विष्णुप्रोक्तं कुम्भघोणेश्वरार्चनोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
विष्णुः (उवाच)
अतोऽन्वहं पूजनीयः प्रयत्नेन महेश्वरः ।
यतो वेदोदितं नित्यं श्रीमहादेव पूजनम् ॥ ५९८॥
अत्र श्रीकुम्भघोणेशं पूजयित्वा वसाम्यहम् ।
मम श्रीत्र्यम्बकादन्यः पूज्यो नास्त्येव सर्वथा ॥ ५९९॥
श्रूयते मुक्तिदा नित्यं महादेवकथा मया ।
महाशैवैः सह प्रीतिः क्रियते सर्वदा मया ॥ ६००॥
दिनानि क्षणवद्यान्ति शिवपूजापरस्य मे ।
दुःखमात्रं विहायात्र शिवक्षेत्रे वसाम्यहम् ॥ ६०१॥
पूजयित्वाऽत्र गौरीशं कुम्भघोणाभिधे विधे ।
सर्वकामप्रदं लिङ्गं कुम्भघोणेश्वराभिधम् ॥ ६०२॥
सर्वार्थदायकं (लिङ्गं) यस्माच्छ्रीमहादेवपूजनम् ।
अतः कुरुप्रयत्नेन शिवलिङ्गस्य पूजनम् ॥ ६०३॥
शिवलिङ्गार्चनेनैव मुक्तिस्तव भविष्यति ।
शिवलिङ्गार्चनादन्यन्नास्ति मुक्तिप्रदं विधे ॥ ६०४॥
उद्धूल्य भस्मनाङ्गानि धृत्वा चैव त्रिपुण्ड्रकम् ।
रुद्राक्षधारणां कृत्वा पूजयस्व सदाशिवम् ॥ ६०५॥
अभिषिच्य महादेवं रुद्राध्यायेन सादरम् ।
भस्मना बिल्वपत्रैश्च पूजयस्व महेश्वरम् ॥ ६०६॥
पूजान्ते जप यत्नेन शैवं पञ्चाक्षरं शिवे ।
श्रीरुद्रं जप यत्नेन ततः सर्वाघनाशनम् ॥ ६०७॥
पञ्चाक्षरेण रुद्रेण प्रीणयस्व सदाशिवम् ।
रुद्रपञ्चाक्षराभ्यां तु प्रीतो भवति शङ्करः ॥ ६०८॥
षडक्षरेण रुद्रेण यः प्रीणयति शङ्करम् ।
अघोरतपसा रुद्रं स प्रीणयति नान्यथा ॥ ६०९॥
रुद्रपञ्चाक्षरजपी मुक्त एव न संशयः ।
न ततोग्रयं तपः किञ्चित्सत्यमेवोच्यते मया ॥ ६१०॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं कुम्भघोणेश्वरार्चनोपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ५९८-६१०॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 598-610..
Notes:
Upon being requested by Deva-s देवाः; Viṣṇu विष्णु mentions that Mahādeva महादेव and the Śivaliṅga शिवलिङ्ग must be worshipped with all due efforts. He further tells them that is worshiping Śiva शिव while residing at Kumbhaghoṇam कुम्भघोणम् where He is known as Kumbhaghoṇeśa कुम्भघोणेश and manifests as Kumbhaghoṇeśvara Sivaliṅgam कुम्भघोणेश्वर शिवलिङ्गम्.
Viṣṇu विष्णु and delivers Upadeśa उपदेश about merits of worshiping Śiva शिव especially with Pañcākṣara mantra पञ्चाक्षर मन्त्र, Ṣaḍakṣara manta षडक्षर मन्त्र and Śrī Rudram japa श्रीरुद्रं जप.
Proofread by Ruma Dewan