विप्रैः प्रोक्तं काशीमहिमोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
विप्रा ऊचुः
काशीं विना मुक्त्युपायो न क्वापीति मुनीश्वराः ।
वदन्ति श्रुतितत्वज्ञा जाबालार्थविचारकाः ॥ २४३॥
काशी शिवतनुस्तस्मात् सैव मुक्तिप्रदा नृप ।
काशीदर्शनमेवातः कर्तव्यं मुक्तिकाङ्क्षिभिः ॥ २४४॥
राजसूयादियागानां तपसामपि वस्तुतः (योगस्य तपसामपि) ।
काशीप्राप्तिः फलं तस्मात्काशी सेव्या मुमुक्षुभिः ॥ २४५॥
काश्येका शरणं राजन् जनानां मोक्षमिच्छताम् ।
तदन्यच्छरणं(न्यन्मोक्षदं) क्वापि नास्ति न श्रूयतेऽपि च ॥ २४६॥
धर्माः क्रियन्ते बहुधा काशीप्राप्त्यर्थमादरात् ।
(बहूनां धर्मकार्याणां फल काशीसमाश्रयः ॥ २४७॥)
समेषां शिवधर्माणां फलं काशीनिषेवणम् ॥ २४७॥
सा ततः सर्वयत्नेन साधनीया मुमुक्षुभिः ।
संसारसागरो घोरो ह्यमारः पातकाकरः ॥ २४८॥
काशीं प्राप्य तरन्त्येनं मुनयो वीतकिल्बिषाः ।
स एव भाग्यवाँल्लोके स एव पुरुषर्षभः ॥ २४९॥
यः काशीं मुक्तिदामेत्य सन्तरेद्भवसागरम् ।
अधुना श्वः परश्वो वा मरणं चेद्भविष्यति ॥ २५०॥
॥ इति शिवरहस्यान्तर्गते राजाप्रति विप्रैः प्रोक्तं काशीमहिमोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । २४३-२५०॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 243-250..
Notes:
Vipraḥ विप्राः deliver Upadeśa उपदेश (to Rājā राजा) about the merits of going to / being in Kāśī काशी.
Proofread by Ruma Dewan