विश्वानरकृतं २ शिवस्तोत्रम्
अथ त्रयोदशे मासे स्नात्वा गङ्गाजले द्विजः ।
प्रत्यूष एव वीरेशं यावदायाति भूसुरः ॥ २१॥
तावल्लिङ्गान्तरे बालं ददर्शाऽष्टसमं शुभम् ।
पिङ्गजटं दीर्घनेत्रं श्वेतं विभूतिभूषितम् ॥ २२॥
तमालोक्य स्तुतिं चक्रे विश्वानरोऽतिमोदवान् ।
एकमेवाऽद्वितीयं यत् परम्ब्रह्म परात्परम् ॥ २३॥
कृष्णनारायणसंज्ञं शिवदं शिव ते नमः ।
कर्तृ पोष्टृ च संहर्तृ तेजो विविधतां गतम् ॥ २४॥
यन्मूर्तेरेकभागस्थमैश्वर्यं ज्वलनादिकम् ।
सौरभ्यादि यतो भूमौ तस्मै बालाय ते नमः ॥ २५॥
यद् गृहीतृ गन्तृ द्रष्टृ धातृ नियन्तृ चान्तरम् ।
सर्वकामप्रदातृ तत् तस्मै बालाय ते नमः ॥ २६॥
स्तुत्वेति पादयोस्तस्य विश्वानरः पपात ह ।
बालो वरं वृणीहीति प्रोवाच हसिताननः ॥ २७॥
विश्वानरः प्रत्युवाच भवान् सर्वप्रदो यतः ।
पुत्रं देहि त्वादृशं ते प्रणतोऽस्मि पुनः पुनः ॥ २८॥
बालः प्राह तथास्त्वित्यचिरेण ते मनोरथः ।
शुचिष्मत्यामहं पुत्रो भविष्यामि फलिष्यति ॥ २९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ४५९-अध्यायान्तर्गतं
विश्वानरकृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ४५९/२१-२९॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 459/21-29..
Proofread by PSA Easwaran