशश्शिवस्सर्वान्तरङ्गतः ॥ २९॥
(सङ्गवानिव विश्वेशोऽसङ्गस्सर्वान्तरङ्गकः) ॥ २९॥
बुद्धेर्बोधयिता मन्ता मनसश्च गतागतिः ।
अप्राणः प्राणरूपेण ह्याकाशादपि चोत्तरः ॥ ३०॥
ब्रह्म ब्रह्ममयो भाति शिव एवं सनातनः ।
न तस्य करणं कार्यं न क्रिया परमार्थतः ॥ ३१॥
शीर्णेषु देहजालेषु ह्यशीर्णस्सर्वदा स्थितः ।
विकारभूते जगति निर्विकारतया स्थितः ॥ ३२॥
न नश्यन्न च सीदानो शिव एव हि केवलः ।
(नसन्दृशे रूपमस्य शिव एवेति केवलः ।)
गुहाहितो निरिच्छोहि सदा भेदविवर्जितः ॥ ३३॥
कारणं कारणानाञ्च महान्हि तमसः परः ।
यस्माद्ब्रह्मेन्द्रविष्णवाद्या रुद्रास्सर्वे मरुद्गणाः ॥ ३४॥
सम्प्रसूता महादेवान्न ततोऽस्त्यधिकः परः ।
यस्य निश्वसितं वेदा नानाशाखाविभूषिताः ॥ ३५॥
यस्य ज्ञानेन सर्वेषां मुक्तयस्सर्वतो द्विजाः ।
स सन्तरति संसारमसारं भयदायकम् ॥ ३६॥
सरसोऽयं यद्रसेन जगद्रसमयं भवेत् ।
स एव ज्योतिषाञ्जयोतिस्स चक्षुस्स तपो महत् ॥ ३७॥
स भूमा केवलानन्दस्स बोधः केवलं शिवः ।
स एव स्थूलमनणू रुद्रो विश्वार्तिनाशकः ॥ ३८॥
निरिन्द्रियश्चेन्द्रियाणां गतिश्शास्ता महेश्वरः ।
निराभासो निरासङ्गो विश्वभासप्रवर्तकः ॥ ३९॥
सर्वं तस्मिन्महादेवे जगद्ब्रह्मणि लीयते ।
(सर्वं तस्मिन्महादेवे जगद्ब्रह्मपिपीलिकम् ।)
विभाति मायया साक्षात्तस्मिन् ज्ञाने मुनीश्वराः ॥ ४०॥
सर्वं शिवतया भाति प्रसादेन महेशितुः ।
स षोडशात्मा पुरुषो नेह नानास्ति किञ्चन ॥ ४१॥
विकारमेतत्सर्व हि अविकारे विकारितम् ।
तस्यैव तपसा ध्यानात्तलिङ्गार्चनतोद्विज ॥ ४२॥
सर्वं शोकं तरत्येव नात्रकार्या विचारणा ।
भिद्यन्ते ग्रन्थयस्सर्वा एकत्वेनानुपश्यतः ॥ ४३॥
तमात्मानं महादेवं विश्वाकारतया स्थितम् ।
वह्निर्वायुर्जलं क्ष्मा च विद्यते तन्महेश्वरः ॥ ४४॥
(वह्निर्वायुर्जलं क्ष्मा च वियदेतद्महेश्वरः) ॥ ४४॥
एतेषामानुलोम्येन प्रातिलोम्येन सृष्टयः ।
सञ्जाता अत्र लीनाश्च तस्मिन्नेव महेश्वरे ॥ ४५॥
तस्माद्भूतानि जातानि तत्र जीवन्ति तान्यपि ।
तस्मिन्नेत्रवलयंयान्ति ईशसंस्थञ्चराचरम् ॥ ४६॥
ईशावास्यमिदं सर्वं तस्मिन्त्सर्वं प्रवर्तते ।
(ईशावास्यमिदं दृश्यं यस्मिन्सर्वं प्रवर्तते ।)
एवं यो वेदवेदान्तैः प्रसादात्परमेश्वरात् ॥ ४७॥
गुरोश्च (गुरूक्त्य) श्रद्धया चैव सर्वज्ञस्स च शाम्भवः ।
समुनिस्सशिवश्चापि स शिवज्ञानवित्तमः ॥ ४८॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दप्रोक्तं वेदरहस्यकथनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४७ - वेदरहस्यकथनम् । १९.२-४८॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 47 - vedarahasyakathanam . 19.2-48..
Notes:
Skanda स्कन्द narrates the Essence of Śivatattva शिवतत्त्व as in the Mystery of Veda-s (Vedarahasyam वेदरहस्यम्), that was enunciated by Mahādeva महादेव to Devī देवी.
Encoded and proofread by Ruma Dewan