विष्णुकृतः शिवस्तवः
विष्णुरुवाच -
देवोत्तमो महादेवः पूजनीयः प्रयत्नतः ।
स एव सर्वदेवेशः स एव जगदीश्वरः ॥ ९१॥
न तस्मादधिको देवः स एवाखिलपुङ्गवः ।
वेदवेदान्तसंवेद्यः स एव श्रुतिसंस्तुतः ॥ ९२॥
स एव सर्वलोकानां मोक्षदो मुक्तिनायकः ।
स एव सर्वभावेन पूजनीयो द्विजामरैः ॥ ९३॥
जगदुत्पद्यते यस्मात्तस्मिन्नेव प्रलीयते ।
तस्यैश्वर्याण्यनन्तानि स एव परमेश्वरः ॥ ९४॥
शङ्करादधिको देवो नास्ति न श्रूयतेऽपि च ।
शङ्करः सर्वदेवानामधिकः शङ्करो ध्रुवम् ॥ ९५॥
पुनः पुनर्विचार्येव वेदशास्त्राणि तत्त्वतः ।
शिव एव सदा पूज्य इति पूर्वं विनिश्चितम् ॥ ९६॥
सत्यं सत्यं पुनः सत्यं सत्यमेवोच्यते मया ।
शिव एव सदा सेव्यः सेव्यः सेव्यो न संशयः ॥ ९७॥
शिव एव सदा पूज्यः स्मर्तव्यः शिव एव हि ।
शिव एव सदा सेव्यो मुक्तिरूपफलेप्सुभिः ॥ ९८॥
शिवान्यो मुक्तिदो नास्ति शिव एव ततो जनैः ।
सम्प्रायः सर्वभावेन यत्नैश्च विविधैर्वरैः ॥ ९९॥
वेदैरपि शिवो ध्येयो न ज्ञातस्तत्त्वतोऽनघैः ।
स एव सर्वदा पूज्यो ध्येयः स्मर्तव्य एव च ॥ १००॥
शिवो धनं शिवो बन्धुः शिवस्त्राता शिवः पिता ।
शिवः प्रभुः शिवो दाता शिवान्नास्त्यधिकः परः ॥ १०१॥
शिवलिङ्गं मया पूर्वमार्चितं बहुसाधनैः ।
इदानीमपि पश्येत (पश्यैतत्) लिङ्गं सम्पूज्यते मया ॥ १०२॥
लिङ्गार्चनजपुण्येन काशी सम्प्राप्यते कथं (मया) ।
पिबेस्सर्वैः सर्वार्थसिध्यर्थं सर्वपापौघशान्तये ॥ १०३॥
लिङ्गपूजैव कर्तव्या मुमुक्षुभिरहर्निशम् ।
बहवो मोक्षमापन्नाः शिवलिङ्गस्य पूजया ॥ १०४॥
देवैर्नरैश्च गन्धर्वैर्मुनिभिश्च मुमुक्षुभिः ।
अप्रमादेन कर्तव्या लिङ्गपूजैव सर्वथा ॥ १०५॥
``ऊर्ध्वाय नम'' इत्यादि मन्त्रैर्लिङ्गस्य पूजनम् ।
कर्तव्यमनिशं विप्रैर्देवैश्च शिवतत्परैः ॥ १०६॥
शिवस्य सन्निधिर्लिङ्गे सर्वकालेषु सर्वदा ।
तिष्ठत्यतो लिङ्गपूजा कर्तव्या सततं बुधैः ॥ १०७॥
वेदोक्तलिङ्गपूजैव कर्तव्या सततं द्विजैः ।
वेदमार्गरतैः शुद्धैर्मोक्षरूपफलार्थिभिः ॥ १०८॥
॥ इति शिवरहस्यान्तर्गते विष्णुकृतः शिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ६ । ९१-१०८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 6 . 91-108..
Notes:
Viṣṇu विष्णु eulogizes Śiva शिव while spending time in worshiping Him at the Viśveśvara Jyotirliṅga विश्वेश्वर ज्योतिर्लिङ्ग at Kāśī काशी and performing austerities at Jñānavāpī ज्ञानवापी.
Proofread by Ruma Dewan