विष्णुकृतं ४ शिवस्तोत्रम्
भगवानुवाच ।
नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे ।
नमस्ते अस्तु शोचिषे नमस्ते उपवासिने ॥ १॥
नमस्ते अस्तु मीढुषे नमस्ते गदिने हर ।
नमस्ते विश्वमूर्तये वृषाय वृषरूपिणे ॥ २॥
उपनिर्याय(?) च नमो वृषाय वृषरूपिणे ।
अमूर्ताय च देवाय नमस्तेऽस्तु पिनाकिने ॥ ३॥
नमो घोराय घोराय घोरघोरप्रियाय च ।
नामः कुब्जाय कूपाय शिवाय शिवरूपिणे ॥ ४॥
नमस्तुण्डाय तुष्टाय नमस्तुटितुटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः ॥ ५॥
नमो हराय हिप्राय(?) नमो हरिहराय च ।
नमोऽघोराय घोराय घोरघोरप्रियाय च ॥ ६॥
नमोऽघण्टाय घण्टाय नमो घटिघटाय च ।
नमः शर्वाय शान्ताय भूताधिपतये नमः ॥ ७॥
नमो नमो विरूपाय पुराय पुरहारिणे ।
नम आद्याय बीजाय शुचये भस्मरूपिणे ॥ ८॥
नमः पिनाकहस्ताय नमः शूलासीधारिणे ।
नमस्ते खट्वहस्ताय नमस्ते कृत्तिवाससे ॥ ९॥
नमस्ते वामदेवाय नम आकाशमूर्तये ।
हराय हरिरूपाय नमस्ते तिग्मतेजसे ॥ १०॥
भक्तप्रियाय भक्ताय भक्तानां वरदायिने ।
नमोऽभ्रमूर्तये देव जलमूर्तिधराय च ॥ ११॥
नमश्चन्द्राय देवाय सूर्याय च नमो नमः ।
नमः प्रधानदेवाय भूतानां पतये नमः ॥ १२॥
नमः करालमुण्डाय विकृताय कपर्दिने ।
अजाय च नमस्तुभ्यं भूतभावन भावन ॥ १३॥
नमोऽस्तु हरिकेशाय पिङ्गलाय नमो नमः ।
नमस्तेऽभीषुहस्ताय भीरुभीरुहराय च ॥ १४॥
हराय भीतिरूपाय घोराणां भीतिदायिने ।
नमो दक्षमखघ्नाय भगनेत्रापहारिणे ॥ १५॥
उमापते नमस्तुभ्यं कैलासनिलयाय च ।
आदिदेवाय देवाय भवाय भवरूपिणे ॥ १६॥
नमः कपालहस्ताय नमोऽजमथनाय च ।
त्र्यम्बकाय नमस्तुभ्यं त्र्यक्षाय च शिवाय च ॥ १७॥
वरादाय वरेण्याय नमस्ते चन्द्रशेखर ।
नम इध्माय हविषे ध्रुवाय च कुशाय च ॥ १८॥
नमस्ते शतु(?)द्युम्नाय नागपाशप्रियाय च ।
विरूपाय सुरूपाय भद्रपानप्रियाय च ॥ १९॥
श्मशानरतये नित्यं जयशब्दप्रियाय च ।
खरप्रियाय खर्वाय खराय खररूपिणे ॥ २०॥
भद्रप्रियाय भद्राय भद्ररूपधराय च ।
विरूपाय सुरूपाय महाघोराय ते नमः ॥ २१॥
घण्टाय घण्टानादाय घण्टभूषणभूषिणे ।
तीव्राय तीव्ररूपाय तीव्ररूपप्रियाय च ॥ २२॥
नग्नाय नग्नरूपाय नग्नरूपप्रियाय च ।
भूतावास नमस्तुभ्यं सर्वावास नमो नमः ॥ २३॥
नमः सर्वात्मने तुभ्यं नमस्ते भूतिदायिने ।
नम्स्ते वामदेवाय महादेवाय ते नमः ॥ २४॥
का नु वाक्स्तुतिरूपा ते को नु स्तोतुं प्रशक्नुयात् ।
कस्य वा स्फुरते जिह्वा स्तुतौ स्तुतिमतां वर ॥ २५॥
क्षमस्व भगवन् देव भक्तोऽहं ध्याहि मां हर ।
सर्वात्मन् सर्वभूतेश ध्याहि मां सततं हर ॥ २६॥
रक्ष देव जगन्नाथ लोकान् सर्वात्मना हर ।
ध्याहि भक्तान् सदा देव भक्तप्रिय सदा हर ॥ २७॥
इति हरिवंशान्तर्गतं विष्णुकृतं शिवस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ३१.१०४९॥
harivaMsha . anubandha - parishiShTa . adhyAya a31.1049..
Proofread by PSA Easwaran