श्रीव्याडेश्वरस्तोत्रम्
अनाथबन्धुं करुणैकसिन्धुं प्रसन्नमूर्तिं सुपवित्रकीर्तिम् ।
गौरीकलत्रं कमनीयगात्रं व्याडेश्वरं नौमि जगन्निवासम् ॥ १॥
लसालिनेत्रं शुभपञ्चवक्त्रं भुजङ्गभूषं लघुचित्रवेषम् ।
भस्माङ्गरागं क्रतुशिष्टभागं व्याडेश्वरं नौमि जगन्निवासम् ॥ २॥
चन्द्रावदातं गजवक्त्रतातं चन्द्रार्धचूडं जगदेकनीडम् ।
पवित्रगोत्रं वृषराजपत्रं व्याडेश्वरं नौमि जगन्निवासम् ॥ ३॥
आनन्दकन्दं हतवैरिवृन्दं कृतान्तकालं नृकपालमालम् ।
तीव्रप्रतापं प्रलयाग्निकोपं व्याडेश्वरं नौमि जगन्निवासम् ॥ ४॥
शिरोधिनीलं करिचर्मचेलं पिनाकहेतिं भृतभूरिभूतिम् ।
समस्त हेतूं प्रययान्तकेतुं व्याडेश्वरं नौमि जगन्निवासम् ॥ ५॥
व्याडेश्वरं नौमि हरं महेश्वरं गङ्गाधरं पापहरं कृपाकरम् ।
गौरीवरं शूलधरं हतासुरं विश्वम्भरं देववरं परात्परम् ॥ ६॥
इति व्याडेशदेवस्य स्तोत्रं यः सर्वदा जपेत् ।
लब्ध्वा व्याडेश्वरे भक्तिं भुक्तिमुक्ति लभेत सः ॥ ७॥
इति श्रीव्याडेश्वरस्तोत्रं सम्पूर्णम् ।
NA