यजुर्वेदकृता शिवस्तुतिः

यजुर्वेदकृता शिवस्तुतिः

(शिवरहस्यान्तर्गते ईशाख्ये) यजुर्वेद उवाच । यस्मात्परं नापरमस्ति शम्भोर्ज्यायान्नाणुर्न चैव हि ॥ ३१.२॥ स हि वृक्ष इव स्तव्धस्तस्य शाखाः सुरासुराः । तेन पूर्णमिदं विश्वं सदेवासुरमानुषम् ॥ ३२॥ ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधान्यं सुरान्तरम् ॥ ३३॥ यो वैदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः परमेश्वरः ॥ ३४॥ विश्वाधिको महर्षिश्च महादेवो महेश्वरः । हिरण्यगर्भं देवेशो जनयामास पूर्वतः ॥ ३५॥ समदेवो महादेवो बुद्ध्या देवः करोतु वः । सद्योजातं प्रपद्यामि सद्यो जाताय वै नमः ॥ ३६॥ वामदेवाय ज्येष्ठाय नमः श्रेष्ठाय शम्भवे । अघोराय च घोराय हरायाथ नमो नमः ॥ ३७॥ तत्पूर्षाय महिम्नैव महादेवाय धीमहि । ईशानः सर्वविद्यानां पतिर्भूतपतिः शिवः ॥ ३८॥ ब्रह्मणोऽपि पतिः शम्भुरोङ्कारार्थैकवाचकः । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ३९॥ आनन्दं देवदेवस्य विद्यान्नो भयमाविशेत् । नमस्ते रुद्ररूपाय मन्यवे च नमोनमः ॥ ४०॥ इषवे प्रणमाम्यद्य तद्बाहुभ्यां नमो नमः । मेरुमध्यस्थहस्ताय धन्वने तन्नमो नमः ॥ ४१॥ तच्छरव्याय च नमस्तथा मां पातु शङ्करः । या तस्य सा तनुर्मां हि पापान्मापापकाशिनी ॥ ४२॥ तया मां तनुवा शम्भुर्गिरीशोऽवतु सर्वदा । या तद्धस्ते इषुर्मारा यो बिभर्ति महेश्वरः ॥ ४३॥ शिवां तां गिरिशः कुर्यान्मामहिंसतु सर्वदा । शिवेन वचसा देवं स्तौमि नित्यं सनातनम् ॥ ४४॥ अयक्ष्म तेन सत्येन मम वाक् सम्भविष्यतु । अध्यवोचन्महादेवो मयि तुष्टेन सर्वदा ॥ ४५॥ प्रथमो देव ईशानो भयरुक् भियमुत्तमः । मम शत्रुं निवार्याशु तान्दधातु च जम्भयोः ॥ ४६॥ असौ सूर्यान्तराऽतिष्ठत्ताम्रो अरुण ईश्वरः । बभ्रुः सुमङ्गलः शर्वो सर्वरुद्रावृतः शिवः ॥ ४७॥ तमेवमीडे देवेशं सर्पन्तं परमेश्वरम् । नीलग्रीवं महादेवं नीललोहितमीश्वरम् ॥ ४८॥ गोपाः पश्यन्ति देवेशं भवन्तो मोहमास्थिताः । उदाहार्योऽपि पश्यन्ति हृदि वा योऽहमास्थितः ॥ ४९॥ सूर्यान्तरस्थितं साम्बं विश्वजातं च पश्यति । द्विलोचनाश्च भक्त्यैव तं पश्यन्ति महेश्वरम् ॥ ५०॥ अभक्तियुक्ता यूयं हि सहस्राक्षं न पश्यथ । स एव मृडदीशो भक्तियुक्तं च मां शिवः ॥ ५१॥ नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अतोऽस्य भक्तान् देवस्य साष्टाङ्गं प्रणमाम्यहम् ॥ ५२॥ प्राज्यं विज्यं धनुस्तेन करोतु मम शङ्करः । शिवभक्तार्चनप्रीतो महादेवो महेश्वरः ॥ ५३॥ हस्ते स्थितान् बाणलिङ्गान् पातयिष्यति मत्परः । सुमुखः श्रीमहादेवो मयि शर्म दधातु वै ॥ ५४॥ तीक्ष्णाग्राणि शरणं मां शरणं पुरतः स्थितम् । दृष्ट्वा स्वभक्तं शरधौ वीर्यधः पातयिष्यति ॥ ५५॥ मीढुष्टमस्य या हस्ते हेतिः संहरणोचिता । कपर्दिनो धनुर्यत्र विशल्या सा भवेन्मयि ॥ ५६॥ बाणबाणासनैर्हीनं बाहुभ्यां पालयेत्समाम् । अनातताय देवाय धृष्णवेच नमोनमः ॥ ५७॥ नमो हिरण्यबाहवे सेनान्ये च नमोनमः । दिशां च पतये तस्मै वृक्षाणां पतये नमः ॥ ५८॥ हरिकेशाय शान्ताय पशूनां पतये नमः । भवन्तः पशवो देवा भवतां पतिरीश्वरः ॥ ५९॥ तन्मायापाशबद्धा हि भवन्तो मोहमास्थिताः । अनेन हयमेधेन सदक्षाः पूजयन्तु वः ॥ ६०॥ सर्वथा भवपाशेभ्यो मुक्ता यूयं भविष्यथ । सस्पिञ्जराय नमस्तस्मै नमस्ते अस्त्विषीमते ॥ ६१॥ पत्तीनां पतये तस्मै बभ्रुशाय नमो नमः । विव्याधिने तथान्नानां तस्मै सुपतये नमः ॥ ६२॥ हरिकेशाय शान्ताय नमस्ते उपवीतिने । पुष्टानां पतये तस्मै भवहेत्यै नमो नमः ॥ ६३॥ जगतां पतये तस्मै रुद्रायैवाततायिने । क्षेत्राणां पतये तस्मै नमः सूताय हन्तवे ॥ ६४॥ वनानां पतये तस्मै रोहिताय नमो नमः । नमः स्थपतये तुभ्यं वृक्षाणां पतये नमः ॥ ६५॥ मन्त्रिणे वाणिजायाथ कक्षाणां पतये नमः । नमो भुवन्तये तस्मै वारिवस्कृतयाय च ॥ ६६॥ ओषधीनां च पतये उच्चैर्घोषाय क्रन्दते । पत्तीनां पतये तस्मै कृत्स्नवीताय धावते ॥ ६७॥ सत्वानां पतये तस्मै ककुभाय निषङ्गिणे । सेनानां पतये तस्मै नमस्तस्मै निचेरवे ॥ ६८॥ नमः परिचरायाथ अरण्यपतये नमः । कविभ्यो जिघांसुभ्यो मुष्णतां पतये नमः ॥ ६९॥ असिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तपतये नमः । उष्णीषिणे गिरिचराय कुलिञ्चपतये नमः ॥ ७०॥ सहमानाय विव्याधिने आव्याधपतये नमः । इषुमद्भ्यो धन्वाविद्भ्यो आतन्वद्भ्यो नमोनमः ॥ ७१॥ स्थायूनां पतये तुभ्यं निचेरुपतये नमः । नमः प्रतिदधानेभ्य आच्छद्भ्यो नमो नमः ॥ ७२॥ विसृजद्भ्यो नमो नित्यं स्वपद्भ्यश्च नमो नमः । जाग्रद्भ्यश्च नमो मेऽस्तु तिष्ठद्भ्यश्च नमोनमः ॥ ७३॥ नमः सभाधिपतये सभाभ्यस्ते नमो नमः । अश्वेभ्यश्च नमस्तेऽस्तु अश्वाधिपतये नमः ॥ ७४॥ नम आव्याधिनीभ्यस्ते विविध्यन्त्यै नमो नमः । उगणाभ्यो नमस्तेऽस्तु नमस्ते अस्तु तृंहते ॥ ७५॥ गृत्सेभ्योऽथ नमस्तेऽस्तु गृत्साधिपतये नमः । विरूपेभ्यो नमस्तेऽस्तु विश्वरूपाय ते नमः ॥ ७६॥ महद्भ्यः क्षुल्लकेभ्यस्ते गणेभ्यो नमो नमः । तक्षभ्यो रथकारेभ्यस्ते कुलालेभ्यो नमो नमः ॥ ७७॥ कर्मारेभ्यो नमस्तेऽस्तु पुञ्जिष्ठेभ्यो नमो नमः । निषादेभ्यो नमस्तेऽस्तु इषुधन्वकृते नमः ॥ ७८॥ मृगयुभ्यः श्वनिभ्यश्च शुनां च पतये नमः । नमो भवाय रुद्राय शर्वाय पशुपाय च ॥ ७९॥ नीलग्रीवाय च नमः शिपिविष्टाय ते नमः । नमः कपर्दिने तुभ्यं व्युप्तकेशाय ते नमः ॥ ८०॥ सहस्राक्षाय ते नित्यं नमस्ते शतधन्वने । नमस्ते गिरिशायाथ शिपिविष्टाय ते नमः ॥ ८१॥ नमो मीढुष्टमायाथ तथा चेषुमते नमः । नमो ह्रस्वाय बृहते तथा वर्षीयसे नमः ॥ ८२॥ संवृध्वने च वृद्धाय अग्र्याय प्रथमाय च । आशुषेणाय च नमस्तथैवाशुरथाय च ॥ ८३॥ नमः शूराय देवाय नमस्ते अवभिन्दते । वर्मिणे ते नमो नित्यं नमस्तेऽस्तु वरूथिने ॥ ८४॥ बिल्मिने ते नमो नित्यं दंसनाङ्गाय ते नमः । श्रुताय श्रुतसेनाय दुन्दुभ्याय नमो नमः ॥ ८५॥ आहनन्याय च नमो धृष्णवे प्रमृशाय च । दूताय प्रहितायाथ नमस्तेऽस्तु निषङ्गिणे ॥ ८६॥ वरेषुधिमते तुभ्यं नमस्तीक्ष्णेषवे हर । नम आयुधिने तुभ्यं स्वायुधाय नमो नमः ॥ ८७॥ सुधन्वने नमस्तुभ्यं स्तुत्यपथ्याय ते नमः । नमः काट्याय नीप्याय नमः सूद्याय ते नमः ॥ ८८॥ रजस्याय च नाद्याय वैशन्ताय नमो नमः । अवट्याय च कूप्याय वर्ण्य वर्ष्णाय ते नमः ॥ ८९॥ आशवेचाजिरायाथ शीघ्रय शीभ्याय ते नमः । प्रतिसूर्याय स्वल्पाय नमः श्लोक्याय ते नमः ॥ ९०॥ अवसान्याय च नमो वन्यकक्ष्याय ते नमः । श्रवप्रतिश्रवायाथ आशवे चाजिराय च ॥ ९१॥ नमः शीघ्र्याय शीभ्याय उर्वर्याय च ते नमः । स्रोतस्याय च द्वीप्याय कनिष्ठज्येष्ठकाय ते ॥ ९२॥ पूर्वापरभवायाथ मध्यमाय नमो नमः । अपगल्भाय बुध्न्याय सौम्ययाम्याय ते नमः ॥ ९३॥ प्रतिसर्याय च खल्याय क्षेम्याय च नमो नमः । नमः सोमाय रुद्राय ताम्राय अरुणाय च ॥ ९४॥ नमः शङ्गाय शान्ताय पशूनां पतये नमः । नम उग्राय भीमाय नमो अग्रेवधाय च ॥ ९५॥ नमो दूरेवधायाथ हन्त्रे तुभ्यं हनीयसे । साराय प्रणवायाथ शम्भवे च मयोभुवे ॥ ९६॥ नमस्ते शङ्करायाथ नमो मयस्कराय च । नमः शिवाय शान्ताय नमः शिवतराय च ॥ ९७॥ नमस्तीर्थ्याय कूल्याय पार्यवार्याय ते नमः । नमः प्रतरणायाथ नमश्चोत्तरणाय च ॥ ९८॥ आतार्याय च लाद्याय नमः फेन्याय ते नमः । सिकन्त्याय प्रवाह्याय हिरण्यप्रपथाय च ॥ ९९॥ नमः किm+शिलायाथ क्षयणाय कपर्दिने । नमो गोष्ठ्या गृह्याय पुलस्त्याय नमोऽस्तु ते ॥ १००॥ निवेष्प्याय नमस्तुभ्यं पाm+सव्याय ते नमः । नमः शुष्काय देवाय हरित्याय नमो नमः ॥ १०१॥ नमो लोप्याय उलप्याय उर्व्यसूर्म्याय ते नमः । पर्णाय पर्णशद्याय गुरमाणाय ते नमः ॥ १०२॥ नमो अभिघ्नते तुभ्यं नम अखितते नमः । नमः प्रिखिद्यते तुभ्यं किरिकेभ्यो नमो नमः ॥ १०३॥ देवानां हृदयेभ्यस्ते विक्षीणेभ्यो नो नमः । नमो विचिन्वत्केभ्यस्ते आमीवत्केभ्य एव च ॥ १०४॥ द्रापेकवचयुक्ताय अन्धसस्पतये नमः । दारिद्र्यदारिणे तुभ्यं नमस्ते नीललोहित ॥ १०५॥ नमस्ते नवसे तुभ्यं क्षयद्वीराय ते नमः । नमसा त्वां विधेमाद्य शिवां तां तनुवं शिव ॥ १०६॥ घोरा शान्ता तनुस्तेऽद्य प्रपद्ये तनुवौ शिव । घोरा तेऽद्य तनुर्वह्निःसर्वयज्ञेषु पूज्यते ॥ १०७॥ नमस्कारेण तन्वं ते प्रयामि शरणं हर । रुद्रो वा एव यत्रापि यजुर्भिः प्रवदाम्यहम् ॥ १०८॥ अहं प्रतिपदैर्मन्त्रैस्तद्रूपान् रुद्रसत्तमान् । नमस्करोमि तद्भक्तान् पृथिव्यप्सु सदोगणान् ॥ १०९॥ दिव्यन्तरिक्षतीर्थस्थान् वातवर्षशरानहम् । अभक्तान् देवदेस्य रुद्र जम्भे दधाम्यहम् ॥ ११०॥ यो रुद्रो अग्निमध्यस्थो यो अप्स्वोषधिस्थितः । यो रुद्रो विश्वमध्यस्थस्तस्मै सर्वात्मने नमः ॥ १११॥ हिरण्यबाहुर्देवो यो हिरण्यतनुरीश्वरः । अम्बिकायाः पतिं शम्भुरुमायाः पतिरीश्वरः ॥ ११२॥ यज्ञेषु तद्धविःशेषं शिवलिङ्गे पुरःस्थितम् । तदश्याम तवाद्यैव यन्निवेदितमीश्वरे ॥ ११३॥ स्तनन्धयं महान्तं मे गावोऽश्वाः पुरुषा मम । मा वधीस्तं महादेव मां पाहि तनुवो मम ॥ ११४॥ कृत्तिं वासनो हस्ते त्वं बिभ्राणं च धनुर्वरम् । आगच्छ देव देवेश शरणं मामव प्रभो ॥ ११५॥ नमस्ते हर देवेश रोचिषे शोचिषे नमः । यत्र त्वं वससीशानो नमो यत्र निषीदसि ॥ ११६॥ तस्यार्द्राप्रार्थितं ऋक्षं श्रेष्ठोऽयं च गवां पतिः । नमसा तं प्रपन्नोऽस्मि सर्वदा शिवमेव हि ॥ ११७॥ ॥ इति शिवरहस्यान्तर्गते यजुर्वेदकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ३ ऋग्वेदयजुर्वेदकृतस्तुतिः । ३१.२-११७ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 3 RRigvedayajurvedakRRitastutiH . 31.2-117 .. Notes: Yajurveda यजुर्वेद; delivers at the site of DakṣaYajña दक्षयज्ञ, a eulogy in favor of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Yajurvedakrita Shiva Stuti
% File name             : yajurvedakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (yajurvedakRitA shivarahasyAntargatA)
% engtitle              : yajurvedakRRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 3 RigvedayajurvedakRitastutiH | 31.2-117 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org