विरक्तिरत्नावलिः

विरक्तिरत्नावलिः

ॐ श्रीगणेशाय नमः । प्रणम्य गुरुचिद्धनं नततमस्ततिध्वंसनं सुखाम्बुरसवृष्टिदं सुकृतिनां हृदब्जे सदाम् । करोमि चितिवृद्धये जनिविमुक्तये ज्ञानिनां त्रयीहृदयसागरोद्भवविरक्तिरत्नावलिम् ॥ १॥ अपारभवसागरं चतुरशीतिलक्षोद्भव- स्थलोर्मिचलितं सतीसुतसुतादिनक्राचितम् । महेश्वरपदाम्बुजप्रणयकर्णधारेरितं न तर्तुमलमन्यतो दृढविरक्तिपोतं विना ॥ २॥ न रज्यति तु धावकान् मलिनमीषदप्यम्बरं तथा सकलवासनामलिनमानसं संविदा । न तिष्ठति यथा रजः परमसूक्ष्मसूच्यग्रके सरागहृदये नृणां शिवसुखाब्धिबिन्दोः कणः ॥ ३॥ विनाशयति शम्बरं निजकणांशसंस्पर्शतो विपक्वकलशं सकृच्छ्रवणतोऽपि बोधस्तथा । सकामपुरुषं परं विगतकामचित्ते सदा तथा नटति चेतना सुरसरोवरे हंसिका ॥ ४॥ विरक्तहृदयं तथा विशति संविदम्भो यथा सुनिम्नतरभूतलं गलितवासना धीर्नृणाम् । विपक्षविहगो यथा वसति वृक्षनीडे निजे तथा शिवसुरद्रुमे परमसौख्यसाम्राज्यदे ॥ ५॥ महाविबुधसङ्गिनाममृतलालसानां सदा- शिवाङ्घ्रिकमलार्चने नियतमानसानां सदा । यथा विमलचन्द्रिका हिमकरस्य राकातिथौ तथा सुकृतशालिनां किल विरक्तिरुत्पद्यते ॥ ६॥ तृणीकृतपितामहत्रिदशनाथसम्पच्चया सदा स्फुरति मानसे सकलसम्पदा पूरिते । पुनश्च विषये स्पृहा भवति नैव पाते यथा विरक्तिरिति वर्ण्यते मुनिवरैश्च सा सौख्यदा ॥ ७॥ जडाजडमये जगत्यसहनीयदुःखास्पदे यथोपलमरुस्थले न लभते पयःशीकरम् । किरातहृदये दयां मधुरसं किराते जन- स्तथा सुखकणं वृथाभ्रमणमात्रमेव ध्रुवम् ॥ ८॥ अनङ्गपरदम्पतीमथनजातशुक्लार्तवे युते भवत एकधा विशति तत्र गर्भाशये । तदैव नरदेहभाक् सुकृतदुःखभोगाय वै स्वकर्मवशगो रजोद्रवविवृद्धपेशीगतः ॥ ९॥ तदाशयगतं क्रमात् कललभूतरेतोरजो जरायुपरिवेष्टितं मलजलालयान्त्रान्तरम् । न मातृजठरानलः पचति शालिबीजादिवत् ततोऽङ्गमभिजायते विहितभोज्यशीलैः स्त्रियाः ॥ १०॥ शिरोनयननासिकाश्रवणबाहुवक्षःस्थलं ह्यधोमुखहृदम्बुजं भवति गर्भपिण्डस्य च । स्वमातृरसधातुगप्रकृतिवर्णतेजोबला- न्यधोमुखविलासवद्विमलदर्पणे पश्यतः ॥ ११॥ स्वपापफलभोगभाग् बधिरमूकपङ्ग्वादिकां स तु प्रलभते मरुद्विकृतवक्त्रनेत्रादिकाम् । स्वपाकपरिपाकिकाविमलमृत्तिकास्फोटक- प्रदीर्णसुषिरान्वितां घटतनुं तथा पूरुषः ॥ १२॥ स्वमातृजठरस्थितः कफगले परोधाच्छिशु- र्न रोदिति सुखं तथा न लभतेऽग्नितापान्मलम् । विमुञ्चति न कुम्भकाद्वहति वेगजालं च नो भजन्नरकयातनां कृमिरिवात्र मध्यस्थितः ॥ १३॥ चसाकफपरिप्लुतो जननमार्गतोऽधोमुखः प्रसूतिसमये शिशुः पतति वायुना दैवतः । तदा कुशलकामिनी निजकरेण पादौ शिशोः प्रगृह्य कुरुते ततः कफविशोधनं धून्वती ॥ १४॥ कट्ष्णरससेवनाद् वसनकम्बलाच्छादनात् पुरीषजललोलनानुचितगन्धसंसेवनात् । क्षुधादिपरिपीडनादवशमानसादीन्द्रिय- स्ततः शिशुदशां कथं परमपूरुषः काङ्क्षति ॥ १५॥ ममेदमिति वासनागृहशरीरतातप्रसू- जनद्रविणभूषणाम्बरधरादिपश्वादिकम् । न चास्ति कुलगोत्रसूत्रनरजातिवर्णाश्रमाः शिशोः क इह वेत्ति नाहमिति वृत्तिशून्यो यथा ॥ १६॥ पयोधरपयः शिशुः पिबति रौति वक्षोरुहे निजाननगते ततः करपदं धुनात्यञ्जसा । अधः पतति मञ्चकाद् वमति तं कफं खादति प्रमूढहृदयः सुखं विषयजं न विन्दत्यहो ॥ १७॥ परिभ्रमति वक्षसा पशुवदर्भको मन्दिरे क्वचित् खलति रोदिति क्व नु गतेति माता भृशम् । कृमिं धरति पाणिना चलति जानुना चासकृ- ज्जलं पिबति ताड्यते गदभयेन मात्रा तदा ॥ १८॥ द्विजोद्भवगदात् तदा श्रवणवेधतोऽभ्यङ्गतो भृशोष्णजलसेचनादुरगपूतनापीडनात् । अतित्वरितगर्भभृत्कुजननीस्तनास्पर्शनाद् व्यथा भवति तां पुनः स्मरति कः पुमान् हा शिशोः ॥ १९॥ प्रियैः सततखेलने प्रहरति स्वमाता गृहे बहिः प्रियजनैः सदा बलपरीक्षया मर्द्यते । गुरुः पठनमन्दिरेऽक्षरविधौ परं शिक्षते प्रपञ्चहृदयं वटुं पितृजनाश्च कौमारके ॥ २०॥ अहो जगति यौवनं नयति देहिनं सर्वदा सकर्णवचनेक्षणं बधिरमूकजन्मान्धताम् । श्रुतिश्रवणशङ्करस्मरणमूर्तिसन्दर्शने भवार्णवसुतारणप्लवपदाब्जभृद्देशिके ॥ २१॥ प्रभुः परमयौवनं विषययाचकेभ्यो यतो हृषीकधनसङ्घमर्पयति कर्णभूपो यथा । विवेकरिपुमञ्जसा दहति कोपशस्त्राग्निना सदाघकरमादराद्विटपतेश्च गृह्णात्यहो ॥ २२॥ अभूच्छतमखः स्वयं समढ्यौवनं योषितः शरीरवरवेदिकाकलितयोनिकुण्डे भृशम् । जुहोति नरशुक्लकं वदननन्दने क्रीडति प्रियाधरसुधां सदा पिबति कामयानोऽनिशम् ॥ २३॥ न यौवनवने चर प्रबलमारभिल्लाश्रये स कामहतकः स्त्रियाः सुनिशितैः कटाक्षेषुभिः । प्रहृत्य करलाघवात् त्वरितमव्रणं प्रक्षिपेत् कुचाद्रियुगलान्तरे त्वमपि तृष्णया मुह्यसि ॥ २४॥ न यौवनसुरां पिब द्रविणभीतिलज्जापहां स्वजातिकुलशीलविस्मरणकारिणीं मोहिनीम् । परस्वयुवतीसतीगतिविवेकहानिप्रदां कुमार्गगतिदायिनीं निगममार्गसरोधिनीम् ॥ २५॥ परस्परमतिप्रियं परमयौवने यद्दव्यो- र्विरूपमपि मोहतः किल शरीरमासीत् पुरा । तदप्रियमहो भवत्यथ शरीरिणोः पश्यतोः सुरूपमपि वार्धके विमलचेलभूषान्वितम् ॥ २६॥ जराशिथिलदेहिनो भुवि सुखं कुतो विद्यते प्रमुढहृदयेन्द्रियो भवति तन्त्र सर्वा स्पृहा । पदं स्खलति वै गतौ कटितटं न तत् पूर्वव- च्छिरश्चलति वेपते करयुगं मनो भ्राम्यति ॥ २७॥ स्वपुत्ररमणीसुता विषमवाक्यशूलेन तं कुतस्तव धनं वद क्व नु च कर्म सम्पादितम् । इति प्रियजनाः सदा परितुदन्ति वृद्धं तदा - प्यहो स परिखिन्नधीः शिवशिवेति नाक्रोशति ॥ २८॥ प्रयान्तमपि मन्दिरात् परुषवाक्यनिर्भत्सितं कुचेलमतिवार्धकं विधृतदण्डहस्तं नरम् । क्व तात परिगच्छसीत्यपहसन्ति नप्त्रादयः पुनश्च परिवेष्टिता अपहरन्ति तस्यांशुके ॥ २९॥ क्व मे नगरकम्बलं क्व च गतं कलिङ्गांशुकं सुमृन्मयघटः प्रिये मृदुलतार्णशय्या परा । महानिशि गृहेश्वरि स्वपिषि चोरकाले कथं प्रजल्पति जरान्वितो न लभतेऽपि निद्रासुखम् ॥ ३०॥ चतुर्ष्वपि दशान्तरेष्वहह भूपतिर्मानवः सुखं न लभते सदा परवशो यतः सेन्द्रियः । स्वमातृपितृवर्जितो भवति तत्र बाल्येऽर्भकः सदोपजननीजनैः स परिपोष्यते सेवकैः ॥ ३१॥ सदा विपदहो सुखं कथमसज्जनो मन्यते नृपेन्द्रतनयस्य सम्भवति यच्च कौमारके । गजाश्वरथवाहनभ्रमणचालनारोहणे महास्त्रशरचापशिक्षणविधौ गदायोधने ॥ ३२॥ सदा नगरपालने प्रकृतिरञ्जने ध्वंसने द्विषां कुमतिशिक्षणे लुकृतिलोकसंरक्षणे । सुकीर्तिधनपोषणे निजसुहृज्जनालापने कुतो निहितचेतसो नरमणेः सुखं यौवने ॥ ३३॥ नृपोऽहमिति गर्वितो विधिनिषेधवर्ज्यो भव- त्यमार्गगमनात् सदा दुरितकण्टकाविद्धपात् । शशाङ्कमुखसुन्दरीवरतरक्षुपङ्क्तयां पुन- र्न याति हृदयांशुकं नरपतेर्विलग्नं परम् ॥ ३४॥ भयं द्विजकुलोद्भवे भवति सर्वदा देहिनः श्रुतिस्मृतिविचारणे यजनयाजने पाठने । स्वराक्षरविलोपतो दुरवगाहवेदार्थतो यथाविधिजपार्चनाव्रतविलोपतः कालतः ॥ ३५॥ वणिक्कुलजदेहिनः क्व सुखमर्थकामस्य हा परार्थचयरक्षणे कलितकालहीनको । महीपतिमहाभये परपणीयलाभक्षये सदा निहितचेतसः कृषिपरिश्रमे गोक्रये ॥ ३६॥ त्रिवर्णजनसेवकः सविनयः पदादुद्भवो विधेर्भवति सर्वदा परवशः स भुङ्क्ते कदा । अनेकपरिचर्यया शिथिलगात्रसर्वेन्द्रियः कदा स्वपिति मानवः कथमसौ विरक्तिं भजेत् ॥ ३७॥ कुतः सुखमथ स्त्रिया भवति तत्र कौमारके स्वजातिकुलशीलरूपमतितुल्यभर्ता मया । कदा क्व किल लभ्यते सकलभूषणालङ्कृता भवामि कथमेवमादिशतचिन्तयावेष्टिते ॥ ३८॥ सदा मृदुलभाषणे श्वशुरसेवने यौवने स्वभर्तृपरितोषणे गृहपदार्थसंरक्षणे । सुपाककरणे परं सुपरिवेषणे प्रेरणे सदार्पितदृशः सुखं पतिगृहे रमण्याः कुतः ॥ ३९॥ मुहुर्भयमहो स्त्रियाः पतिविरोधगर्भाच्युतेः प्रजासु बहुलत्वतो जननतः सपत्न्याः शिशोः । मृतेः प्रसवतो धवात्ययवियोगदारिद्रयतः स्नुषातनययोगतोऽप्यननुकूलजामातृतः ॥ ४०॥ विरूपविगुणस्त्रिया रमणसम्प्रसादो न वै जनाः सततमङ्गनामभिलषन्ति रम्या यदि । स्वमातृभवनस्थिता परजनेन सा निन्द्यते सुखं खलु कुतः स्त्रियाः क्व भुवि लौकिकं चा मृतेः ॥ ४१॥ मुरारिपदपङ्कजप्रवणहस्तिराजोऽपि किं सुखी परमभूत् पुरा कुजनिनक्रवक्त्राहृतः । क्षितीशवरवाहनस्य करिणस्तु का वा कथा निषादिदृढश‍ृङ्खलाङ्कुशनियन्त्रणाद् बन्धनात् ॥ ४२॥ सुखं शतमखाश्रयेऽप्यहह दभ्रमप्यन्ततो न चाभ्रमुपतेः स्वतश्चरणरोधनाद् बन्धनात् । पुरन्दरमनोनुगां कलयतो गतिं चोत्तमां मुनिप्रवरशापतो वसुमतीगजत्वान्वयात् ॥ ४३॥ पयोधिमथनोद्भवः सुरपतिप्रियोच्चैःश्रवाः सदा सुररणाङ्कणभ्रमणधर्मलालामुखः । भवत्यपरसैन्धवो नरपतेः कथं प्राप्नुयात् सुखं शकटकर्षणात् कुशलसादिपादाहतेः ॥ ४४॥ जितो हरिरितीह पक्षिपतिराप दर्पं ततो हरेः किल वरार्थिनः प्रवरपत्रतामावहत् । सुखं न पतगेशितुश्च परपक्षिणः स्यात् कथं किरातजनभोजनस्य तरुकोटरावासिनः ॥ ४५॥ त्रिमूर्तितनुरूपकस्तरुशिरोमणिः पुण्यभाक् प्रजाविविधकामनासततपूरणायास्तधीः । सुखी भवति किं ततोऽपरतरुः कथं प्राप्नुयात् सुखं भवनपुत्तलीपरिकरादिहेतुः परम् ॥ ४६॥ सदा त्रिपथगामिनी परमपावनी साप्यहो सुखं न लभते नृणां दुरितवर्गसङ्क्षालनात् । तनूमलपरिक्षयाच्छिवकपर्दसंरोधना- न्नदी विपिनगामिनी किमयते सुखं जाड्यभाक् ॥ ४७॥ सुखं किमु सरित्पतेश्चुलुकनान्मुनेर्मन्थना- दहीन्द्रतनुरज्जुना सततबाडबग्रासतः । रवुप्रवरबन्धनान्नियतमाकुलीभावतो निजे हि भवने सदा स्वतनुजापतेर्वासनात् ॥ ४८॥ समुद्रजलपानतो गगनमार्गसञ्चारतः प्रचण्डपवनाहतेरशनिताडनाद् वज्रिणः । अकालनिजकालयोरपि च भूतले वर्षणात् कुतो जडमयस्य हा भवति धूमयोनेः सुखम् ॥ ४९॥ वनस्पतिपतिः स्वयं स खलु राजयक्ष्माकुलः सुधाकरशरीरभृद् भवति राहुणा पीडितः । मलिम्लुचसरोरुहप्रवरकामुकद्वेषिणो विचित्रममरत्वमेतदवलोकयेन्दोः परम् ॥ ५०॥ महेश्वरभयाद् रविर्भ्रमति काञ्चनाद्रिं सदा प्रजाघशुभकर्मणां भवति किं च साक्षी भृशम् । विहीनदशनाननश्चरुहविः समश्नात्यहो कुतोऽस्य सुखमात्मनः परमनूरुमत्सारथेः ॥ ५१॥ शुभाशुभमखे हुतं वहति भूसुरैरानने तदर्पयति हव्यवाड् यजनदेवताभ्यो हविः । पचत्यपि च षड् रसान् नृजठरे तथा मन्दिरे कुतोऽस्य सुखमस्ति हा नियतदीपभावान्निशि ॥ ५२॥ सहस्रभगवान् हरिः कथमसौ सुखं प्रमुत्रा- न्न चैकसुभगान्वितोऽपि च नरस्त्रिलोके सुखी । शरीरचरुयाजिनां रणधनञ्जये प्रीतये स्वभोज्यगणिकाङ्गनाव्रजनियोजकश्चानिशम् ॥ ५३॥ सुखी भवति किं विधिर्विविधसृष्टिसङ्कल्पवान् जितेन्द्रिययतीश्वरादरणचित्तवृत्तिः सदा । स्वपूर्वचतुराननप्रचुरमुण्डमाल्यं परं महेशगलमण्डनं मनसि चिन्तयन् बुद्धिमान् ॥ ५४॥ सुखी कथमधोक्षजो रखुकुलावतंसः परं दशाननवधोत्सुको नरहरिर्महावामनः । फणीन्द्रशयनः पयोनिधिनिकेतनः श्रीपति- र्धराधरधरः पुमान् बहुलवेषधारी यथा ॥ ५५॥ महापितृवनालयो नरकरोटिमालाधरः पिशाचगणसंवृतः करटिचर्मवासोधरः । चिताभसितलेपनो विषधरेन्द्रभूषो हरो विरूपनयनः सुखी भवति किं च भिक्षाटनः ॥ ५६॥ विधिप्रमुखदैवतैर्मनसि काङ्क्षणीयं मुहु- निन्दानममृतस्य यत् सकलदेवतांशात्मकम् । नृजन्म भुवि देहिनां परमदुर्लभं हाटकं करोति कुमतिर्वृथा भुवि यथा ह्यपात्रे व्यधात् ॥ ५७॥ द्विजत्वमपि दुर्लभं वरकुलोद्भवत्वं नृणां त्रयीविहितकर्मकृत्त्वमपि शाम्भवत्वं ततः । विशुद्धमतिसङ्गमो विमलबुद्धिमत्त्वं परं त्विदं भवति यस्य वै सुकृतशालिनां सोऽग्रणीः ॥ ५८॥ गतं न लभते जनः क्षणलवांशमप्यायुषः सदा विषयवासनाक्षपितकालवृत्तेर्बत । लभेत सिकतागतं जलमपि प्रयत्नान्न तत् ततः कुरु तदैश्वरं सफलमात्मसंयोजनात् ॥ ५९॥ नर स्मर न तां वृथा विषलतामिमां सुन्दरीं स्तनद्वयसुमञ्जरीमधुरपल्लवां मोहिनीम् । भवज्वरविकारदामसहनीयतृष्णावहां स्त्रियः खलु विचिन्तभादपि विमोहयन्त्यद्भुतम् ॥ ६०॥ असत्यनिलयं परं दुरितकृष्ण वर्मेन्धनं परार्तिकरणक्षमं परुषमोहगर्वालयम् । अचञ्चलसुधीमनःकुलगिरीन्द्रवज्रायुधं कथं हि रमणीजनं कमलसम्भवोऽजीजनत् ॥ ६१॥ वशीकरणमन्त्रमद्भुतमपारवीर्यं स्मरः प्रयोगकुशलः स्वयं खलु जपन् सदा त्र्यक्षरम् । प्रसिद्धमबलेति तं त्रिभुवनस्थजन्तुष्वसौ करोति सफलं ततः स्मरहरेति मन्त्रं जप ॥ ६२॥ गतानुगतिका जना ध्रुवमिमे जगत्यां सुधी- र्न कोऽपि सुविचारवान् यदबलेति मत्ताः स्त्रियः । विचित्रमिह ता बलप्रकृतिधर्मतेजस्तपो- धनान्यपहरन्ति याः स्मरणमात्रतो जाग्रति ॥ ६३॥ सुतेन सुगतिः पितुः स्मृतिगिरेरितेति ध्रुवं तथैव तपसा गतिर्न खलु पुत्रहीनस्य किम् । तदर्थमबलानले बहुधनेन्धनप्रोज्ज्वले पतङ्ग इव दीपके पतति सत्तपोबाधके ॥ ६४॥ वृथा बहुधनव्ययैर्व्रजपैः प्रजोत्पादनं करोति विबुधोऽपि किं जगति धर्मपत्न्या मुदा । स चेत् कुचरितो भवेद् भवति पुण्यलोकस्थितेः पितुः पतनकारणं प्रकटमैहिके चायशः ॥ ६५। पिता भवति रेतसा स्वयमिहैव पुत्रात्मना त्रयी वदति तत्तथा विदितमेतदत्यद्भुतम् । स्वकर्मपरिपाकतो भवति जन्म चेति श्रुतं श्रुतेर्हि वचनं तदर्थमवबुध्यते नो जडः ॥ ६६॥ अजस्य परमात्मनो न खलु शुक्लमाहारजं पितृत्वमिव वन्ध्यपुंस इह नैव सम्भावितम् । अलिङ्गसुखचित्तनोः परिणतिश्च नो कर्मजा सदाद्वयसदात्मनः श्रुतिविधिश्च कोऽप्यस्ति नो ॥ ६७॥ धनं स्वसुखकारणं निमिषशस्तथा लेशशो नरेण बहुविद्यया परममार्जन भुवि । न नीतिवचनं हि तत् खलु जडं सुखस्यात्मनः कथं भवति कारणं भुवि विचारवान् कोऽपि न ॥ ६८॥ धनं मदविवर्धनं पतिसतीमनोभेदनं कुनीतिजनभूषणं नटनटीसमाकर्णनम् । प्रपञ्चतरुजीवनं प्रणयतैलसंशोषणं कथं हि विदुषेष्यते कुमतिभिः प्रकोपो यथा ॥ ६९॥ ``निरन्तरसुखप्रदं निटिललोचनं निष्कलं ममत्वपरिमोचनं मदनवैरिणं तं प्रभुम् । विहाय विबुधोऽपि किं विभवसिद्धये कुत्सितं नरं नरकमागिनं सततमाश्रयत्यात्महा ॥ ७०॥ धनार्जनपरो भव त्वमिह सर्वदा दुःखधी- स्तवात्र सुखमीषदस्ति किमु तद्धनेन ध्रुवम् । स्वपुत्रसुकलत्रमित्रजनभोगयोग्यं भवेत् तदार्जनसमुच्चयेषु सरघेव किं क्लिश्यसि ॥ ७१॥ त्रयीपठनमादरात् पितृतिथौ हि भोक्तुं द्विजः करोति गदितुं क्वचित् स्मृतिविमर्शनं सूतकम् । मनूञ्जपति हिंसनाय परमार्थतो वेदवि- न्न कश्चिदपि पुण्यधीर्भुवि विचारवानात्मनि ॥ ७२॥ इदं जगदसन्महन्न खलु कर्म देहः सती धनं निधनमिन्द्रजालमिति सर्वमात्मीयकम् । परानुपदिशन्त्यहो श्रुतिशिरांसि लोके स्वयं धनार्जनपराः सदा धनिगृहाश्रिताः पण्डिताः ॥ ७३॥ कुतर्कपठनोत्सुकाः कुसुमबाणशास्त्रीयकाः प्रबन्धकथनप्रियाः प्रहसनप्रशंसाकराः । कलाकुशलबुद्धयः कलुषहूणभाषारता भवन्ति भुवि भूसुरा निगमसारचित् कोऽपि न ॥ ७४॥ घनार्जनपरो भवान् भवति यावदेव प्रिया- कुमारपितृसोदरीदुहितृमातृबन्धुस्नुषाः । भवन्ति विनयान्विताः परिसरन्ति भक्त्या परं यदा भवति निर्धनो जगति ते हि कुप्यन्ति च ॥ ७५॥ न कोऽपि च सहायको भवति तत्र वर्त्मन्यहो जनो बहुदयापरास्त्वयि हि ये श्मशानावधि । धनार्थमनुयान्ति केचन बुधा मुधा तज्जने करोषि सततं प्रियं त्यज ममत्वपाशं ततः ॥ ७६॥ पलालमिह धान्यधीस्त्यजति लोकशास्त्रश्रुती- स्तथा त्वमपि मोक्षधीस्त्वरितमेव तं स्वीकुरु । चराचरमयं रसं गुरुकटाक्षसंस्पर्शनात् पयोऽपि जलमिश्रितं कलयतीह हंसो यथा ॥ ७७॥ इमामशुचिकुण्डिकां जडमयीं तनुं श्यामलां रसार्तवसुमृन्मयीं पितृकुलालसत्कारणाम् । यतीन्द्रनवरन्ध्रिकां सुभगचक्रसम्भूतिकां न तां स्पृश मनोरथश्वपचदूषितां सर्वथा ॥ ७८॥ अहो परमदुःखदो जगति कोऽस्ति देहात् पृथक् परोपकृतिवृत्तिविस्मृतिपरश्च दोषाकरः । परार्तिनयनोत्सवः परधनक्षयौत्सुक्यधी- स्तपोजनपराङ्मुखस्तरलताकरः सन्मतेः ॥ ७९॥ गजाब्जवरचित्रकायकिरिगोमृगाणां यथा त्वगस्थिनखरोमरोचनवराणि गौरीपतेः । समर्पणविभूषणोपकरणानि जन्तोस्तथा तवाङ्गमशिवार्पणं भवति किं न भूभारकृत् ॥ ८०॥ भनोनृपतिमञ्जसा जहि विवेकखड्गेन तं महेश्वरपराङ्मुखं विषयपञ्चमन्त्र्यन्वितम् । शिवाङ्घ्रिकमलार्चनानियतकामयानस्थित- स्ततो ह्यमृतसुन्दरी प्रवृणुयाद्भवन्तं सुधीः ॥ ८१॥ मनोदशमुखासुरं भवसमुद्रमध्योल्लस- च्छरीरपुरवासिनं विमलबुद्धिसीतामुषम् । जहि त्वमभिरामधीः प्रणवचापचन्द्रेषुणा विदेहकुलदीपिकां प्रलभसे पुनः सत्वरम् ॥ ८२॥ मनोन्मनि जहि द्रुतं हृदयचण्डभण्डासुरं परात्प्रकृतिमण्डितं परमशाम्भवीभासिते । महेन्द्रधनुषा त्विषा मदनवैरिनेत्राग्निना सुखा मृततरङ्गिणी भवसि तेन संराज्ञिका ॥ ८३॥ गुरूक्तिसुधयैव हृत् समलमाप्नुयाच्छुद्धतां तदा तव हि मोक्षधोहृदयपुण्डरीकाम्बरे । अखण्डममृतं शिवं शशिकलावतंसं सुखं ततस्त्वमिह पश्यसि प्रणतलोककल्पद्रुमम् ॥ ८४॥ कृपाब्धिवडवानलं सुकृतशैलवज्रायुधं विमर्शसुममञ्जरीवनहुताशनं नाश्रय । सुमैत्रघनमारुतं सुमतिपद्मिनीहस्तिनीं क्रुधं वरतपोऽशनिं चितिशशाङ्कराहुं नर ॥ ८५॥ स्पृहा शुनकबालिकेति हि वदामि भोज्ये तु सा स्ववान्तमनघा च नातिपरिपालितान्नं भयात् । न गच्छति धरान्तरं तत इतः क्षणं धावति ब्रवीमि किमहो सुधीर्जगति नास्ति तृष्णोपमा ॥ ८६॥ मनोरथपिशाचिका सकलधातुसंशोषिका कुदेशगमनोत्सुका गलिन्तभीतिदुर्वृत्तिका । सदा चपलचित्तदा स्मरणमात्रतो नश्यति ध्रुवं शिवपदाब्जभक्तिरसतृप्तिसेतोर्भुवि ॥ ८७॥ त्वमेव परमः शिवस्त्वयि हि जातमेतज्जगत् त्वयि प्ररमते पुनस्त्वयि विलीयते सत्तया । त्वमेव सकलं जगज्जलनिधौ तरङ्गादिवत् त्वमेव परमोक्तिवानहमपीति न त्वां विना ॥ ८८॥ इमां परमपावनीं हृदि विरक्तिरत्नावलिं सदा वहति यो नरः स तु विवेकचूडामणिः । भजत्यमलबुद्धिषु प्रवरतामपि श्रीपुरे - श्वरस्य कृपयामृतं प्रलभतामनन्तं शिवम् ॥ ८९॥ इति श्रीविरक्तिरत्नावलिः समाप्ता । (३८) Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Virakti Ratnavali
% File name             : viraktiratnAvaliH.itx
% itxtitle              : viraktiratnAvaliH
% engtitle              : viraktiratnAvaliH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 38 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org