विष्णुकृतं शिवस्तोत्रम् २
विष्णुरुवाच -
नमामि विश्वेश्वरमादिदेवं नमामि विश्वोत्तममीशमेकम् ।
नमामि सर्वाधिकमप्रमेयं नमामि शम्भुं गिरिजासहायम् ॥ ५५०॥
नमामि कालान्तकमुग्रमीशं नमामि खट्वाङ्गधरं महेशम्
नमामि सोमानलभास्कराक्षं नमामि वाहीकृतसन्महोक्षम् ।
नमामि सर्वाधिककण्ठभूषं नमामि नानाविधदिव्यवेषम्
नमामि शुद्धोत्तमभूतिभूषं नमामि संरक्षितभूतशेषम् ॥ ५५२॥
नमामि सर्वाङ्गमवेद्यमाद्यं नमामि मायारहितं विशुद्धम् ।
नमामि लोकैकनिदानभूतं नमामि नानाविधसृष्टिहेतुम् ॥ ५५३॥
नमामि नागेशसमर्चिताङ्घ्रिं नमामि शुद्धेन्दुकलावतंसम् ।
नमाम्यनेकेन्दुरविप्रभासं नमामि नित्यं करुणार्द्रभावम् ॥ ५५४॥
नमामि रम्योत्तमवक्त्रचन्द्रं नमामि दीर्घोरुहिरण्यबाहुम् ।
नमामि शान्ताच्छहिरण्यरूपं नमामि दिव्योरुहिरण्यवर्णम् ॥ ५५५॥
नमामि सोमं वृषराजकेतुं नमामि शर्वं वरधर्मसेतुम् ।
नमामि भीमं जगदेकनाथं नमामि रुद्रं जनमोक्षहेतुम् ॥ ५५६॥
नमामि वीरेश्वरमुग्रवीर्यं नमामि देवं भवनीलकण्ठम् ।
नमामि सर्वातिहरं सुरेशं नमामि दीर्घोरुजटाकलापम् ॥ ५५७॥
शिव एव शरण्यपुण्यमूर्तिः शिव एवाखिलदेवचक्रवर्ती ।
शिव एव विदारितामरार्तिः शिव एवाखिलवेदगीतकीर्तिः ॥ ५५८॥
त्वदन्यं शरण्यं वरेण्यं न जाने न जाने शिवामेयकुध्रेड्जजाने ।
त्वदन्यो न देवस्त्वदन्यौ न देवस्त्वदन्यो न देवस्त्वदन्यो न देवः ॥ ५५९॥
त्वमेव प्रभुः सर्वलोकैकनाथस्त्वमीशस्त्वमाराध्यभूतस्त्वमेव ।
त्वदन्यो न पूज्यस्त्वदन्यो न पूज्यस्त्वमेवासि पूज्यस्त्वमेवासि सेव्यः ॥ ५६०॥
त्वदन्यत्परं वस्तु मास्त्येव लोके त्वदन्यो न वेदान्तवेद्यः परेशः ।
त्वमेवासि सर्वं त्वदन्यन्न किञ्चिद्ध्रुवं सत्यमेतद्ध्रुवं सत्यमेतत् ॥ ५६१॥
शिवात्परं नेति वदन्ति वेदाः शिवात्परं नेति वदन्ति देवाः ।
शिवात्परं नेति वदन्ति सिद्धाः शिवात्परं नेति वदन्ति शुद्धाः ॥ ५६२॥
शिव एवाखिलाराध्यः शिव एव जगत्प्रभुः ।
न शिवात्परमस्त्येकं सत्यं सत्यं मयोच्यते ॥ ५६३॥
शिवाज्ञयैव सूर्योऽयं तपति प्रतिवासरम् ।
शिवाज्ञयैव चन्द्रोऽयं दीपयत्यखिला दिशः ॥ ५६४॥
शिवाज्ञयैव शैलेन्द्राः फणिदिक्करिणः सदा ।
धृत्वा तिष्ठन्ति पृथिवीं भोत्या कम्पितमानसाः ॥ ५६५॥
शिवाज्ञयैव नितरां प्रज्वलत्यनलः सदा ।
शिवाज्ञयैव वान्त्येते वायवः सुखहेतवः ॥ ५६६॥
शिवस्यैव प्रसादेन देवेन्द्रः सर्वपालकः ।
शिवस्यैव प्रसादेन सर्जकोऽपि प्रजापतिः ॥ ५६७॥
शिवस्यैव प्रसादेन मया प्राप्तं परं पदम् ।
शिवस्यैव प्रसादेन शम्भुः शम्भुत्वमाप्तवान् ॥ ५६८॥
॥ इति शिवरहस्यान्तर्गते विष्णुकृतं शिवस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । ५५०-५६८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 550-568..
Proofread by Ruma Dewan