विष्णुकृतं शिवस्तोत्रम् १

विष्णुकृतं शिवस्तोत्रम् १

विष्णुरुवाच - महेशानन्ताघत्रिगुणरहितामेय विमल स्वराकारापारामितगुणगणाकार गिरिश । निराधाराधारामरवर निराकार परम प्रभापूराकारावरपर नमोऽवेद्य शिव ते ॥ ५१८॥ नमो वेदावेद्याखिलजगदुपादाननियत स्वतन्त्रा सामन्ता नव धृत निकाराकारविरते । निवर्तन्ते वाचः शिवमजरमप्राप्य मनसा यतोऽशक्तास्स्तोतुं सकृदपि गुणातीत शिव ते ॥ ५१९॥ त्वदन्यं(द्)वस्त्वेकं न हि भुवि समस्तं न भवतो- विभिन्नं विश्वात्मन् न च परममस्त्वीश भवतः । ध्रुवं मायातीतस्त्वमसि सततं नात्र विशयः कृतं कृत्यं किञ्चित्क्वचिदपि नमो वास्तु शिव ते ॥ ५२०॥ (त्वमेवर्दंलो) त्वमेवेदम्लोके निखिलममलं व्याप्य सततं तथैवान्यं लोकं स्थिमनघ देवोत्तम विभो । त्वयैवैतत्सृष्टं जगदखिलमीशान भगवन् विलासोऽयं कश्चित्तव शिव नमोऽमेय शिव ते ॥ ५२१॥ जगत्सृष्टं पूर्वं शिवयदिदमुमाकान्त सततं त्वया लीलामात्रात्तदपि सकलं रक्षितमभूत् । तदेवाग्रे भालप्रकटनयनाग्न्यद्भुतकणैः स्वयं दग्ध्वा स्थास्यस्यज हर नमोऽवेद्य शिव ते ॥ ५२२॥ विभूतीनामन्तो भव न भवतो भूतिविलस- न्निजाकार श्रीमन् न तव गुणसीमाप्यवगता । अतद्वयावृत्त्याद्य त्वयि सकल वेदाश्च चकिताः भवन्त्येवासामप्रकृतिग नमो वर्ष्य शिव ते ॥ ५२३॥ विराड्रूपं यत्ते सकलनिगमागोचरभभू- त्तदेवं रूपं ते भवति किमिदं भिन्नमथवा । न जाने देवेश त्रिणयन सुराराध्यचरण त्वमोङ्कारो वेदस्त्वस्मसि हि नमोऽघोर शिव ते ॥ ५२४॥ यदन्तस्त्वज्ञानान्मुनिवरगणा रूपमनघं तदेवं सञ्चिन्त्य स्वमनसि सदा सङ्गविहिताः । ययुर्दिव्यानन्दं तदिदमथवा किन्तु न तथा किमेतज्जानेऽहं शरणमगमं शर्व शिव ते ॥ ५२५॥ यया शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा ततः संहृत्यैतन्निवससि तदाधारमथवा । इदं ते किं रूपं निरुपम न जाने हर विभो निसर्गः कोवा ते तमपि हि नमो भव्य शिव ते ॥ ५२६॥ तवानन्तान्याहुः शुचिपरमरूपाणि निगमा- स्तदन्तस्थं यत्तत्सदसदनिरुक्तं स्थिरमपि । निरुक्तं छन्दोभिर्निलयनमिदं चा निलयनं न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥ ५२७॥ तवाभूत्सत्यत्वानृतमपि च सत्यं कृतमभूत् ऋतं सत्यं सत्यं कृतमुभयथारूपकमलम् । यतः सत्यं सत्यं सममपि समस्तं तव विभो अतः सत्यं सत्यं कृतमपि नमो रुद्र शिव ते ॥ ५२८॥ तवाहारं हारं विदितमपि हारं विहरसे नवाहारं हारं हरसि हर हारं न हरसि । नवाहारं हारं परतरविहारं परतरं परं पारं जाने न हि नहि नमो विश्व शिव ते ॥ ५२९॥ यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितं न तत्तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् । न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे- न्न ते तत्त्वं तत्त्वं परतर नमो धिष्ण्य शिव ते ॥ ५३०॥ इदं रूपं रूपं सदसदमलं रूपमिति चे- न्न जाने रूपं तत्तरतमविभिन्नं पदतरम् । यतो नान्यद्रूपं निरतमपि वेदैर्निगदितं न जाने सर्वात्मन् क्वचिदपि नमोऽनन्न शिव ते ॥ ५३१॥ महत्द्भूतं भूतं यदपि च भूतं तव विभो सदा भूतं भूतं किमुत भवतो भूतविषयैः । यदा भूतं भूतं भवति च न भूतं च भवतु प्रभाभूतं भूतं भवति हि नमो यष्ट शिव ते ॥ ५३२॥ वशीभूता भूताः सतमपि भूतात्मकतया न भूता भूतास्ते तव यदपि भूता विभुतया । यतो भूता भूतास्तव तु न हि भूतात्मकतया न वा भूता भूता क्वचिदपि नमो भूत शिव ते ॥ ५३३॥ न ते माया माया सततमपि मायामयतया ध्रुवं माया मय्या त्वयि वर न मायामयमपि । यदा माया माया न खलु-सा माययतया न माया माया या परमियमतस्ते शिवमया ॥ ५३४॥ यदन्तः संवेद्य विदितमपि वेदैर्न विदितं न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् । तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः करावेद्यं वेद्यं जित मिति नमोऽतर्क्यं शिव ते ॥ ५३५॥ शिवं शैवं भावं शिवमपि शिवाकारमशिवं न सत्यं शैवं तच्छिवमिति शिवं शैवम निशम् । शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं न जाने तत्तत्त्वं शिवमिति नमोऽभेद्य शिव ते ॥ ५३६॥ यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं जगज्जन्मावृत्तिं वहति सततं दुःखनिलयम । तदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां न जाने तत्तत्त्वं परमिति नमो रेष्म्य शिव ते ॥ ५३७॥ तवेदं यद्रूपं निगमविषयं मङ्गलकरं न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो । ततश्चित्ते शम्भो नहि मम विशदेऽतोद्यविकृतिः प्रयत्नाल्लभ्येऽस्मिन्न किमपि नमः पूर्ण शिव ते ॥ ५३८॥ तवाकर्णं गूढं यदपरमचक्षुः श्रुतिपरं तदेवापादं सन्नयनपदवीं नाव तनुते । (कदा) कदाचित्किञ्चिद्वा स्फुरतु कृपया चेतसि तव स्फुरद्रूपं भव्यं भवहर नमो नाद्य शिव ते ॥ ५३९॥ त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं त्वमेवाकाशोऽसि क्षितिरसि तथात्मासि भगवन् । ततः सर्वाकारस्त्वमसि भवतो भिन्नमणु च न तत्सत्यं सत्यं त्रिणयन नमोऽनन्त शिव ते ॥ ५४०॥ विधुं धत्त्से नित्यं शिरसि मृदु कण्ठेऽपि गरलं नवं नागा हारा भसितममलं भासुरतनौ । करे शूलं भाले ज्वलनमनिशं तत्किमिति ते न तत्त्वं जानेऽहं भवहर नमः कूप्य शिव ते ॥ ५४१॥ तवापाङ्गस्यन्दो यदि भवति भव्यः शुभकरः कदाचित्कस्मिंश्चिल्लघुतरनरेऽपि प्रभवति । स एवैतल्लोकान् विरचितुमल्पोऽपि स महान् कृपाधारायत्तो सुखकर नमोऽनन्त शिव ते ॥ ५४२॥ भवन्तं देवेशं शिवमितरगीर्वाणसदृशं प्रमादाद्यः कश्चिद्यदि वदति चित्तेऽपि मनुते । स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं ध्रुवं दैवाराध्यामितगुण नमोऽनन्त शिव ते ॥ ५४३॥ प्रदोषे रत्नाढ्ये मृदुलतरसिह्मासनवरे भवानीमारूढामसकृदपि संवीक्ष्य भवता । कृतं सम्यङ् नाट्यं प्रथितमिति वेदोऽपि वदति प्रभावः को वाऽयं तव हर नमो दीप्य शिव ते ॥ ५४४॥ श्मशाने सञ्चारस्तव किल न ते क्वापि गमनं यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् । विभुं नित्यं शुद्धं शिवमयमतो व्यापकमिति श्रुतिः साक्षाद्वक्ति स्वयमपि नमः सूद्य शिव ते ॥ ५४५॥ धनुर्मेरुः शेषोऽप्यथ वरगुणो यानमवनि- स्तवेनेन्द्र चक्रे निगमनिकरा वाजिनिकराः । पुरो लक्ष्यं यन्ता विधिरिषुरहं चेति निगमः किमेवं त्वय्येषो निगदति नमः पर्ण्य शिव ते ॥ ५४६॥ मृडं सत्त्वोपेतं भवमनतिरिक्तं च रजसा तमोयुक्तं शुद्धं शिवमपि शिवं निष्कलमिति । वदत्येषो (वं) वेदस्त्वमसि तदुपास्यं ध्रुवमिदं त्वमोङ्काराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥ ५४७॥ जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् । त्वदन्यं त्वत्प्रायं व्रजति शरणं नेति निगमो वदत्यद्धा सर्वं शिवमिति नम स्तुत्य शिव ते ॥ ५४८॥ त्वमेको लोकानामधिपतिरुमानाथ जगतां शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् । त्वदन्यो निर्वाणं न वितरति निर्वाणपतिर- प्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नीप्य शिव ते ॥ ५४९॥ तवैवांशो भानुस्तपति विधुरप्येति पवनः पवत्येषो वह्निर्ज्वलति सलिलं चापि वहति । त्वदाज्ञाकारित्वं सकलसुरवर्गस्य सततं त्वमेकःस्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥ ५५०॥ स्वतन्त्रोऽयं सोमः सकल भुवनैकप्रभुरयं नियन्ता देवानामयमिह नियन्ताऽस्य न परः । शिवःसिद्धोऽपायाद्रहित इति वेदोऽपि वदति स्वयं त्वामाशास्यं भयहर नमो रथ्य शिव ते ॥ ५५१॥ नमो रुद्रानन्तानघ हर नमः श्रीधर विभो नमो गौरीनाथ त्रिणयन शरण्याङ्घ्रिकमल । नमः शर्व श्रीमन्ननघमहदैश्वर्यनिलय स्मरारे पापारे जय जय नमः शोच्य शिव ते ॥ ५५२॥ महादेवामेयानघगुणगणग्राम सततं नमो भूयोः भूयः पुनरपि नमस्ते पुनरपि । पुराराते शम्भो पुनरपि नमस्ते शिव शिव नमो भूयोभूयः शिव शिव नमोऽनन्त शिव ते ॥ ५५३॥ कदाचिद्गण्यन्ते निबिडनिपतद्वृष्टिकणिकाः कदाचिन्नक्षत्राण्यपि सिकतलेशाः कुशलिभिः । अनन्तैराकल्पं शिवगुणगणांश्चारुरसनै- र्नशक्यन्ते नूनं गणयितुमुषित्वापि सततम ॥ ५५४॥ मयाऽविज्ञायेशानिशमपि कृता ये तु मनसा सकामेनामेयाः सततमपराधा बहुविधाः । त एव (त्वयैव) क्षन्तव्याः क्वचिदपि शरीरेण वचसा कृता नैते नूनं शिव शिव कृपासागर विभो ॥ ५५५॥ प्रमादाद्येकेचिद्विततमपराधा विधिहता कृताः सर्वे तेऽपि प्रशममुपयान्तु स्पुटतरम् । शिव श्रीमन् शम्भो शिव शिव महेशेति च जपन् क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥ ५५६॥ ॥ इति शिवरहस्यान्तर्गते विष्णुकृतं शिवस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १० । ५१८-५५६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 10 . 518-556.. Proofread by Ruma Dewan
% Text title            : Vishnukritam Shiva Stotram
% File name             : viShNukRRitaMshivastotram1.itx
% itxtitle              : shivastotram (viShNukRitaM shivarahasyAntargatam)
% engtitle              : viShNukRRitaM shivastotram
% Category              : shiva, stotra, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 10 | 518-556||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org