व्यासकृतं शिवाष्टकस्तोत्रम्

व्यासकृतं शिवाष्टकस्तोत्रम्

व्यास उवाच । एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किञ्चित् । यद्यप्यन्यः कोऽपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे ॥ १॥ यः क्षीराब्धेर्मन्दराघातजातो ज्वालामाली कालकूटोऽतिभीमः । तं सोढुं वा को परोऽभून्महेशाद्यत्कीलाभिः कृष्णतामाप विष्णुः ॥ २॥ यद्वाणोऽभूच्छ्रीपतिर्यस्य यन्ता लोकेशो यत्स्यन्दनं भूः समस्ता । वाहा वेदा यस्य येनेषुपाताद्दग्धा ग्रामास्त्रैपुरास्तत्समः कः ॥ ३॥ यं कन्दर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि । पौष्पैर्बाणैः सर्वविश्वैकजेता को वा स्तुत्यः कामजेतुस्ततोऽन्यः ॥ ४॥ यं वै वेदो वेद नो नैव विष्णुर्नो वा वेधा नो मनो नैव वाणी । तं देवेशं मादृशः कोऽल्पमेधा याथात्म्याद्वै वेत्त्यहो विश्वनाथम् ॥ ५॥ यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता । नो यस्यादिर्यः समस्तादिरेको नो यस्यान्तो योऽन्तकृत्तं नतोऽस्मि ॥ ६॥ यस्यैकाख्या वाजिमेधेन तुल्या यस्य नत्या चैकयाल्पेन्द्रलक्ष्मीः । यस्य स्तुत्या लभ्यते सत्यलोको यस्यार्चातो मोक्षलक्ष्मीरदूरा ॥ ७। नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शम्भोरृतेऽहम् । नान्यं देवं वा नमामि त्रिनेत्रात्सत्यं सत्यं सत्यमेतन्मृषा न ॥ ८॥ इत्थं यावत्स्तौति शम्भुं महर्षिस्तावन्नन्दी शाम्भवाद्दृक्प्रसादात् । तद्दोः स्तम्भं त्यक्तवांश्चाबभाषे स्मायं स्मायं ब्राह्मणेभ्यो नमो वः ॥ ९॥ नन्दिकेश्वर उवाच । इदं स्तवं महापुण्यं व्यास ते परिकीर्तितम् । यः पठिष्यति मेधावी तस्य तुष्यति शङ्करः ॥ १०॥ व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः । दुःस्वप्नपापशमनं शिवसान्निध्यकारकम् ॥ ११॥ मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा । सुरापी स्वर्णहृद्वापि निष्पापो स्याः स्तुतेर्जपात् ॥ १२॥ इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे पञ्चनवतितमा- ध्यायान्तर्गतं व्यासकृतं शिवाष्टकस्तोत्रं समाप्तम् । स्कन्दपुराण । काशीखण्ड । उत्तरखण्ड २ । अध्याय ९५/५६-६३॥ skandapurANa . kAshIkhaNDa . uttarakhaNDa 2 . adhyAya 95/56-63.. Proofread by PSA Easwaran
% Text title            : Vyasakritam Shivashtaka Stotram
% File name             : vyAsakRRitaMshivAShTakastotram.itx
% itxtitle              : shivAShTakastotram (vyAsakRitaM skandapurANAntargatam)
% engtitle              : vyAsakRRitaM shivAShTakastotram
% Category              : shiva, skandapurANa, aShTaka, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | kAshIkhaNDa | uttarakhaNDa | adhyAya 95/56-63||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org