यमप्रोक्तः महादेवस्तवः

यमप्रोक्तः महादेवस्तवः

(शिवरहस्यान्तर्गते उग्राख्ये) स एव मुक्तिकान्तायाः कान्त इत्युच्यते बुधैः । महादेवसमोदेवो न भूतो न भविष्यति ॥ ७३॥ मनुष्येषु यथाश्रेष्ठो ब्राह्मणो वेदवित्तमः । तथैव श्रीमहादेवो देवेषु श्रेष्ठ उच्यते ॥ ७४॥ चतुष्पदेषु गौः श्रेष्ठा यथा स्पृष्टाघनाशिनी । तथैव श्रीमहादेवो देवेषु श्रेष्ठ उच्यते ॥ ७५॥ सागरेषु यथा श्रेष्ठः क्षीराब्धिरिति विश्रुतः । तथैव श्रीमहादेवो देवेषु श्रेष्ठ उच्यते ॥ ७६॥ मुक्तिक्षेत्रेषु सर्वेषु काशी श्रेष्ठा यथा श्रुता । तथैव श्रीमहादेवो देवेषु श्रेष्ठ उच्यते ॥ ७७॥ यथाचलेषु सर्वेषु कैलासः श्रेष्ठ उच्यते । तथैव श्रीमहादेवो देवेषु श्रेष्ठ उच्यते ॥ ७८॥ शम्भुरेव कृपाम्भोधिराराध्यं दैवतं मम । एतादृशं महद्भाग्यं मम भूरितपः फलम् ॥ ७९॥ शाम्भवा एव सुभगाः सुभगाशम्भुभावना । यया भावनया साक्षान्मोक्षलक्ष्मीरवाप्यते ॥ ८०॥ अनन्यशरणा नित्यं येऽर्चयन्ति महेश्वरम् । तैरेव सर्वसौख्यानि प्राप्तव्यानि न संशयः ॥ ८१॥ उद्धूल्य भस्मनाङ्गानि सर्वदा विधिपूर्वकम् । यः शिवाराधनं कुर्या स धन्य इति गीयते ॥ ८२॥ यस्तु नित्यं प्रयत्नेन शिवस्मरणमादरात् । करोति भूतिपूताङ्गः स धन्य इति गीयते ॥ ८३॥ ॥ इति शिवरहस्यान्तर्गते यमप्रोक्तः महादेवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २०। ७३-८३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 73-83.. Proofread by Ruma Dewan
% Text title            : Yamaproktah Mahadeva Stava
% File name             : yamaproktaHmahAdevastavaH.itx
% itxtitle              : mahAdevastavaH yamaproktaH (shivarahasyAntargataH)
% engtitle              : mahAdevastavaH yamaproktaH 
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 73-83||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org