विश्वेश्वरादिस्तुतिः
%१६
नमः श्रीविश्वनाथाय देववन्द्यपदाय ते ।
काशीशाश्वोवतारं मे देवदेव ह्युपादिश ॥ १॥
मायाधीशं महात्मानं सर्वकारणकारणम् ।
वन्दे तं माधवं देवं यः काशीं चाधितिष्ठति ॥ २॥
वन्दे तं धर्मगोप्तारं सर्वगुह्यार्थवेदिनम् ।
गणदेवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम् ॥ ३॥
भारं वोढुं स्वभक्तानां यो योगं प्राप्त उत्तमम् ।
तं सढुण्ढिं दण्डपाणिं वन्दे गाङ्गतटस्थितम् ॥ ४॥
भैरवं दंष्ट्रकरालं भक्ताभयकरं भजे ।
दुष्टदण्डं शूलशीर्षधरं वामाध्वचारिणम् ॥ ५॥
श्रीकाशीं पापशमनीं दमनीं दुष्टचेतसः ।
स्वर्निःश्रेणिं चाविमुक्तपुरीं मत्र्यहितां भजे ॥ ६॥
नमामि चतुराराध्यां सदाऽणिम्नस्थितिं गुहाम् ।
श्रीगङ्गे भैरवीं दूरिकुरु कल्याणि यातनाम् ॥ ७॥
भवानि रक्षान्नपूर्णे सद्वर्णितगुणेऽम्बिके ।
देवर्षिवन्द्याम्बुमणिकर्णिकां मोक्षदां भजे ॥ ८॥
मन्त्राद्याक्षरसहित
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
नमः श्री वि श्वनाथाय देव वं द्यपदाय ते ।
काशीशा श्वो वतारं मे देव दे व ह्युपादिश ॥ १॥
मायाधी शं महात्मानं सर्व का रणकारणम् ।
वन्दे तं मा धवं देवं यः का शीं चाधिष्ठति ॥ २॥
वन्दे तं ध र्मगोप्तारं सर्व गु ह्यार्थवेदिनम् ।
गणदे वं ढुण्ढिराजं तं म हां तं स्वविघ्नहम् ॥ ३॥
भारं वो ढुं स्वभक्तानां यो यो गं प्राप्त उत्तमम् ।
तं सढुं ढिं दण्डपाणिं वन्दे गां गतटस्थितम् ॥ ४॥
भैरवं दं ष्ट्रकरालं भक्ता भ यकरं भजे ।
दुष्टदं डं शूलशीर्षधरं वा माध्वचारिणम् ॥ ५॥
श्रीकाशीं पा पशमनीं दम नीं दुष्टचेतसः ।
स्वर्निःश्रे णिं चाविमुक्तपुरीं म त्र्यहितां भजे ॥ ६॥
नमामि च तुराराध्यां सदाऽ णि म्नस्थितिं गुहाम् ।
श्रीगङ्गे भै रवीं दूरिकुरु क ल्याणि यातनाम् ॥ ७॥
भवानि र क्षान्नपूर्णे सद्व र्णि तगुणेऽम्बिके ।
देवर्षि वं द्याम्बुमणिकर्णि कां मोक्षदां भजे ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता विश्वेश्वरादिस्तुतिः सम्पूर्णा ।