यमप्रोक्तं शिवार्चनोपदेशम् १
(शिवरहस्यान्तर्गते उग्राख्ये)
शैवधर्मरतामर्त्या भित्वान्तः सूर्यमण्डलम् ।
प्रयान्ति शिवसायुज्यं स्वेष्टबन्धुसमन्विताः ॥ ६४०॥
मुने चरमदेहानां शैवाचाररतात्मनाम् ।
महेश्वरप्रसादेन मुक्तिर्भवति वस्तुतः ॥ ६४१॥
मृल्लिङ्गपूजनं श्रौतं मोक्षदं सुलभं मुने ।
कृतं येन प्रयत्नेन स मुक्तो भवति ध्रुवम् ॥ ६४२॥
मृल्लिङ्गपूजामात्रेण सद्यस्तुष्यति शङ्करः ।
सन्तुष्टः स ददात्येव भुक्ति मुक्ति च वस्तुतः (देहिनाम्) ॥ ६४३॥
मृल्लिङ्गपूजनं श्रौतं राज्यस्वर्गापवर्गदम् ।
तत्कल्पलतिकेवेष्टं किं किं नैव (वा न) प्रयच्छति ॥ ६४४॥
शिवैकशरणाः शैवाः शिवलिङ्गार्चनप्रियाः ।
भुक्त्वा स्वाभीप्सितान्भोगानन्ते मुक्ता भवन्ति च ॥ ६४५॥
शैवेभ्य एव दास्यामि मुक्तिमित्याह शङ्करः ।
अतो मुनेतदन्येषां मुक्तिरत्यन्तदुर्लभाः ॥ ६४६॥
येन चीर्णं प्रयत्नेन श्रौतम्पाशुपतं व्रतम् ।
तेन लब्धा मुक्तिकान्ता महादेव प्रसादतः ॥ ६४७॥
येन पञ्चाक्षरो जप्तोभस्मोद्धूलनपूर्वकम् ।
तेन लब्धा मुक्तिकान्ता महादेव प्रसादतः ॥ ६४८॥
येन स्मृतो महादेवो भस्मोद्धूलनपूर्वकम् ।
तेन लब्धा मुक्तिकान्ता महादेव प्रसादतः ॥ ६४९॥
येन ध्यातो महादेवो भस्मोद्धूलनपूर्वकम् ।
तेन लब्धा मुक्तिकान्ता महादेव प्रसादतः ॥ ६५०॥
बहुनोक्तेन किं वाक्यं सत्यमेतन्मुनेशृणु ।
सर्वान्देवान्परित्यज्य शिवः पूज्यो मुमुक्षुभिः ॥ ६५१॥
॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं शिवार्चनोपदेशं १ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । ६४०-६५१॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 640-651..
Notes:
Yama यम; delivers Upadeśa उपदेश about worshiping Śiva शिव, especially through the worship of the Mṛlliṅga मृल्लिङ्ग.
Proofread by Ruma Dewan