यमप्रति शिवोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
ये चन्द्रशेखर महेश कृपानिधान
श्रीविश्वनाथ करुणाकर शङ्करेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १३९॥
ये भीम भर्ग भगवन् भवभव्यरूप
भालेक्षण प्रमथकोटिनिषेवितेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४०॥
ये विश्ववन्द्य विबुधोत्तम विश्वबन्धो
कालानलाभ नरसिह्मनिपातनेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४१॥
ये कालकाल पुरसूदन पुण्यमूर्ते
विश्वम्भराखिलगुरो शिव शङ्करेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४२॥
ये दीनवत्सल परात्पर देवदेव
देवोत्तमोत्तम सदाशिव सर्वगेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४३॥
ये सर्वरक्षणविधानविनाशहेतो
गौरीमनोरमण सर्वसुराधिपेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४४॥
ये नित्य निष्कल निरञ्जन भासमान
मायाद्यतीत निगमान्तविभूषणेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४५॥
ये नीललोहित निरीश्वर निष्प्रपञ्च
पञ्चाननाव्यय निरञ्जन निर्गुणेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४६॥
ये विष्णुमुख्यसुरवर्गनिसर्गसेव्य
स्वर्गापवर्गफलवर्गविधायकेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४७॥
ये सोम मङ्गलनिधानविधानहेतो
कारुण्यसागर शरण्य गणेश्वरेति ।
नित्यं वदन्ति नियमात्सितभस्मभालाः
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ १४४॥
॥ इति शिवरहस्यान्तर्गते यमप्रोक्तः महादेवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २०। ७३-८३॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 73-83..
Proofread by Ruma Dewan