वेदसारश्रीशिवसहस्रनामावलिः

वेदसारश्रीशिवसहस्रनामावलिः

पद्मपुराणान्तर्गता वेदसाराख्या श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । ॐ अस्य श्रीवेदसाराख्यपरमदिव्यशिवसहस्रनाममन्त्रस्य श्रीभगवान् नारायण ऋषिः । अनुष्टुप् छन्दः । परमात्मा श्रीमहादेवो देवता । नमः इति बीजम् । शिवायेति शक्तिः । चैतन्यमिति कीलकम् । श्रीमहादेवप्रीत्यर्थे एवं प्रसादसिद्धयर्थे जपे विनियोगः । अथ न्यासः । ॥ अथ करन्यासः ॥ ॐ नमः शम्भवे च अङ्गुष्ठाभ्यां नमः । ॐ नमः मयोभवे च तर्जनीभ्यां नमः । ॐ नमः शङ्कराय च मध्यमाभ्यां नमः । ॐ नमः मयस्कराय च अनामिकाभ्यां नमः । ॐ नमः शिवाय च कनिष्ठिकाभ्यां नमः । ॐ नमः शिवतराय च करतलकरपृष्ठाभ्यां नमः ॥ ॥ अथ हृदयाद्यङ्गन्यासः ॥ ॐ नमः शम्भवे च हृदयाय नमः । ॐ नमः मयोभवे च शिरसे स्वाहा । ॐ नमः शङ्कराय च शिखायै वषट् । ॐ नमः मयस्कराय च कवचाय हुम् । ॐ नमः शिवाय च नेत्रत्रयाय वौषट् । ॐ नमः शिवतराय च अस्त्राय फट् ॥ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ । अथ ध्यानम् । कैलासाद्रिनिभं शशाङ्ककलया स्फूर्जज्जटामण्डलं नासालोकनतत्परं त्रिनयनं वीरासनाध्यासितम् । मुद्राटङ्ककुरङ्गजानुविलसद्बाहुं प्रसन्नाननं कक्ष्याबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं परम् ॥ १॥ शुद्धस्फटिकसङ्काशं त्रिनेत्रं चेन्दुशेखरम् । पञ्चवक्त्रं महाबाहुं दशबाहुसमन्वितम् ॥ २॥ भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । परिपूर्णं परानन्दं परं ज्योतिः परात्परम् ॥ ३॥ पराशक्त्या श्रिया सार्धं परमानन्दविग्रहम् । सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । श्रीरुद्रं सच्चिदानन्दं ध्यायेत् सर्वात्मसिद्धये ॥ ४॥ ॥ अथ लमित्यादि पञ्चपूजा ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥ अथ सहस्रनामावलिः । ॐ परायदेवाय नमः । ॐ शङ्कराय नमः । ॐ महात्मने नमः । ॐ कामिने नमः । ॐ नीलकण्ठाय नमः । ॐ निर्मलाय नमः । ॐ कपर्दिने नमः । ॐ निर्विकल्पाय नमः । ॐ शान्ताय नमः । ॐ निरहङ्कारिणे नमः । ॐ अनर्घ्याय नमः । ॐ विशालाय नमः । ॐ सालहस्ताय नमः । ॐ निरञ्जनाय नमः । ॐ शर्वाय नमः । ॐ श्रुताय नमः । ॐ परमात्मने (परात्मने) नमः । ॐ शिवाय नमः । ॐ भर्गाय नमः । ॐ गुणातीताय नमः । २० ॐ वेधसे नमः । ॐ महादेवाय नमः । ॐ वीताय नमः । ॐ पार्वतीपतये नमः । ॐ केवलाय नमः । ॐ महेशाय नमः । ॐ विशुद्धाय नमः । ॐ बुधात्मने नमः । ॐ कैवल्याय नमः । ॐ सुदेशाय नमः । ॐ निःस्पृहाय स्वरूपिणे नमः । ॐ सोमविभूषाय नमः । ॐ कालाय नमः । ॐ अमिततेजसे नमः । ॐ अजिराय नमः । ॐ जगत्पित्रे नमः । ॐ जनकाय नमः । ॐ पिनाकिने नमः । ॐ निराधाराय नमः । ॐ सिंहाय नमः । ४० ॐ मायातीताय नमः । ॐ बीजाय नमः । ॐ सर्पभूषाय नमः । ॐ पशूनां पतये नमः । ॐ पुरन्दराय नमः । ॐ भद्राय नमः । ॐ पुरुषाय नमः । ॐ महीयसे नमः । ॐ महासन्तोषरूपाय नमः । ॐ ज्ञानिने नमः । ॐ शुद्धबुद्धये नमः । ॐ वृद्धस्वरूपाय नमः । ॐ तपसे नमः । ॐ परमात्मने नमः । ॐ पूर्वजाय नमः । ॐ सुरेशाय नमः । ॐ ब्रह्मणे नमः । ॐ अनन्तमूर्तये नमः । ॐ निरक्षराय नमः । ॐ सूक्ष्माय नमः । ६० ॐ कैलासपतये नमः । ॐ निरामयाय नमः । ॐ कान्ताय नमः । ॐ निरातङ्काय नमः । ॐ निरालम्बाय नमः । ॐ विश्वाय नमः । ॐ नित्याय यतये नमः । ॐ आत्मारामाय नमः । ॐ भव्याय नमः । ॐ पूज्याय नमः । ॐ परमेष्ठिने नमः । ॐ विकर्तनाय नमः । ॐ सूर्म्याय नमः । ॐ शम्भवे नमः । ॐ विश्वरूपिणे नमः । ॐ ताराय नमः । ॐ हंसनाथाय नमः । ॐ प्रतिसर्याय नमः । ॐ परावरेशरुद्राय नमः । ॐ भवाय नमः । ८० ॐ अलङ्घ्यशक्तये नमः । ॐ इन्द्रध्वंसनिधीशाय नमः । ॐ कालहन्त्रे नमः । ॐ मनस्विने नमः । ॐ विश्वमात्रे नमः । ॐ जगद्धात्रे नमः । ॐ जगन्नेत्रे नमः । ॐ जटिलाय नमः । ॐ विरागाय नमः । ॐ पवित्राय नमः । ॐ मृडाय नमः । ॐ निरवद्याय नमः । ॐ पात्राय नमः । ॐ स्तेनानां पतये नमः । ॐ नादाय नमः । ॐ रविनेत्राय नमः । ॐ व्योमकेशाय नमः । ॐ चतुर्भोगाय नमः । ॐ साराय नमः । ॐ योगिने नमः । १०० ॐ अनन्तमायिने नमः । ॐ धर्मिष्ठाय नमः । ॐ वरिष्ठाय नमः । ॐ पुरत्रयविघातिने नमः । ॐ गरिष्ठाय नमः । ॐ गिरीशाय नमः । ॐ वरदाय नमः । ॐ व्याघ्रचर्माम्बराय नमः । ॐ दिशावस्त्राय नमः । ॐ परमप्रेममन्त्राय नमः । ॐ प्रथमाय नमः । ॐ सुचक्षुषे नमः । ॐ आद्याय नमः । ॐ शूलहस्ताय नमः । ॐ शितिकण्ठाय नमः । ॐ उग्राय नमः । ॐ वामदेवाय नमः । ॐ श्रीकण्ठाय नमः । ॐ विश्वेश्वराय नमः । ॐ सूर्याय नमः । १२० ॐ गौरीशाय नमः । ॐ वराय नमः । ॐ मृत्युञ्जयाय नमः । ॐ वीराय नमः । ॐ वीरभद्राय नमः । ॐ कामनाशाय नमः । ॐ गुरवे नमः । ॐ मुक्तिनाथाय नमः । ॐ विरूपाक्षाय नमः । ॐ सूताय नमः । ॐ वह्निनेत्राय नमः । ॐ जलन्धरशिरच्छेत्रे नमः । ॐ हविषे नमः । ॐ हितकारिणे नमः । ॐ महाकालाय नमः । ॐ वैद्याय नमः । ॐ सङ्घृणेशाय नमः । ॐ ओङ्काररूपाय नमः । ॐ सोमनाथाय नमः । ॐ रामेश्वराय नमः । १४० ॐ शुचये नमः । ॐ भौमेशाय नमः । ॐ त्रियम्बकाय नमः । ॐ निरीहाय नमः । ॐ केदाराय नमः । ॐ गङ्गाधराय नमः । ॐ कवये नमः । ॐ नागनाथाय नमः । ॐ भस्मप्रियाय नमः । ॐ सूद्याय नमः । ॐ लक्ष्मीशाय नमः । ॐ पूर्णाय नमः । ॐ भूतपतये नमः । ॐ सर्वज्ञाय नमः । ॐ दयाळवे नमः । ॐ धर्माय नमः । ॐ धनादेशाय नमः । ॐ गजचर्माम्बराय नमः । ॐ फालनेत्राय नमः । ॐ यज्ञाय नमः । १६० ॐ श्रीशैलपतये नमः । ॐ कृशानुरेतसे नमः । ॐ नीललोहिताय नमः । ॐ अन्धकासुरहन्त्रे नमः । ॐ पावनाय नमः । ॐ बलाय नमः । ॐ चैतन्याय नमः । ॐ त्रिनेत्राय नमः । ॐ दक्षनाशकराय नमः । ॐ सहस्रशिरसे नमः । ॐ जयरूपाय नमः । ॐ सहस्रचरणाय नमः । ॐ योगिहृत्पद्मवासिने नमः । ॐ सद्योजाताय नमः । ॐ वन्द्याय नमः । ॐ सर्वदेवमयाय नमः । ॐ आमोदाय नमः । ॐ प्रगल्भाय नमः । ॐ गायत्रीवल्लभाय नमः । ॐ व्योमाकाराय नमः । १८० ॐ विप्राय नमः । ॐ विप्रप्रियाय नमः । ॐ अघोराय नमः । ॐ सुवेषाय नमः । ॐ श्वेतरूपाय नमः । ॐ विद्वत्तमाय नमः । ॐ चित्राय नमः । ॐ विश्वग्रासाय नमः । ॐ नन्दिने नमः । ॐ अधर्मशत्रुरूपाय नमः । ॐ दुन्दुभेर्मर्दनाय नमः । ॐ अजातशत्रवे नमः । ॐ जगत्प्राणाय नमः । ॐ ब्रह्मशिरश्छेत्रे नमः । ॐ पञ्चवक्त्राय नमः । ॐ खड्गिने नमः । ॐ हरिकेशाय नमः । ॐ पञ्चवर्णाय नमः । ॐ वज्रिणे नमः । ॐ पञ्चाक्षराय नमः । २०० ॐ गोवर्धनधराय नमः । ॐ सर्वलोकानां प्रभवे नमः । ॐ कालकूटविषादिने नमः । ॐ सिद्धेश्वराय नमः । ॐ सिद्धाय नमः । ॐ सहस्रवदनाय नमः । ॐ सहस्रहस्ताय नमः । ॐ सहस्रनयनाय नमः । ॐ सहस्रसूर्तये नमः । ॐ जिष्णवे नमः । ॐ जितशत्रवे नमः । ॐ काशीनाथाय नमः । ॐ गेह्याय नमः । ॐ विश्वसाक्षिणे नमः । ॐ सर्वभूतानां हेतवे नमः । ॐ हेतवे (सर्वजीवानां) पालकाय नमः । ॐ जगत्संहारकाय नमः । ॐ त्रिधावस्थाय नमः । ॐ एकादशस्वरूपाय नमः । ॐ वह्निमूर्तये नमः । २२० ॐ नरसिंहमहादर्पघातिने नमः । ॐ शरभाय नमः । ॐ भस्माभ्यक्ताय नमः । ॐ तीर्थाय नमः । ॐ जाह्नवीजनकाय नमः । ॐ देवदानवदैत्यानां गुरवे नमः । ॐ दलिताञ्जनभासाय नमः । ॐ वायुरूपिणे नमः । ॐ स्वेच्छामन्त्रस्वरूपाय नमः । ॐ प्रसिद्धाय नमः । ॐ वृषध्वजाय नमः । ॐ गोष्ठ्याय नमः । ॐ जगद्यन्त्रप्रवर्तिने नमः । ॐ अनाथाय नमः । ॐ प्रदेशाय नमः । ॐ विष्णुगर्वहराय नमः । ॐ हरेर्विधातृःकलहनाशय नमः । ॐ दशहस्ताय नमः । ॐ गगनाय नमः । ॐ कैवल्यफलदात्रे नमः । २४० ॐ परमाय नमः । ॐ ज्ञानाय नमः । ॐ ज्ञानगम्याय नमः । ॐ घण्टारवप्रियाय नमः । ॐ पद्मासनाय नमः । ॐ पुष्टाय नमः । ॐ निर्वाणाय नमः । ॐ अयोनये नमः । ॐ सुदेहाय नमः । ॐ उत्तमाय नमः । ॐ अन्तकालाधिपतये नमः । ॐ विशालाय नमः । ॐ कुबेरबन्धवे नमः । ॐ सोमाय नमः । ॐ सुखदायिने नमः । ॐ अमृतेश्वररूपाय नमः । ॐ कौबेराय नमः । ॐ प्रियम्वदसमर्थाय नमः । ॐ धन्विने नमः । ॐ विभवे नमः । २६० ॐ गिरिशाय नमः । ॐ गिरित्राय नमः । ॐ गिरिशन्ताय नमः । ॐ पारिजाताय नमः । ॐ पञ्चयज्ञाय नमः । ॐ तरुणाय नमः । ॐ विशिष्टाय नमः । ॐ बालरूपधराय नमः । ॐ जीवतेशाय नमः । ॐ तुष्टाय नमः । ॐ पुष्टानां पतये नमः । ॐ भवहेत्यै नमः । ॐ हिरण्याय नमः । ॐ कनिष्ठाय नमः । ॐ मध्यमाय नमः । ॐ विधात्रे नमः । ॐ शूराय नमः । ॐ सुभगाय नमः । ॐ आदित्यतापनाय नमः । ॐ रुद्रमन्यवे नमः । २८० ॐ महाह्रदाय नमः । ॐ ह्रस्वाय नमः । ॐ वामनाय नमः । ॐ तत्पुरुषाय नमः । ॐ चतुर्हस्ताय नमः । ॐ धूर्जटये नमः । ॐ जगदीशाय नमः । ॐ जगन्नाथस्वरूपाय नमः । ॐ लीलाविग्रहरूपिणे नमः । ॐ अनघाय नमः । ॐ अमराय नमः । ॐ अमृताय नमः । ॐ अच्छात्राय नमः । ॐ लोकाध्यक्षाय नमः । ॐ अनादिनिधनाय नमः । ॐ व्यक्तेतराय नमः । ॐ व्यक्ताय नमः । ॐ परमाणवे नमः । ॐ लघुस्थूलस्वरूपाय नमः । ॐ परशुधारिणे नमः । ३०० ॐ खट्वाङ्गहस्ताय नमः । ॐ नागहस्ताय नमः । ॐ वरदाभयहस्ताय नमः । ॐ घण्टाहस्ताय नमः । ॐ घस्मराय नमः । ॐ अजिताय नमः । ॐ अणिमादिगुणेशाय नमः । ॐ पञ्चब्रह्ममयाय नमः । ॐ पुरातनाय नमः । ॐ शुद्धाय नमः । ॐ बलप्रमथनाय नमः । ॐ पुण्योदयाय नमः । ॐ पद्माय नमः । ॐ विरक्ताय नमः । ॐ उदाराय नमः । ॐ विचित्राय नमः । ॐ विचित्रगतये नमः । ॐ वाग्विशुद्धाय नमः । ॐ चितये नमः । ॐ निर्गुणाय नमः । ३२० ॐ परमेशाय नमः । ॐ शेषाय नमः । ॐ पद्मवराय नमः । ॐ महेन्द्राय नमः । ॐ सुशीलाय नमः । ॐ करवीरप्रियाय नमः । ॐ महापराक्रमाय नमः । ॐ कालरूपिणे नमः । ॐ विष्टरश्रवसे नमः । ॐ लोकचूडारत्नाय नमः । ॐ साम्राज्यकल्पवृक्षाय नमः । ॐ त्विषीमते नमः । ॐ वरेण्याय नमः । ॐ वज्ररूपाय नमः । ॐ परमज्योतिषे नमः । ॐ पद्मगर्भाय नमः । ॐ सलिलाय नमः । ॐ तत्वाधिकाय नमः । ॐ सर्गाय नमः । ॐ दीर्घाय नमः । ३४० ॐ स्रग्विणे नमः । ॐ पाण्डुरङ्गाय नमः । ॐ घोराय नमः । ॐ ब्रह्मरूपिणे नमः । ॐ निष्कलाय नमः । ॐ प्रपथ्याय नमः । ॐ जयाय नमः । ॐ क्षेत्राय नमः । ॐ क्षेत्राणां पतये नमः । ॐ कलाधराय नमः । ॐ पूताय नमः । ॐ पञ्चभूतात्मने नमः । ॐ अनिर्विण्णाय नमः । ॐ तथ्याय नमः । ॐ पापनाशकराय नमः । ॐ विश्वतश्चक्षुषे नमः । ॐ मन्त्रिणे नमः । ॐ अनन्तरूपिणे नमः । ॐ सिद्धसाधकरूपाय नमः । ॐ मेदिनीरूपिणे नमः । ३६० ॐ अगण्याय प्रतापाय नमः । ॐ सुधाहस्ताय नमः । ॐ श्रीवल्लभाय नमः । ॐ ईध्रियाय नमः । ॐ मधुराय नमः । ॐ उपाधिरहिताय नमः । ॐ सुकृतराशये नमः । ॐ मुनीश्वराय नमः । ॐ शिवानन्दाय नमः । ॐ रिपुघ्नाय नमः । ॐ तेजोराशये नमः । ॐ अनुत्तमाय नमः । ॐ चतुर्मूर्तिवपुःस्थाय नमः । ॐ बुद्धीन्द्रियात्मने नमः । ॐ उपद्रवहराय नमः । ॐ प्रियसन्दर्शनाय नमः । ॐ भूतनाथाय नमः । ॐ मूलाय नमः । ॐ वीतरागाय नमः । ॐ नैष्कर्म्याय नमः । ३८० ॐ विरूपाय नमः । ॐ षट्चक्राय नमः । ॐ विशुद्धये नमः । ॐ कुलेशाय नमः । ॐ अवनिभर्त्रे नमः । ॐ भुवनेशाय नमः । ॐ हिरण्यबाहवे नमः । ॐ जीववरदाय नमः । ॐ आदिदेवाय नमः । ॐ भाग्याय नमः । ॐ चन्द्रसञ्जीवनाय नमः । ॐ हराय नमः । ॐ बहुरूपाय नमः । ॐ प्रसन्नाय नमः । ॐ आनन्दपूरिताय नमः । ॐ कूटस्थाय नमः । ॐ मोक्षफलाय नमः । ॐ शाश्वताय नमः । ॐ विरागिणे नमः । ॐ यज्ञभोक्त्रे नमः । ४०० ॐ सुषेणाय नमः । ॐ दक्षयज्ञविघातिने नमः । ॐ सर्वात्मने नमः । ॐ विश्वपालाय नमः । ॐ विश्वगर्भाय नमः । ॐ गर्भाय नमः । ॐ देवगर्भाय नमः । ॐ संसारार्णवमग्नानां समुद्धरणहेतवे नमः । ॐ मुनिप्रियाय नमः । ॐ खल्याय नमः । ॐ मूलप्रकृतये नमः । ॐ समस्तसिद्धये नमः । ॐ तेजोमूर्तये नमः । ॐ आश्रमस्थापकाय नमः । ॐ वर्णिने नमः । ॐ सुन्दराय नमः । ॐ मृगबाणार्पणाय नमः । ॐ शारदावल्लभाय नमः । ॐ विचित्रमायिने नमः । ॐ अलङ्करिष्णवे नमः । ४२० ॐ बर्हिर्मुखमहादर्पमथनाय नमः । ॐ अष्टमूर्तये नमः । ॐ निष्कलङ्काय नमः । ॐ हव्याय भोज्याय नमः । ॐ यज्ञनाथाय नमः । ॐ मेध्याय नमः । ॐ मुख्याय नमः । ॐ विशिष्टाय नमः । ॐ अम्बिकापतये नमः । ॐ महादान्ताय नमः । ॐ सत्यप्रियाय नमः । ॐ सत्याय नमः । ॐ प्रियनित्याय नमः । ॐ नित्यतृप्ताय नमः । ॐ वेदित्रे नमः । ॐ मृदुहस्ताय नमः । ॐ अर्धनारीश्वराय नमः । ॐ कुठारायुधपाणये नमः । ॐ वराहभेदिने नमः । ॐ कङ्कालधारिणे नमः । ४४० ॐ महार्थाय नमः । ॐ सुसत्त्वाय नमः । ॐ कीर्तिस्तम्भाय नमः । ॐ कृतागमाय नमः । ॐ वेदान्तपठिताय नमः । ॐ अश्रोत्राय नमः । ॐ श्रुतिमते नमः । ॐ बहुश्रुतिधराय नमः । ॐ अघ्राणाय नमः । ॐ गन्धावघ्राणकारिणे नमः । ॐ पादहीनाय नमः । ॐ वोढ्रे नमः । ॐ सर्वत्रगतये नमः । ॐ व्यक्षाय नमः । ॐ जननेत्राय नमः । ॐ चिदात्मने नमः । ॐ रसज्ञाय नमः । ॐ रसनारहिताय नमः । ॐ अमूर्ताय नमः । ॐ मूर्ताय नमः । ४६० ॐ सदसस्पतये नमः । ॐ जितेन्द्रियाय नमः । ॐ परञ्ज्योतिःस्वरूपाय नमः । ॐ सर्वमर्त्यानामादिकर्त्रे नमः । ॐ भुवन्तये नमः । ॐ सर्गस्थितिविनाशानां कर्त्रे नमः । ॐ प्रेरकाय नमः । ॐ अन्तर्यामिने नमः । ॐ सर्वहृदिस्थाय नमः । ॐ चक्रभ्रमणकर्त्रे नमः । ॐ पुराणाय नमः । ॐ वामदक्षिणहस्तोत्थलोकेशा-हरिशालिने नमः । ॐ सकलकल्याणदायिने नमः । ॐ प्रसवाय नमः । ॐ स्वभावोदारधीराय नमः । ॐ सूत्रकाराय नमः । ॐ विषयार्णवमग्नानां समुद्धरणसेतवे नमः । ॐ अस्नेहस्नेहरूपाय नमः । ॐ वार्तातिक्रान्तवर्तिने नमः । ॐ यत्र सर्वं यतः सर्वं यत्र नमो नमः । ४८० ॐ महार्णवाय नमः । ॐ भास्कराय नमः । ॐ भक्तिगम्याय नमः । ॐ भक्तानां सुलभाय नमः । ॐ दुष्टानां दुष्प्रधर्षाय नमः । ॐ विवेकिनां विजयाय नमः । ॐ अतर्किताय नमः । ॐ लोकाय नमः । ॐ सुलोकाय नमः । ॐ पूरयित्रे नमः । ॐ विशेषाय नमः । ॐ शुभाय नमः । ॐ कर्पूरदेहाय नमः । ॐ सर्पहाराय नमः । ॐ संसारपाराय नमः । ॐ कमनीयाय नमः । ॐ वह्निदर्पविघाताय नमः । ॐ वायुदर्पविघातिने नमः । ॐ जरातिगाय नमः । ॐ वीर्याय नमः । ५०० ॐ विश्वव्यापिने नमः । ॐ सूर्यकोटिप्रतीकाशाय नमः । ॐ निष्क्रियाय नमः । ॐ चन्द्रकोटिसुशीताय नमः । ॐ विमलाय नमः । ॐ गूढस्वरूपाय नमः । ॐ दिशां पतये नमः । ॐ सत्यप्रतिज्ञाय नमः । ॐ समस्ताय नमः । ॐ समाधये नमः । ॐ एकरूपाय नमः । ॐ शून्याय नमः । ॐ विश्वनाभिह्रदाय नमः । ॐ सर्वोत्तमाय नमः । ॐ कौलाय नमः । ॐ प्राणिनां सुहृदे (सर्वोत्तमाय कालाय) नमः । ॐ अन्नानां पतये नमः । ॐ चिन्मात्राय नमः । ॐ ध्येयाय नमः । ॐ ध्यानगम्याय नमः । ५२० ॐ ध्यानरूपाय नमः । ॐ शाश्वतैश्वर्यविभवाय नमः । ॐ वरिष्ठाय नमः । ॐ गोप्त्रे नमः । ॐ निधनाय नमः । ॐ अग्रजाय नमः । ॐ योगीश्वराय नमः । ॐ योगाय नमः । ॐ योगगम्याय नमः । ॐ प्राणेश्वराय नमः । ॐ सर्वशक्तिधराय नमः । ॐ धर्माधाराय नमः । ॐ धन्याय नमः । ॐ पुष्कलाय नमः । ॐ महेन्द्रोपेन्द्रचन्द्रार्कनमिताय नमः । ॐ महर्षिवन्दिताय नमः । ॐ प्रकाशाय नमः । ॐ सुधर्मिणे नमः । ॐ हिरण्यगर्भवे नमः । ॐ हिरण्मयाय नमः । ५४० ॐ जगद्बीजाय नमः । ॐ हरये नमः । ॐ सेव्याय नमः । ॐ क्रतवे नमः । ॐ आधिपत्त्याय नमः । ॐ कामाय नमः । ॐ यशसे नमः । ॐ प्रचेतसे नमः । ॐ ब्रह्ममयाय नमः । ॐ सकलाय नमः । ॐ रुक्मवर्णाय नमः । ॐ ब्रह्मयोनये नमः । ॐ योगात्मने नमः । ॐ अभीताय नमः । ॐ दिव्यनृत्ताय नमः । ॐ जगतामेकबीजाय नमः । ॐ मायाबीजाय नमः । ॐ सर्वहृत्सन्निविष्टाय नमः । ॐ ब्रह्मचक्रभ्रमाय नमः । ॐ ब्रह्मानन्दाय नमः । ५६० ॐ महते नमः । ॐ ब्रह्मण्याय नमः । ॐ भूरिभारार्तिसंहर्त्रे नमः । ॐ विधिसारथये नमः । ॐ हिरण्यगर्भपुत्राणां प्राणसंरक्षणाय नमः । ॐ दुर्वाससे नमः । ॐ षड्विकाररहिताय नमः । ॐ देहार्धकान्ताय नमः । ॐ षडूर्मिरहिताय नमः । ॐ प्रकृत्यै भवनाशाय नमः । ॐ ताम्राय नमः । ॐ परमेष्ठिने नमः । ॐ अनेक (अनन्त)कोटि-ब्रह्माण्डनायकाय नमः । ॐ एकाकिने नमः । ॐ निर्मलाय नमः । ॐ द्रविणाय नमः । ॐ दमाय नमः । ॐ त्रिलोचनाय नमः । ॐ शिपिविष्टाय नमः । ॐ बन्धवे नमः । ५८० ॐ त्रिविष्टपेश्वराय नमः । ॐ व्याघ्रेश्वराय नमः । ॐ विश्वेश्वराय नमः । ॐ दात्रे नमः । ॐ चन्द्रेश्वराय नमः । ॐ व्यासेश्वराय नमः । ॐ युधिने नमः । ॐ यज्ञकेशाय (व्यासेश्वराय) नमः । ॐ जैगीषव्येश्वराय नमः । ॐ दिवोदासेश्वराय नमः । ॐ नागेश्वराय नमः । ॐ न्यायाय नमः । ॐ न्यायनिर्वाहकाय नमः । ॐ शरण्याय नमः । ॐ सुपात्राय नमः । ॐ कालचक्रप्रवर्तिने नमः । ॐ विचक्षणाय नमः । ॐ दंष्ट्राय नमः । ॐ वेदाश्वाय नमः । ॐ नीलजीमूतदेहाय नमः । ६०० ॐ परात्मज्योतिषे नमः । ॐ शरणागतपालाय नमः । ॐ महाबलपराय नमः । ॐ सर्वपापहरायाथाय नमः । ॐ महानादाय नमः । ॐ कृष्णस्य जयदात्रे नमः । ॐ बिल्वकेशाय नमः । ॐ दिव्यभोगाय नमः । ॐ दूताय नमः । ॐ कोविदाय नमः । ॐ कामपाशाय नमः । ॐ चित्राय नमः । ॐ चित्राङ्गाय नमः । ॐ मातामहाय नमः । ॐ मातरिश्वने नमः । ॐ निःसङ्गाय नमः । ॐ सुनेत्राय नमः । ॐ विद्येशाय नमः । ॐ जयाय नमः । ॐ व्याजसम्मर्दनायाथाय नमः । ६२० ॐ मध्यस्थाय नमः । ॐ अङ्गुष्ठशिरसा लङ्कानाथदर्पहराय नमः । ॐ वैयाघ्रपुरवासाय नमः । ॐ सर्वेश्वराय नमः । ॐ परावरेशाय नमः । ॐ जगत्स्थावरमूर्तये नमः । ॐ अनुपमेशाय नमः । ॐ शार्ङ्गिणे नमः । ॐ विष्णुमूर्तये नमः । ॐ नारायणाय नमः । ॐ रामाय नमः । ॐ सुदीप्ताय नमः । ॐ ब्रह्माण्डमालाय नमः । ॐ गोधराय नमः । ॐ वरूथिने नमः । ॐ सोमाय नमः । ॐ कूप्याय नमः । ॐ पातालवासिने नमः । ॐ ताराधिनाथाय नमः । ॐ वागीशाय नमः । ६४० ॐ सदाचाराय नमः । ॐ गौराय नमः । ॐ स्वायुधाय नमः । ॐ अतर्क्याय नमः । ॐ अप्रमेयाय नमः । ॐ प्रमाणाय नमः । ॐ कलिग्रासाय नमः । ॐ भक्तानां भुक्तिमुक्तिप्रदायिने नमः । ॐ संसारमोचनाय नमः । ॐ सच्चिदानन्दरूपाय नमः । ॐ वर्णिने नमः । ॐ लिङ्गरूपिणे नमः । ॐ सच्चिदानन्दरूपाय नमः । ॐ पापराशिहराय नमः । ॐ गजारये नमः । ॐ विदेहाय नमः । ॐ त्रिलिङ्गरहिताय नमः । ॐ अचिन्त्यशक्तये नमः । ॐ अलङ्घ्यशासनाय नमः । ॐ अच्युताय नमः । ६६० ॐ राजाधिराजाय नमः । ॐ चैतन्यविषयाय नमः । ॐ शुद्धात्मने नमः । ॐ ब्रह्मज्योतिषे नमः । ॐ स्वस्तिदाय नमः । ॐ मयोभुवे नमः । ॐ दुर्विज्ञेयसामर्थ्याय नमः । ॐ यज्वने नमः । ॐ चक्रेश्वराय नमः । ॐ नक्षत्रमालिने नमः । ॐ अनर्थनाशनाय नमः । ॐ भस्मलेपकराय नमः । ॐ सदानन्दाय नमः । ॐ विदुषे नमः । ॐ सगुणाय नमः । ॐ विरोधिने नमः । ॐ दुर्गमाय नमः । ॐ शुभाङ्गाय नमः । ॐ मृगव्याधाय नमः । ॐ प्रियाय नमः । ६८० ॐ धर्मधाम्ने नमः । ॐ प्रयोगाय नमः । ॐ विभागिने नमः । ॐ नाद्याय नमः । ॐ अमृतपाय नमः । ॐ सोमपाय नमः । ॐ तपस्विने नमः । ॐ विचित्रवेषाय नमः । ॐ पुष्टिसंवर्धनाय नमः । ॐ चिरन्तनाय नमः । ॐ धनुषे नमः । ॐ वृषाणां पतये नमः । ॐ निर्मायाय नमः । ॐ अग्रगण्याय नमः । ॐ व्योमातीताय नमः । ॐ संवत्सराय नमः । ॐ लोप्याय नमः । ॐ स्थानदाय नमः । ॐ स्थविष्णवे नमः । ॐ व्यवसायफलान्ताय नमः । ७०० ॐ महाकर्तृप्रियाय नमः । ॐ गुणत्रयस्वरूपाय नमः । ॐ सिद्धस्वरूपिणे नमः । ॐ स्वरूपरूपाय नमः । ॐ स्वेच्छाय नमः । ॐ पुरुषाय नमः । ॐ कालात्पराय नमः । ॐ वेद्याय नमः । ॐ ब्रह्माण्डरूपिणे नमः । ॐ अनित्यनित्यरूपाय नमः । ॐ तदन्तर्वर्तिने नमः । ॐ तीर्थ्याय नमः । ॐ कूल्याय नमः । ॐ पूर्णाय नमः । ॐ वटवे नमः । ॐ पञ्चतन्मात्ररूपाय नमः । ॐ पञ्चकर्मेन्द्रियात्मने नमः । ॐ विश‍ृङ्खलाय नमः । ॐ दर्पाय नमः । ॐ विषयात्मने नमः । ७२० ॐ अनवद्याय नमः । ॐ शास्त्राय नमः । ॐ स्वतन्त्राय नमः । ॐ अमृताय नमः । ॐ प्रौढाय नमः । ॐ प्रज्ञाय नमः । ॐ योगारूढाय नमः । ॐ मन्त्रज्ञाय नमः । ॐ प्रगल्पाय नमः । ॐ प्रदीपविमलाय नमः । ॐ विश्ववासाय नमः । ॐ दक्षाय नमः । ॐ वेदनिःश्वसिताय नमः । ॐ यज्ञाङ्गाय नमः । ॐ सुवीराय नमः । ॐ नागचूडाय नमः । ॐ व्याघ्राय नमः । ॐ बाणहस्ताय नमः । ॐ स्कन्दाय नमः । ॐ दक्षिणे नमः । ७४० ॐ क्षेत्रज्ञाय नमः । ॐ रहस्याय नमः । ॐ स्वस्थानाय नमः । ॐ वरीयसे नमः । ॐ गहनाय नमः । ॐ विरामाय नमः । ॐ सिद्धान्ताय नमः । ॐ महीधराय नमः । ॐ गृह्याय नमः । ॐ वटवृक्षाय नमः । ॐ ज्ञानदीपाय नमः । ॐ दुर्गाय नमः । ॐ सिद्धान्तैर्निश्चिताय नमः । ॐ श्रीमते नमः । ॐ मुक्तिबीजाय नमः । ॐ कुशलाय नमः । ॐ विवासिने नमः । ॐ प्रेरक्षाय नमः । ॐ विशोकाय नमः । ॐ हविर्धानाय नमः । ७६० ॐ गम्भीराय नमः । ॐ सहायाय नमः । ॐ भोजनाय नमः । ॐ सुभोगिने नमः । ॐ महायज्ञाय नमः । ॐ तीक्ष्णाय नमः । ॐ भूतचारिणे नमः । ॐ प्रतिष्ठिताय नमः । ॐ महोत्साहाय नमः । ॐ परमार्थाय नमः । ॐ शिशवे नमः । ॐ प्रांशवे नमः । ॐ कपालिने नमः । ॐ सहजाय गृहस्थाय नमः । ॐ सन्ध्यानाथाय नमः । ॐ विष्णवे नमः । ॐ सद्भिःसम्पूजिताय नमः । ॐ वितलासुरघातिने नमः । ॐ जनाधिपाय नमः । ॐ योग्याय नमः । ७८० ॐ कामेशाय नमः । ॐ किरीटिने नमः । ॐ अमोघविक्रमाय नमः । ॐ नग्नाय नमः । ॐ दलघातिने नमः । ॐ सङ्ग्रामाय नमः । ॐ नरेशाश्वराय नमः । ॐ शुचिभस्मने नमः । ॐ भूतिप्रियाय नमः । ॐ भूम्ने नमः । ॐ सेनाय नमः । ॐ चतुराय नमः । ॐ मनुष्यबाह्यगतये नमः । ॐ कृतज्ञाय नमः । ॐ शिखण्डिने नमः । ॐ निर्लेपाय नमः । ॐ जटार्द्राय नमः । ॐ महाकालाय नमः । ॐ मेरवे नमः । ॐ विरूपरूपाय नमः । ८०० ॐ शक्तिगम्याय नमः । ॐ सर्वाय नमः । ॐ सदसत्सत्याय नमः । ॐ सुव्रताय नमः । ॐ भक्तिप्रियाय नमः । ॐ श्वेतरक्षापराय नमः । ॐ सुकुमारमहापापहराय नमः । ॐ रथिने नमः । ॐ धर्मराजाय नमः । ॐ धनाध्यक्षाय नमः । ॐ सिद्धये नमः । ॐ महाभूताय नमः । ॐ कल्पाय नमः । ॐ कल्पनारहिताय नमः । ॐ ख्याताय नमः । ॐ जितविश्वाय नमः । ॐ गोकर्णाय नमः । ॐ सुचारवे नमः । ॐ श्रोत्रियाय नमः । ॐ वदान्याय नमः । ८२० ॐ दुर्लभाय नमः । ॐ कुटुम्बिने नमः । ॐ विरजाय (विरजसे) नमः । ॐ सुगन्धाय नमः । ॐ विश्वम्भराय नमः । ॐ भवातीताय नमः । ॐ तिष्याय नमः । ॐ सामगाय नमः । ॐ चिन्मयाय नमः । ॐ शुक्लज्योतिषे नमः । ॐ क्षेत्रगाय नमः । ॐ अद्वैताय नमः । ॐ द्वितीयाय नमः । ॐ कल्पराजाय नमः । ॐ भोगिने नमः । ॐ सर्वभोगसमृद्धाय नमः । ॐ साम्पराय नमः । ॐ स्वप्रकाशाय नमः । ॐ स्वच्छन्दाय नमः । ॐ सुतन्तवे नमः । ८४० ॐ सर्वज्ञमूर्तये नमः । ॐ गुह्येशाय नमः । ॐ सुशान्तये नमः । ॐ शारदाय नमः । ॐ सुशीलाय नमः । ॐ कौशिकाय नमः । ॐ धनाय नमः । ॐ अभिरामाय नमः । ॐ तत्त्वाय नमः । ॐ व्यालकल्पाय नमः । ॐ अरिष्टमथनायाथाय नमः । ॐ सुप्रतीकाय नमः । ॐ आशवे नमः । ॐ ब्रह्मगर्भाय नमः । ॐ वरुणाय नमः । ॐ अद्रये नमः । ॐ कालाग्निरुद्राय नमः । ॐ श्यामाय नमः । ॐ सुजनाय नमः । ॐ अहिर्बुध्न्याय नमः । ८६० ॐ जाराय नमः । ॐ दुष्टानां पतये नमः । ॐ समयनाथाय नमः । ॐ समयाय नमः । ॐ गुहाय नमः । ॐ दुर्लङ्घ्याय नमः । ॐ छन्दस्साराय नमः । ॐ दंष्ट्रिणे नमः । ॐ ज्योतिर्लिङ्गाय नमः । ॐ मित्राय नमः । ॐ जगतां हितकारिणे नमः । ॐ कारुण्यनिधये नमः । ॐ श्लोकाय नमः । ॐ जयशालिने नमः । ॐ ज्ञानोदयाय नमः । ॐ बीजाय नमः । ॐ जगद्विभ्रमहेतवे नमः । ॐ अवधूताय नमः । ॐ शिष्टाय नमः । ॐ छन्दसां पतये नमः । ८८० ॐ फेन्याय नमः । ॐ गुह्याय नमः । ॐ सर्वबन्धविमोचिने नमः । ॐ उदारकीर्तये नमः । ॐ शश्वत्प्रसन्नवदनाय नमः । ॐ वसवे नमः । ॐ वेदकाराय नमः । ॐ भ्राजिष्णुजिष्णवे नमः । ॐ चक्रिणे नमः । ॐ देवदेवाय नमः । ॐ गदाहस्ताय नमः । ॐ पुत्रिणे नमः । ॐ पारिजातसुपुष्पाय नमः । ॐ गणाधिपतये नमः । ॐ सर्वशाखाधिपतये नमः । ॐ प्रजनेशाय नमः । ॐ सूक्ष्मप्रमाणभूताय नमः । ॐ सुरपार्श्वगताय नमः । ॐ अशरीरशरीराय नमः । ॐ अप्रगल्भाय नमः । ९०० ॐ सुकेशाय नमः । ॐ सुपुष्पाय नमः । ॐ श्रुतये नमः । ॐ पुष्पमालिने नमः । ॐ मुनिध्येयाय नमः । ॐ मुनये नमः । ॐ बीजसंस्थमरीचये नमः । ॐ चामुण्डाजनकाय नमः । ॐ कृत्तिवाससे नमः । ॐ व्युप्तकेशाय नमः । ॐ योग्याय नमः । ॐ धर्मपीठाय नमः । ॐ महावीर्याय नमः । ॐ दीप्ताय नमः । ॐ बुद्धाय नमः । ॐ अशनये नमः । ॐ विशिष्टेष्टाय नमः । ॐ सेनान्ये नमः । ॐ द्विपदे नमः । ॐ कारणानां कारणाय नमः । ९२० ॐ भगवते नमः । ॐ बाणदर्पहराय नमः । ॐ अतीन्द्रियाय नमः । ॐ रम्याय नमः । ॐ जनानन्दकराय नमः । ॐ सदाशिवाय नमः । ॐ सौम्याय नमः । ॐ चिन्त्याय नमः । ॐ शशिमौलने (लये) नमः । ॐ जातूकर्ण्याय नमः । ॐ सूर्याध्यक्षाय नमः । ॐ ज्योतिषे नमः । ॐ कुण्डलीशस्य वरदाय नमः । ॐ अभयाय नमः । ॐ वसन्ताय नमः । ॐ सुरभये नमः । ॐ जयारिमथनाय नमः । ॐ प्रेम्णे नमः । ॐ पुरञ्जयायाथाय नमः । ॐ पृषदश्वाय नमः । ९४० ॐ रोचिष्णवे नमः । ॐ असुरजिते नमः । ॐ श्वेतपीताय नमः । ॐ चञ्चरीकाय नमः । ॐ तमिस्रमथनाय नमः । ॐ प्रमाथिने नमः । ॐ निदाघाय नमः । ॐ चित्रगर्भाय नमः । ॐ शिवालयाय नमः । ॐ स्तुत्याय नमः । ॐ तीर्थदेवाय नमः । ॐ पत्तीनां पतये नमः । ॐ विचित्रशक्तये नमः । ॐ निस्तुलरूपाय नमः । ॐ सवित्रे नमः । ॐ तपसे नमः । ॐ अहङ्कारस्वरूपाय नमः । ॐ मेघाधिपतये नमः । ॐ अपाराय नमः । ॐ तत्त्वविदे नमः । ९६० ॐ क्षयद्वीराय नमः । ॐ पञ्चास्याय नमः । ॐ अग्रगण्याय नमः । ॐ विष्णुप्राणेश्वराय नमः । ॐ अगोचराय नमः । ॐ याम्याय नमः । ॐ क्षेम्याय नमः । ॐ वडवाग्नये नमः । ॐ विक्रमाय नमः । ॐ स्वतन्त्राय नमः । ॐ स्वतन्त्रगतये नमः । ॐ वनानां पतये नमः । ॐ जमदग्नये नमः । ॐ अनावृताय नमः । ॐ मुक्ताय नमः । ॐ मातृकापतये नमः । ॐ बीजकोशाय नमः । ॐ दिव्यानन्दाय नमः । ॐ विश्वदेवाय नमः । ॐ शान्तरागाय नमः । ९८० ॐ विलोचनसुदेवाय नमः । ॐ हेमगर्भाय नमः । ॐ अनाद्यन्ताय नमः । ॐ चण्डाय नाथाय नमः । ॐ ज्ञानस्कन्दाय नमः । ॐ तुष्टाय नमः । ॐ कपिलाय महर्षये नमः । ॐ त्रिकाग्निकालाय नमः । ॐ देवसिह्माय नमः । ॐ मणिपूराय नमः । ॐ चतुर्वेदाय नमः । ॐ स्वरूपाणां स्वभावाय नमः । ॐ अन्तर्यागाय नमः । ॐ श्लोक्याय नमः । ॐ वन्याय नमः । ॐ महाधर्माय नमः । ॐ प्रसन्नाय नमः । ॐ सर्वात्मज्योतिषे नमः । ॐ त्रिमूर्तीनां स्वयम्भुवे नमः । ॐ अध्वातीताय नमः । १००० ॥ इति श्रीपद्मपुराणोक्ता वेदसारशिवसहस्रनामावलिः सम्पूर्णा ॥ ॥ शाम्बशिवार्पणमस्तु ॥ ॥ ॐ तत्सत् ॥ Proofread by Revathy Rajaraman
% Text title            : Vedasara Shivasahasranamavali from PadmapurAna
% File name             : vedasArashivasahasranAmAvalIpadmapurANa.itx
% itxtitle              : shivasahasranAmAvaliH (vedasAra padmapurANAntargatA parAyadevAya shaNkarAya mahAtmane)
% engtitle              : Vedasara Shiva Sahasranamavali from PadmapurAna
% Category              : sahasranAmAvalI, shiva, padmapurANa
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman
% Description-comments  : See corresponding stotram.
% Indexextra            : (Scan, stotram)
% Latest update         : August 3, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org