विष्णुकृता शिवस्तुतिः २
(शिवरहस्यान्तर्गते उग्राख्ये)
विष्णुरुवाच ।
विश्वेश्वरोऽयं मदनान्तकोऽयं
मृत्युञ्जयोऽयं त्रिपुरान्तकोऽयम् ।
सर्वेश्वरोऽयं सुरवन्दितोऽयं
गौरीश्वरोऽयं च यमान्तकोऽयम् ॥ ५१३॥
विज्ञानमानन्दमनन्तमीड्यं
विश्वेश्वरं लिङ्गमिदं मनोज्ञम् ।
पश्यैतदाद्यन्तविहीनमार्ये
समर्चयात्रेश्वरमादिदेवम् ॥ ५१४॥
॥ इति शिवरहस्यान्तर्गते विष्णुकृता शिवस्तुतिः २ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ५१३-५१४॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 513-514..
Notes:
Viṣṇu विष्णु eulogizes and worships Viśveśvara Śiva विश्वेश्वर शिव, while residing in Kāśī काशी.
Proofread by Ruma Dewan