यमदूतकृतं शिवलिङ्गार्चनमहत्त्वाख्यानम्
यमदूताः ऊचुः -
नित्यत्वेनैव विधिना प्राप्तं तल्लिङ्गपूजनम् ।
तत्कदापि हि न त्याज्यं न त्याज्यं सर्वथा द्विजैः ॥ १२३॥
लिङ्गार्चनविहीनस्य समस्ता निष्फला क्रिया ।
ततः सर्वार्थसिध्यर्थं लिङ्गपूजा विधीयते ॥ १२४॥
नित्यकर्मसमृध्यर्थं नित्यत्वेन श्रुतं श्रुतैः ।
शिवलिङ्गार्चनं कार्यं यत्नेन प्रत्यहं द्विजैः ॥ १२५॥
शिवलिङ्गार्चनं नित्यं नित्यमध्ययनं तथा ।
ततः सर्वार्थसिध्यर्थं लिङ्गपूजा विधीयते ॥ १२६॥
विभूतिधारणं नित्यं नित्यं रुद्राक्षधारणम् ।
शिवलिङ्गार्चनं नित्यं कुर्वन्नपि कदाचन ॥ १२७॥
यदि त्यक्ष्यति मोहेन प्रत्यवैति न संशयः ।
सर्वेप्सितार्थदं नित्यं सुलभं लिङ्गपूजनम् ॥ १२८॥
त्यक्त्वा वृथा जनाः सर्वे नरके निपतन्त्यहो ।
लिङ्गपूजनमात्रेण बहवो मुनयः पुरा ॥ १२९॥
ययुः कैलासनिलयमयत्नेनैव दुर्लभम् ।
लिङ्गपूजापरं शैवं निरीक्ष्य यमकिङ्कराः ॥ १३०॥
दूरादेव पलायन्ते स्मरन्तो यमशासनम् ।
न लिङ्गपूजनादन्यन्निःश्रेयसकरं परम् ॥ १३१॥
सत्यमेतत्सत्यमेतत्सत्यमेतन्न संशयः ।
इति तद्वचनं श्रुत्वा भानुः सन्तुष्टमानसः ॥ १३२॥
लिङ्गार्चनपरो भूत्वा काश्यां न्यवसदादरात् ।
वीरेशनिकटे विष्णुरेकपादेन सादरम् ॥ १३३॥
चकारोग्रं तपस्तीव्रं ज्वलपञ्चाग्निमध्यगः ।
अशीतियुगपर्यन्तं तपः कृत्वा पुनर्मुदा ॥ १३४॥
इदानीं शिवगङ्गायां करोत्युग्रं तपोऽम्बिके ।
ब्रह्मादयोऽपि ते देवास्तेनैव सह सादरम् ॥ १३५॥
तथैवोग्रं तपः कृत्वा तिष्ठत्यविकलं सदा ॥ १३६॥
तज्ज्ञानवापीजलमादरेण देवाः समस्ताः सततं वरेण्यम् ।
ज्ञानैकरूपं विमलं पिबन्ति हृल्लिङ्गवृद्ध्यै शिवलिङ्गनिष्ठाः ॥ १३७॥
॥ इति शिवरहस्यान्तर्गते यमदूतकृतं शिवलिङ्गार्चनमहत्त्वाख्यानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ६ । १२३-१३७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 6 . 123-137..
Notes:
Yamadūta-s यमदूताः speak about the essentiality of worshiping Śivaliṅga शिवलिङ्ग and that the adoration of the same, is sought and attained by all the Deva-s देवाः as a resultant of revering the waters of Wisdom of Jñānavāpī ज्ञानवापी.
Proofread by Ruma Dewan