विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम्
श्रीगणेशाय नमः ॥
स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १॥
यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २॥
सर्वदाऽमरगणैश्च वन्दिता या गजेन्द्रमुखवारितविघ्ना । (सर्वदा ह्यमरवृन्दवन्दिता)
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ३॥
यत्र तीर्थममलां मणिकर्णिका सा सदाशिवसुखप्रदायिनी ।
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥ ४॥
(यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतः शुभा ।
साखिलामरगणस्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥)
सर्वतीर्थकृतमज्जनपुण्यैर्जन्म जन्मसुकृतैः खलु लभ्या ।
प्राप्यते भवभवार्तिनाशिनी विश्वनाथनगरी गरीयसी॥ ५॥
यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी॥ ६॥
यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ७॥
विश्वनाथनगरीस्तवं शुभं यः पठेत् प्रयतमानसस्सदा ।
पुत्रदारगृहलाभमव्ययं मुक्तिमार्गमनघं लभेत्सदा ॥ ८॥
उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा ।
सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥ ९॥
इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं सम्पूर्णम् ॥
श्रीवेदव्यासविरचितकाश्यष्टकम् (?)
The original verses as given in Reference 1
श्रीगणेशाय नमः ॥
यत्र देवपतिनापि देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ १॥
स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ २॥
यत्र तीर्थममलं मणिकर्णिका सा सदाशिवसुखप्रदायिनी ।
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥ ३॥
सर्वदा ह्यमरवृन्दवन्दिता या गजेन्द्रमुखवारितविघ्ना ।
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ४॥
यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतः शुभा ।
साखिलामरगणस्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥
उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा ।
सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥ ६॥
इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं सम्पूर्णम् ॥
The original VishvanAthanagarI stotram was
expanded as kAshyaShTakam for similarity
of verses and second reference.
Proofread by PSA Easwaran