श्रीषण्मुखभुजङ्गस्तुतिः
ॐ श्रीगणेशाय नमः ।
ह्रिया लक्ष्म्या वल्ल्या सुरपृतनयाऽऽलिङ्गिततनुः
मयूरारूढोऽयं शिववदनपङ्केरुहरविः ।
षडास्यो भक्तानामचलहृदि वासं प्रतनवै
इतीमं बुद्धिं द्रागचलनिलयः सञ्जनयति ॥ १॥
स्मितन्यक्कृतेन्दुप्रभाकुन्दपुष्पं
सिताभ्रागरुप्रष्ठगन्धानुलिप्तम् ।
श्रिताशेषलोकेष्टदानामरद्रुं
सदा षण्मुखं भावये हृत्सरोजे ॥ २॥
शरीरेन्द्रियादावहम्भावजातान्
षडूर्मीर्विकारांश्च शत्रून्निहन्तुम् ।
नतानां दधे यस्तमास्याब्जषट्कं
सदा षण्मुखं भावये हृत्सरोजे ॥ ३॥
अपर्णाख्यवल्लीसमाश्लेषयोगात्
पुरा स्थाणुतो योऽजनिष्टामरार्थम् ।
विशाखं नगे वल्लिकाऽऽलिङ्गितं तं
सदा षण्मुखं भावये हृत्सरोजे ॥ ४॥
गुकारेण वाच्यं तमो बाह्यमन्तः
स्वदेहाभया ज्ञानदानेन हन्ति ।
य एनं गुहं वेदशीर्षैकमेयं
सदा षण्मुखं भावये हृत्सरोजे ॥ ५॥
यतः कर्ममार्गो भुवि ख्यापितस्तं
स्वनृत्ये निमित्तस्य हेतुं विदित्वा ।
वहत्यादरान्मेघनादानुलासी
सदा षण्मुखं भावये हृत्सरोजे ॥ ६॥
कृपावारिराशिर्नृणामास्तिकत्वं
दृढं कर्तुमद्यापि यः कुक्कुटादीन् ।
भृशं पाचितान् जीवयन्राजते तं
सदा षण्मुखं भावये हृत्सरोजे ॥ ७॥
भुजङ्गप्रयातेन वृत्तेन क्लृप्तां
स्तुतिं षण्मुखस्यादराद्ये पठन्ति ।
सुपुत्रायुरारोग्यसम्पद्विशिष्टान्
करोत्येव तान् षण्मुखः सद्विदग्र्यान् ॥ ८॥
श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचिता श्रीषण्मुखभुजङ्गस्तुतिः समाप्ता ।
Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan, PSA Easwaran