व्यासप्रोक्तं शिवस्तोत्रम्
(महाभारते द्रोणपर्वणि)
प्रजापतीनां प्रथमं तेजसां (तैजसं)पुरुषं (प्रवरं)प्रभुम् ।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ १॥
महादेवं महात्मानमीशानं जटिलं विभुम् ।
त्र्यक्षं महाभुजं रुद्रं (रौद्रं)शिखिनं चीरवाससम् ॥ २॥
महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।
जगत्प्रधानमधिकं जगत्प्रीतमधीश्वरम् ॥ ३॥
जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् ।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ ४॥
विश्वेश्वरं विश्वनरं कर्माणामीश्वरं प्रभुम् ।
शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ ५॥
योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥ ६॥
लोकत्रय विधातारमेकं लोकत्रयाश्रयम् ।
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम् ॥ ७॥
शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् ।
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ ८॥
ज्ञानात्मानां ज्ञानगम्यं ज्ञानश्रेष्ठं सुदर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ ९॥
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
अनन्यभावेन सदा सर्वेशं समुपासते ॥ १०॥
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ।
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ॥ ११॥
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ।
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ १२॥
हरिकेशाय मुण्डाय कृशायोत्तरणाय च ।
भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ १३॥
बहुरूपाय शर्वाय प्रियाय प्रियवाससे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ १४॥
गिरिशाय प्रशान्ताय पतये चीरवाससे ।
हिरण्यबाहवे चैव उग्राय पतये दिशाम् ॥ १५॥
पर्जन्यपतये चैव भूतानां पतये नमः ।
वृक्षाणां पतये चैव अपां च पतये तथा ॥ १६॥
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ।
स्रुवहस्ताय देवाय धन्विने भार्गवाय च ॥ १७॥
बहुरूपाय विश्वस्य पतये चीरवाससे ।
सहस्रशिरसे चैव सहस्रनयनाय च ॥ १८॥
सहस्रबाहवे चैव सहस्रचरणाय च ।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ।
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ॥ १९॥
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ।
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ॥ २०॥
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ।
वृषायुधं वृषशरं वृषभूतं महेश्वरम् ॥ २१॥
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ।
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ २२॥
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् ।
पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ॥ २३॥
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ।
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा ॥ २४॥
सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने । (सुवाससे नमो नित्यं)
धनुर्धराय देवाय प्रियधन्वाय धन्विने ॥ २५॥ (स्रुवहस्ताय देवाय सुखधन्वाय)
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ।
उग्रायुधाय देवाय नमः सुरवराय च ॥ २६॥
नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ।
नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने ॥ २७॥
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ।
वनस्पतीनां पतये नराणां पतये नमः ॥ २८॥
मातॄणां पतये चैव गणानां पतये नमः ।
गवां च पतये नित्यं यज्ञानां पतये नमः ॥ २९॥
अपां च पतये नित्यं यज्ञानां पतये नमः ।
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥ ३०॥
इति महाभारते द्रोणपर्वणि व्यासप्रोक्तं शिवस्तोत्रं सम्पूर्णम् ।
Notes:
The shlokas have been renumbered since
various publications differ about the
relevant chapter number and shloka numbers.
Encoded and proofread by Ruma Dewan