श्रीषण्मुखषट्पदीस्तवः
श्रीमयूराचलक्षेत्रे - (कुन्नक्कुड्यपरनामके)
मयूराचलाग्रे सदारं वसन्तं मुदारं ददानं नतेभ्यो वरांश्च ।
दधानं कराम्भोजमध्ये च शक्तिं सदा षण्मुखं भावये हृत्सरोजे ॥ १॥
गिरीशास्यवाराशिपूर्णेन्दुबिम्बं कुरङ्गाङ्कधिक्कारिवक्त्रारविन्दम् ।
सुरेन्द्रात्मजाचित्तपाथोजभानुं सदा षण्मुखं भावये हृत्सरोजे ॥ २॥
नतानां हि राज्ञां गुणानां च षण्णां कृपाभारतो यो द्रुतं बोधनाय ।
षडास्याम्बुजातान्यगृह्णात्परं तं सदा षण्मुखं भावये हृत्सरोजे ॥ ३॥
पुरा तारकं यो विजित्याजिमध्ये सुरान्दुःखमुक्तांश्चकाराशु मोदात् ।
तमानन्दकन्दं कृपावारिराशिं सदा षण्मुखं भावये हृत्सरोजे ॥ ४॥
शराणां वने जातमेनं हि बालं यतः कृत्तिकाः पाययन्ति स्म दुग्धम् ।
ततः कार्तिकेयं वदन्तीह यं तं सदा षण्मुखं भावये हृत्सरोजे ॥ ५॥
हरन्तं च बाढं तमो हार्दगाढं गवानाद्यया चातिमोदेन लीढम् ।
सुरेन्द्रस्य पुत्र्या च गाढोपगूढं सदा षण्मुखं भावये हृत्सरोजे ॥ ६॥
इयं षट्पदी यस्य वक्त्रारविन्दे विहारं करोत्यादरान्नित्यमेव ।
षडास्यः कृपातः समस्ताश्च विद्या वितीर्याशु तस्मै स्वभक्तिं ददाति ॥ ७॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीषण्मुखषट्पदीस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com