विश्वावसुप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम्
विश्वावसुः -
धन्योऽसि मान्योऽसि गणाग्रगण्य विश्वेश्वराराधनतत्परोऽसि ।
त्वत्पादपद्मार्चनतोऽपि मुक्तिः सम्भाविता स्याद्गिरिशप्रसादात् ॥ १८९॥
शाङ्कराङ्घिकमलार्चनादपि प्रीत एव भगवानुमापतिः ।
शाङ्करेषु खलु तस्य सर्वथा प्रीतिरेव गिरिशः स शाम्भवः ॥ १९०॥
समर्चितः स्यात् यदि शाम्भवस्तदा साक्षान्महेशोऽपि समर्चितः स्यात् ।
ईशाभिमानः खलु शाम्भवेषु ते दुर्लभाः किं शिवयोगिनोऽपि ॥ १९१॥
धन्यास्ते शिवयोगिनः शिवपदाम्भोजार्चनाराधन-
ध्यानानन्दरसप्रसाधनरसाः संसारवार्तांलसाः ।
तेषां पूजनमेव ताबदधुना संसारदुःखापहं
तत्सङ्गात् खलु शङ्गमङ्गलकथापीयूषधारार्णवः ॥
अहो विचित्रं खलु शाम्भवानां चरित्रमत्यद्भुतमप्यचित्रम् ।
चित्रं किमत्रास्ति पवित्रवार्ता करोति तावत्परमं पवित्रम् ॥ १९३॥
कः शङ्करार्चनपरो न सुरो नरो वा सर्वे सुरा अपि तदङ्घ्रिसमर्चनेन ।
धन्या भवन्ति बहवो भुवि शाम्भवाः किं वीरेश्वरार्चनपरः खलु कोऽपि शैवः ॥ १९४॥
वीरेश्वरानुग्रहपात्रमेकः स बाल्यमारभ्य शिवार्चकः सन् ।
वयः शिवाराधनसाधनेषु परं चकारामरहारवीरः ॥ १९५॥
भवानिहैको भगवत्प्रसादात् अभ्यागतो मत्सुकृतैरपारैः ।
त्वया तु तावद्भिरिशार्चनाय समागतं पावयितुं गृहं मे ॥ १९६॥
अस्माकं गृहमेधिनामपि बहु त्वत्पादसङ्क्षालनात्
तत्प्रक्षालनजातपुण्यसलिलासेकानुपानादिना ।
त्वत्पादाम्बुजरेणुभिः परमिदं समापि मे पावनं
मद्वंशोऽप्यतिपावनः स तु महान् त्वं शाम्भवो दुर्लभः ॥ १९७॥
मनागपि तथा पुरा शिवकथासुधासागरः श्रुतः श्रवणपावनः श्रवणपान्नपीतो मुहुः ।
अतः परमहं मुदा गिरिशपादपद्मार्चनं करोमि करुणाम्बुधे शिवपदाम्बुजाराधकः ॥ १९८॥
श्रोत्रं पवित्रं मम जातमद्य गात्रं ममैतत् सुतरां पवित्रम् ।
त्वदुक्तविश्वेशकथासुधाब्धितरङ्गमालाकलितोऽहमेव ॥ १९९॥
जन्मान्यतीतानि बहूनि तेषु महेश्वरापारकथासुधाब्धिः ।
नाकर्णितो नाप्यनुसन्धितो वा न चार्चितो वाप्यमृतत्वसिद्ध्यै ॥ २००॥
किं तैर्जन्मभिरप्यपारतरुणीसंसारवार्तारस-
व्यापारैरपराधकोटिसहितैर्यैः शङ्करो नार्चितः ।
न ध्यातोऽपि न च श्रुतोऽपि नयनैर्दृष्टोऽपि कष्टार्णवा-
दुद्धर्तुं स समर्थ इत्यनुदिनं नाराधितो वैभवैः ॥ २०१॥
ब्रह्माद्यैरपि यत्पदाम्बुजरजःपूजार्थमत्यद्भुतं
तप्तं घोरतरं तपोऽपि बहुधा धर्माः कृताः कोटिशः ।
तत्पादस्मरणं कदापि न कृतं दारैः परं वञ्चितो
भोगैरप्यमितैरतः परमहं पूतस्त्वदालोकनात् ॥ २०२॥
अद्यागत्य महेश्वरामृतकथापीयूषधारा परा
दत्ता सा त्वदनुग्रहेण सततं संरक्षणीया मया ।
सेयं कण्ठमणिर्ममास्तु सुकृतैः यैर्यैः श्रुता सा कथा
ते सर्वेऽपि शिवाभिधानसुधया क्ताः समन्तादपि ॥ २०३॥
॥ इति शिवरहस्यान्तर्गते विश्वावसुप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २०। १८९-२०३ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 20. 189-203 ..
Notes:
Viśvāvasu विश्वावसु (a Gandharva गन्धर्व)narrates his experience and expresses gratitude to Nandikeśa नन्दिकेश about the merits of worshiping and listening to discourses about Śiva शिव.
Proofread by Ruma Dewan