व्यासप्रोक्तं शिवस्तोत्रम्

व्यासप्रोक्तं शिवस्तोत्रम्

(महाभारते द्रोणपर्वणि) प्रजापतीनां प्रथमं तेजसां (तैजसं)पुरुषं (प्रवरं)प्रभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ १॥ महादेवं महात्मानमीशानं जटिलं विभुम् । त्र्यक्षं महाभुजं रुद्रं (रौद्रं)शिखिनं चीरवाससम् ॥ २॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् । जगत्प्रधानमधिकं जगत्प्रीतमधीश्वरम् ॥ ३॥ जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् । विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ ४॥ विश्वेश्वरं विश्वनरं कर्माणामीश्वरं प्रभुम् । शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ ५॥ योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् । सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥ ६॥ लोकत्रय विधातारमेकं लोकत्रयाश्रयम् । शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम् ॥ ७॥ शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् । सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ ८॥ ज्ञानात्मानां ज्ञानगम्यं ज्ञानश्रेष्ठं सुदर्विदम् । दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ ९॥ ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । अनन्यभावेन सदा सर्वेशं समुपासते ॥ १०॥ रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे । कपर्दिने करालाय हर्यक्ष्णे वरदाय च ॥ ११॥ याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च । काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ १२॥ हरिकेशाय मुण्डाय कृशायोत्तरणाय च । भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ १३॥ बहुरूपाय शर्वाय प्रियाय प्रियवाससे । उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ १४॥ गिरिशाय प्रशान्ताय पतये चीरवाससे । हिरण्यबाहवे चैव उग्राय पतये दिशाम् ॥ १५॥ पर्जन्यपतये चैव भूतानां पतये नमः । वृक्षाणां पतये चैव अपां च पतये तथा ॥ १६॥ वृक्षैरावृतकायाय सेनान्ये मध्यमाय च । स्रुवहस्ताय देवाय धन्विने भार्गवाय च ॥ १७॥ बहुरूपाय विश्वस्य पतये चीरवाससे । सहस्रशिरसे चैव सहस्रनयनाय च ॥ १८॥ सहस्रबाहवे चैव सहस्रचरणाय च । उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् । प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ॥ १९॥ कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् । वृषदर्पं वृषपतिं वृषश‍ृङ्गं वृषर्षभम् ॥ २०॥ वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् । वृषायुधं वृषशरं वृषभूतं महेश्वरम् ॥ २१॥ महोदरं महाकायं द्वीपिचर्मनिवासिनम् । लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ २२॥ त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् । पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ॥ २३॥ प्रपद्ये शरणं देवं शरण्यं चीरवाससम् । नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा ॥ २४॥ सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने । (सुवाससे नमो नित्यं) धनुर्धराय देवाय प्रियधन्वाय धन्विने ॥ २५॥ (स्रुवहस्ताय देवाय सुखधन्वाय) धन्वन्तराय धनुषे धन्वाचार्याय ते नमः । उग्रायुधाय देवाय नमः सुरवराय च ॥ २६॥ नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने । नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने ॥ २७॥ नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः । वनस्पतीनां पतये नराणां पतये नमः ॥ २८॥ मातॄणां पतये चैव गणानां पतये नमः । गवां च पतये नित्यं यज्ञानां पतये नमः ॥ २९॥ अपां च पतये नित्यं यज्ञानां पतये नमः । पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च । नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥ ३०॥ इति महाभारते द्रोणपर्वणि व्यासप्रोक्तं शिवस्तोत्रं सम्पूर्णम् । Notes: The shlokas have been renumbered since various publications differ about the relevant chapter number and shloka numbers. Encoded and proofread by Ruma Dewan
% Text title            : Vyasaproktam Shiva Stotram
% File name             : vyAsaproktaMshivastotram.itx
% itxtitle              : shivastotram (vyAsaproktaM mahAbhAratAntargatam prajApatInAM prathamaM tejasAM puruShaM prabhum)
% engtitle              : vyAsaproktaM shivastotram
% Category              : shiva, mahAbhArata, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : PSA Easwaran, Ruma Dewan
% Description/comments  : mahAbhArata | droNaparva
% Indexextra            : (Scans 1, 2)
% Latest update         : July 30, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org