विश्वानरकृतं १ शिवस्तोत्रम्
(वीरेश्वर लिङ्ग)
तमालोक्य स्तुतिं चक्रे रोमकञ्चुकितो मुदा ।
प्रोच्चरद्गद्गदालापो नमोऽस्त्विति पुनः पुनः ॥
विश्वानर उवाच ।
एकब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित् ।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ १॥
एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽस्य रूपः ।
यद्वत्प्रत्यप्स्वर्क एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ २॥
रज्जौ सर्पः शुक्तिकायां च रूप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।
यद्वत्तद्वद्विष्वगेष प्रपञ्चो यस्मिंज्ञाते तं प्रपद्ये महेशम् ॥ ३॥
तोये शैत्यं दाहकत्वं च वह्नौ
तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्येऽपि सर्पि-
र्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ ४॥
शब्दं गृह्णास्यश्रवास्त्वं हि
जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् ।
व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः
कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ ५॥
नो वेदस्त्वामीश साक्षाद्धि वेद नो वा विष्णुर्नो विधाताऽखिलस्य ।
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ ६॥
नो ते गोत्रं नेशजन्मापिनाख्या नो वा रूपं नैव शीलं न देशः ।
इत्थं भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥ ७॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे
त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।
त्वं वै वृद्धस्त्वं युवा त्वं च
बालस्तत्त्वं यत्किन्नास्यतस्त्वां नतोऽस्मि ॥ ८॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे दशमाध्यायान्तर्गतं
विश्वानरकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड १ । अध्याय १०/१२६-१३३॥
skandapurANa . kAshIkhaNDa . pUrvakhaNDa 1 . adhyAya 10/126-133..
Proofread by PSA Easwaran