विश्वनाथस्तोत्रम्
(वसन्ततिलकावृत्तम्)
यस्मात्परं न किल चापरमस्ति किञ्चिद्
ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान ।
निष्कम्प एक इति योऽव्ययसौख्यसिन्धु-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ १॥
रज्वां यथा भ्रमविभासितसर्पभावः
यस्मिंस्तथैव बत विश्वविभेदभानम् ।
योऽज्ञाननाशनविधौ प्रथितस्तोऽरि-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ २॥
यावन्न भक्तिरखिलेश्वरपादपद्मे
संसारसौख्यमिह यत्किल शुक्तिरौप्यम् ।
यद्भक्तिरेव भवरोगनुदा सुधैव
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ३॥
यः काममत्तगजगण्डविभेदसिंहः
यो विघ्नसर्पभवभीतीनुदो गुरुत्मान् ।
यो दुर्विषह्यभवतापजदुःखचन्द्रः
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ४॥
वैराग्यभक्तिनवपल्लवकृद्वसन्तः
योभोगवासनावनप्रविदाहदावः ।
योऽधर्मरावणविनाशनहेतुरामः
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ५॥
स्वानन्यभक्तभववारिधिकुम्भजो यः
यो भक्तचञ्चलमनोभ्रमराब्जकल्पः ।
यो भक्तसञ्चितघनप्रविभेदवातः
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ६॥
सद्भक्तसधृदयपञ्जरगः शुको यः
ओङ्कारनिःस्वनविलुब्धकरः पिको यः ।
यो भक्तमन्दिरकदम्बचरो मयूरः
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ७॥
यो भक्तकल्पितदकल्पतरुः प्रसिद्धः
यो भक्तचित्तगतकामधेनुति चोक्त्ः ।
यो भक्तचिन्तितददिव्यममणिप्रकल्पः
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ८॥
हेमैव यद्वदिह भूषणनाम धत्ते
ब्रह्मैव तद्वदिह शङ्करनाम धत्ते ।
योभक्तभावतनुधृक् चिदखण्डरूपः
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ९॥
यन्नेति नेति वचनैर्निगमा वदन्ति
यज्जीवविश्वभवशोकभयातिदूरम् ।
सच्चित्सुखाद्वयमिदं मम शुद्धरूपं
तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ १०॥
(अनुष्टुभ्)
काश्यां यथा विश्वनाथो राराजति विशेषतः।
अस्मिंस्तोत्रे तथैवायं विराजति विशेषतः ॥ ११॥
काश्यामेव कृतं स्तोत्रं विश्वनाथस्य पावनम् ।
पठेद्भ्यो म्क्षदं नित्यं काशीव किल सर्वदा ॥ १२॥
॥ इति श्रीसमर्थरामदासानुगृहीत रामपदकञ्जभृङ्गायमान
श्रीमत्परमहंसपरिव्राजकाचार्य भगवता श्रीश्रीधरस्वामिना
विरचितं श्रीविश्वनाथस्तोत्रं सम्पूर्णम् ॥