श्रीविश्वनाथस्तुतिः
अध्यायः -१
मुनयः -
नमस्ते देवदेवेश नमस्ते जगतां पते ।
नमस्ते चन्द्रचूडाय नमस्ते शूलधारिणे ॥ १॥
नमस्ते कालकालाय नमस्त्रैलोक्यधारिणे ।
नमस्ते वेदवेद्याय नमस्ते पुण्यमूर्तये ॥ २॥
नमस्ते ब्रह्मरूपाय नमस्ते विष्णुरूपिणे ।
नमस्ते रुद्ररूपाय नम ईश्वररूपिणे ॥ ३॥
नमः सदाशिवायास्तु नमः परशिवाय ते ।
नमो देवाय महते मङ्गलाय महात्मने ॥ ४॥
नमः पर्वतराजेन्द्रकन्यकापतये नमः ।
योगानन्दाय योगाय योगिनां पतये नमः ॥ ५॥
प्राणायामरतानान्तु प्रत्यक्षाय नमो नमः ।
विश्वाय विश्वनाथाय विश्वाधाराय ते नमः ॥ ६॥
नमो भक्तभयच्छेद कारणायामलाय ते ।
नमस्ते रुद्र भगवन्मन्यवे ते चेषवे नमः ॥ ७॥
नमस्ते धन्विने तुभ्यं बाहुभ्यामुत ते नमः ।
नमस्ते हरिकेशाय पत्तीनां पतये नमः ॥ ८॥
पुष्टानां पतये तुभ्यं नमस्ते परमात्मने ।
नमश्शिवाय त्रिदशार्चिताय विनष्टदोषाय गुणार्णवाय ॥ ९॥
विमुक्तिमार्गप्रतिबोधनाय देवादिदेवाय नमश्शिवाय ।
इति स्तुत्वा विश्वनाथं वसिष्ठाद्यास्तपोधनाः ॥ १०॥
इति श्रीविश्वनाथस्तुतिः समाप्ता ।
श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां
हालास्यमाहात्म्ये अध्यायः -१ श्लोकानि १३५-१४४
Proofread by Rajesh Thyagarajan