विष्णुकृता शिवस्तुतिः १

विष्णुकृता शिवस्तुतिः १

(शिवरहस्यान्तर्गते उग्राख्ये) विष्णुरुवाच । शिव एव महादेवो देवदेवोत्तमः प्रभुः ॥ १२३.२॥ शिव एव ममाराध्यः शिव एव धनं मम । शिव एव मम स्वामी शिव एवं प्रभुर्मम ॥ १२४॥ शिव एव हि निक्षेपः शिव एव हि जीवनम् । शिव एव हि कल्याणं शिव एव हि भूषणम् ॥ १२५॥ शिव एव ममाशास्यः शिव एव परा गतिः । शिव एव ममाभ्यर्च्यः शिव एव ममेष्टदः ॥ १२६॥ श‍ृणोम्यहं शिवकथां शिवमेवार्चयाम्यहम् । पश्यामि च जगत्सर्वं शिवरूपं चराचरम् ॥ १२७॥ सर्वपापहरं पुण्यं शिवनाम जपाम्यहम् । यमाहुः पार्वतीनाथं वेदास्तमहमीश्वरम् ॥ १२८॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुः श्रीविरूपाक्षं वेदास्तमहमीश्वरम् ॥ १२९॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्जगतामीशं वेदास्तमहमीश्वरम् ॥ १३०॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुः परमेशानं वेदास्तमहमीश्वरम् ॥ १३१॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुः शम्भुमनघं वेदास्तमहमीश्वरम् ॥ १३२॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुस्तारकं ब्रह्म वेदास्तमहमीश्वरम् ॥ १३३॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुस्सर्वकर्तारं वेदास्तमहमीश्वरम् ॥ १३४॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्निष्प्रतिद्वन्द्वं वेदास्तमहमीश्वरम् ॥ १३५॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्यज्ञफलदं वेदास्तमहमीश्वरम् ॥ १३६॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्ज्ञानदातारं वेदास्तमहमीश्वरम् ॥ १३७॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुः शिवमद्वैतं वेदास्तमहमीश्वरम् ॥ १३८॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्निर्गुणं शान्तं वेदास्तमहमीश्वरम् ॥ १३९॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्निष्क्रियं शुद्धं वेदास्तमहमीश्वरम् ॥ १४०॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्निष्कलं नित्यं वेदास्तमहमीश्वरम् ॥ १४१॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । यमाहुर्मृत्युहन्तारं वेदास्तमहमीश्वरम् ॥ १४२॥ पूजयाम्यतियत्नेन प्रणमामि च सर्वदा । १४३.१ ॥ इति शिवरहस्यान्तर्गते विष्णुकृता शिवस्तुतिः १ सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। १२३.२-१४३।१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 22 . 123.2-143.1.. Proofread by Ruma Dewan
% Text title            : Vishnukrita Shiva Stuti 1
% File name             : viShNukRRitAshivastutiH1.itx
% itxtitle              : shivastutiH viShNukRitA 1 (shivarahasyAntargatA shiva eva mahAdevo devadevottamaH prabhuH)
% engtitle              : viShNukRRitA shivastutiH 1
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 22| 123.2-143.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org