श्रीविश्वनाथाष्टकस्तोत्रम्
विश्वेश्वराय भवरोग विनाशकाय
गङ्गातरङ्ग धवली कूलवासकायम् ।
ज्योतिर्मयाय शिवलिङ्ग प्रकाशकाय
काशीश्वराय सततं प्रणमामि तुभ्यम् ॥ १॥
विश्वं प्रकाश सततं सकलं प्रदाय
मोक्षैक धाम कृत दान सदा जनाय ।
आनन्द सिन्धु विलयाय सुविग्रहाय
विश्वेश्वराय सततं प्रणमामि तुभ्यम् ॥ २॥
वाराणसीपुरी निरन्तर सेविताय
गङ्गाधराय शशीखण्ड शुशोभिताय ।
व्यालाधिराज निजमौलिसुवेष्ठिताय
विश्वेश्वराय सततं प्रणमामि तुभ्यम् ॥ ३॥
श्रीकाशिकायां स्थित दिव्यलिङ्गं
प्रकाशते लोक हिताय नित्यम् ।
श्रीविश्वनाथस्तवनाम व्यापकं
भूताधिवासं प्रणमामि नित्यम् ॥ ४॥
नन्द्यादि मृङ्ग्यादि गणैसुसेवितं
देवादिमन्वादि जनैः सुपूजितम् ।
आनन्दकन्दं परमंसुमङ्गलं
श्रीविश्वनाथं प्रणमामिनित्यम् ॥ ५॥
कैवल्यनिर्माण सुशन्तिधामदं
ऐश्वर्यमानन्द सुधाप्रदम्प्रभुम् ।
श्रीशङ्करं सर्वजनैः सुवन्दितं
श्रीविश्वनाथं प्रणमामि नित्यम् ॥ ६॥
नाना विलासैः परिपूरितोऽपि
सदाउदासीन सदाविरागी ।
त्वयैवदत्तं सकलं सुसम्पदं
भुञ्जन्ति लोका प्रणमामि तुभ्यम् ॥ ७॥
महास्मशानेनिवसत् सदाशिवः
जीवस्यस्थूलादि त्र्यंशरीरम् ।
करोति भस्मं स्वप्रदत्तज्ञानात्
नमामिशम्भोतवपादयुग्मम् ॥ ८॥
इत्याष्टकं शङ्कर नाम शोभितं
येयेपठन्तीह सदादिनेदिने ।
श्रीशम्भुभक्ति हृदयेभविष्यति
श्रीविश्वनाथस्य सुदर्शनञ्च ॥ ९॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं शिवाष्टकं सम्पूर्णम् ।
जो परमेश्वर को पाता है वह अपने रूप में न रहकर प्रभु के रूप
में समा जाता है । -- ``सन्तवाणी''
ईश्वर का स्मरण करो तो ऐसा कि फिर दूसरी बार उसे याद ही न करना
पड़े । -- ``सन्तवाणी
Proofread by Paresh Panditrao