व्यासकृतं शिवाष्टकस्तोत्रम्
व्यास उवाच ।
एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किञ्चित् ।
यद्यप्यन्यः कोऽपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे ॥ १॥
यः क्षीराब्धेर्मन्दराघातजातो ज्वालामाली कालकूटोऽतिभीमः ।
तं सोढुं वा को परोऽभून्महेशाद्यत्कीलाभिः कृष्णतामाप विष्णुः ॥ २॥
यद्वाणोऽभूच्छ्रीपतिर्यस्य यन्ता लोकेशो यत्स्यन्दनं भूः समस्ता ।
वाहा वेदा यस्य येनेषुपाताद्दग्धा ग्रामास्त्रैपुरास्तत्समः कः ॥ ३॥
यं कन्दर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि ।
पौष्पैर्बाणैः सर्वविश्वैकजेता को वा स्तुत्यः कामजेतुस्ततोऽन्यः ॥ ४॥
यं वै वेदो वेद नो नैव विष्णुर्नो वा वेधा नो मनो नैव वाणी ।
तं देवेशं मादृशः कोऽल्पमेधा याथात्म्याद्वै वेत्त्यहो विश्वनाथम् ॥ ५॥
यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता ।
नो यस्यादिर्यः समस्तादिरेको नो यस्यान्तो योऽन्तकृत्तं नतोऽस्मि ॥ ६॥
यस्यैकाख्या वाजिमेधेन तुल्या यस्य नत्या चैकयाल्पेन्द्रलक्ष्मीः ।
यस्य स्तुत्या लभ्यते सत्यलोको यस्यार्चातो मोक्षलक्ष्मीरदूरा ॥ ७।
नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शम्भोरृतेऽहम् ।
नान्यं देवं वा नमामि त्रिनेत्रात्सत्यं सत्यं सत्यमेतन्मृषा न ॥ ८॥
इत्थं यावत्स्तौति शम्भुं महर्षिस्तावन्नन्दी शाम्भवाद्दृक्प्रसादात् ।
तद्दोः स्तम्भं त्यक्तवांश्चाबभाषे स्मायं स्मायं ब्राह्मणेभ्यो नमो वः ॥ ९॥
नन्दिकेश्वर उवाच ।
इदं स्तवं महापुण्यं व्यास ते परिकीर्तितम् ।
यः पठिष्यति मेधावी तस्य तुष्यति शङ्करः ॥ १०॥
व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः ।
दुःस्वप्नपापशमनं शिवसान्निध्यकारकम् ॥ ११॥
मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा ।
सुरापी स्वर्णहृद्वापि निष्पापो स्याः स्तुतेर्जपात् ॥ १२॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे पञ्चनवतितमा- ध्यायान्तर्गतं
व्यासकृतं शिवाष्टकस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । उत्तरखण्ड २ । अध्याय ९५/५६-६३॥
skandapurANa . kAshIkhaNDa . uttarakhaNDa 2 . adhyAya 95/56-63..
Proofread by PSA Easwaran