विष्णुकृता ३ शिवस्तुतिः
(शिवरहस्यान्तर्गते ईश्वराख्ये)
विष्णुः उवाच ।
त्र्यक्षाक्षस्योरुरक्षाक्षपितहृदि ममध्वान्तसङ्घातवक्षः-
क्षोभाक्षाक्षतशिक्षया द्रुतसुराध्यक्षाद्यसंवीक्षितः ।
वीक्षाशिक्षितदक्षपक्षसुमधृक्लान्तक स्वध्वरा-
ध्यक्षाक्षोभ्य गुणाकरार्णव विभो मां रक्ष उक्षध्वज (पालयोक्षम्) ॥ ४३॥
वेदान्तस्तुतवस्तुरूपरहितामेयादिमायोज्झित
प्रज्ञानन्दघनैक निस्तुल लसत्प्राचांवचोदूरग ।
मस्तेनाभिनमन्ति ये तवपदं ते स्वस्तये हि क्षितौ
स्तोता कस्तव संस्तवोऽघगणनागण्येषु सक्तं मनः ॥ ४४॥
अशक्यं ते रूपं परम परमप्राप्य हर यो (ये)
भवाभावं प्राप्ता विधिहरिसुराश्चासुरगणाः ।
महाग्रासो रुद्रो भवसि भगवन् अद्भुततरो
वरीयानोजिष्ठो बृहदणुकरूपोऽसि महिमा(तः) ॥ ४५॥
॥ इति शिवरहस्यान्तर्गते विष्णुकृता शिवस्तुतिः ३ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ७ । ४३-४५॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 7 . 43-45..
Proofread by Ruma Dewan