विश्वावसुप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम्

विश्वावसुप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम्

विश्वावसुः - धन्योऽसि मान्योऽसि गणाग्रगण्य विश्वेश्वराराधनतत्परोऽसि । त्वत्पादपद्मार्चनतोऽपि मुक्तिः सम्भाविता स्याद्गिरिशप्रसादात् ॥ १८९॥ शाङ्कराङ्घिकमलार्चनादपि प्रीत एव भगवानुमापतिः । शाङ्करेषु खलु तस्य सर्वथा प्रीतिरेव गिरिशः स शाम्भवः ॥ १९०॥ समर्चितः स्यात् यदि शाम्भवस्तदा साक्षान्महेशोऽपि समर्चितः स्यात् । ईशाभिमानः खलु शाम्भवेषु ते दुर्लभाः किं शिवयोगिनोऽपि ॥ १९१॥ धन्यास्ते शिवयोगिनः शिवपदाम्भोजार्चनाराधन- ध्यानानन्दरसप्रसाधनरसाः संसारवार्तांलसाः । तेषां पूजनमेव ताबदधुना संसारदुःखापहं तत्सङ्गात् खलु शङ्गमङ्गलकथापीयूषधारार्णवः ॥ अहो विचित्रं खलु शाम्भवानां चरित्रमत्यद्भुतमप्यचित्रम् । चित्रं किमत्रास्ति पवित्रवार्ता करोति तावत्परमं पवित्रम् ॥ १९३॥ कः शङ्करार्चनपरो न सुरो नरो वा सर्वे सुरा अपि तदङ्घ्रिसमर्चनेन । धन्या भवन्ति बहवो भुवि शाम्भवाः किं वीरेश्वरार्चनपरः खलु कोऽपि शैवः ॥ १९४॥ वीरेश्वरानुग्रहपात्रमेकः स बाल्यमारभ्य शिवार्चकः सन् । वयः शिवाराधनसाधनेषु परं चकारामरहारवीरः ॥ १९५॥ भवानिहैको भगवत्प्रसादात् अभ्यागतो मत्सुकृतैरपारैः । त्वया तु तावद्भिरिशार्चनाय समागतं पावयितुं गृहं मे ॥ १९६॥ अस्माकं गृहमेधिनामपि बहु त्वत्पादसङ्क्षालनात् तत्प्रक्षालनजातपुण्यसलिलासेकानुपानादिना । त्वत्पादाम्बुजरेणुभिः परमिदं समापि मे पावनं मद्वंशोऽप्यतिपावनः स तु महान् त्वं शाम्भवो दुर्लभः ॥ १९७॥ मनागपि तथा पुरा शिवकथासुधासागरः श्रुतः श्रवणपावनः श्रवणपान्नपीतो मुहुः । अतः परमहं मुदा गिरिशपादपद्मार्चनं करोमि करुणाम्बुधे शिवपदाम्बुजाराधकः ॥ १९८॥ श्रोत्रं पवित्रं मम जातमद्य गात्रं ममैतत् सुतरां पवित्रम् । त्वदुक्तविश्वेशकथासुधाब्धितरङ्गमालाकलितोऽहमेव ॥ १९९॥ जन्मान्यतीतानि बहूनि तेषु महेश्वरापारकथासुधाब्धिः । नाकर्णितो नाप्यनुसन्धितो वा न चार्चितो वाप्यमृतत्वसिद्ध्यै ॥ २००॥ किं तैर्जन्मभिरप्यपारतरुणीसंसारवार्तारस- व्यापारैरपराधकोटिसहितैर्यैः शङ्करो नार्चितः । न ध्यातोऽपि न च श्रुतोऽपि नयनैर्दृष्टोऽपि कष्टार्णवा- दुद्धर्तुं स समर्थ इत्यनुदिनं नाराधितो वैभवैः ॥ २०१॥ ब्रह्माद्यैरपि यत्पदाम्बुजरजःपूजार्थमत्यद्भुतं तप्तं घोरतरं तपोऽपि बहुधा धर्माः कृताः कोटिशः । तत्पादस्मरणं कदापि न कृतं दारैः परं वञ्चितो भोगैरप्यमितैरतः परमहं पूतस्त्वदालोकनात् ॥ २०२॥ अद्यागत्य महेश्वरामृतकथापीयूषधारा परा दत्ता सा त्वदनुग्रहेण सततं संरक्षणीया मया । सेयं कण्ठमणिर्ममास्तु सुकृतैः यैर्यैः श्रुता सा कथा ते सर्वेऽपि शिवाभिधानसुधया क्ताः समन्तादपि ॥ २०३॥ ॥ इति शिवरहस्यान्तर्गते विश्वावसुप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २०। १८९-२०३ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 20. 189-203 .. Notes: Viśvāvasu विश्वावसु (a Gandharva गन्धर्व)narrates his experience and expresses gratitude to Nandikeśa नन्दिकेश about the merits of worshiping and listening to discourses about Śiva शिव. Proofread by Ruma Dewan
% Text title            : Vishvavasuproktam Shivabhidhanashravanamahimanuvarnanam
% File name             : vishvAvasuproktaMshivAbhidhAnashravaNamahimAnuvarNanam.itx
% itxtitle              : shivAbhidhAnashravaNamahimAnuvarNanam vishvAvasuproktam (shivarahasyAntargatam)
% engtitle              : vishvAvasuproktaM shivAbhidhAnashravaNamahimAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 20 | 189-203 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org