विष्णुब्रह्मौकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
विष्णुरुवाच ।
उग्रोऽनुग्रोऽसि शम्भो पुरहर भगवन्नकारे कपर्दिन्
भूतेशामरपाल शङ्करमहाग्रासोऽसि वेदेरितः ।
मां पाहीश्वर सामिसोमशकलालङ्कारमौले हर
स्वामिन्देव दयानिधे करुणया त्वं सर्वसर्वेश्वर ॥ ११॥
हे मन्मथान्तक महेश्वर देवदेव
श्रीवामदेव जितकाम उमासहाय ।
व्योमादिभूम श्रुतिसीम सुखादिधाम
सामैस्स्तुवाम हर सोम ललाम पाहि ॥ १२॥
भो भर्ग त्रिजगच्छरण्य करुणातारुण्यवारान्निधे
हे कालान्तक देवदानवसुहृद्यक्षादिसंसेवित ।
वीक्षाशिक्षितमन्मथान्तक महादक्षादिदीक्षापह
उक्षाध्यक्षभगाक्षिनाशक महादेवाद्य संवीक्षय ॥ १३॥
जटाजूटाभूषा तव सुरसरित्पूरमसकृत्
(जटाजूटाभूषायित सुरसरित्पूर असकृत्)
महाघोटीधाटी श्रुतिवचन कोटीरक विभो ।
वधूटी शैलाज्ज(शैलस्य)तरुणशशिचूडाल भगवन्
अनाथं मां शम्भो सुखयतु सनाथा तव कृपा ॥ १४॥
वेदाश्वसारथिविधे रविचन्द्रचक्र
क्ष्मास्यन्दन क्षितिधरात्तशरासनज्य ।
सोमग्नि विष्णुशरकृत्तपुरादिकस्त्वं
जेता रथेष्वधिपतिस्सुरसैन्यपालः ॥ १५॥
वश्यान्पश्यामि शम्भो तव वर करुणापार पूरैकराशान्
वाराशीनमरासुरद्विजवरांल्लोकांश्च लोक्यानपि ।
मां निस्तारय विस्तरोरुजठरी कान्तारतस्त्वं विभो
बिभ्यन्तं करुणारुणद्धि यदि ते चित्ते न हृत्तो हर ॥ १६॥
ब्रह्मोवाच
यक्षाधीशसखं वलक्षभसितानङ्गाङ्गमुक्षस्थितं
(यक्षाधीशसखं वलक्षभसिताङ्गं सन्महोक्षस्थितं)
पक्षीन्द्रप्रियवाहपूजितमुमावक्षोजशैलप्रियम् ।
भिक्षापूर्णकपालपाणि सुरतापक्षस्थितं त्वां भजे
त्र्यक्षं दक्षसुशिक्षकं पुरहरं चक्षुःश्रवाकल्पकम् ॥ २०॥
मातङ्गत्वगलङ्कृताङ्गमविजाकान्तं कुरङ्गाङ्गधृ-
ग्घारीभूतभुजङ्गराजविलसद् गङ्गाकपर्दोज्ज्वलम् ।
लीलाङ्गीकृतलिङ्गसङ्गतमहाभाले पतङ्गस्फुर-
ज्ज्वालालोलवराङ्गभङ्गसुमहद्विध्यध्युत्तमाङ्गं भजे ॥ २१॥
हरपुरहर घोरकाकोदरहाराव भवोद्भवां तथार्तिम् ।
परिहरकराद्यशङ्कर त्रिजगद्बन्धविराम देव पाहि ॥ २२॥
भव तव विभवावलोकभावा
भवनाशाय किल प्रबुद्धभावाः ।
प्रभवाय विसृष्टि संस्थितौ
मम किञ्चित्त्वयि भाव मा दधस्व ॥ २३॥
शम्भो बालेन्दुचूड द्युतिविदितदिशास्तोमसीमानुधाम
प्रेमा ते महिमावलोकन विधौ क्वाहं हरिर्वाहरः ।
विश्वाधीश्वरवेदजालसुमहानिःश्वासविश्वासिनं
तद्दातुं प्रभवेद्भवान् प्रभुरहो किं वच्मि तत्तेऽग्रतः ॥ २४॥
॥ इति शिवरहस्यान्तर्गते विष्णुब्रह्मौकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः १५ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 15 . vAvRRittashlokAH ..
Proofread by Ruma Dewan