बाहुलेयाष्टकम्
श्रीगणेशाय नमः ।
ॐ ॐ ॐ होमधूमप्रकटतटजटाकोटिभोगिप्रपूरं
आं आं आं आदितेयप्रणतपदयुगांभोरुहश्रीविलासम् ।
ऊं ऊं ऊं उग्रनेत्रत्रयलसितवपुर्ज्योतिरानन्दरूपं
श्रीं श्रीं श्रीं शीघ्रचित्तभ्रमहरमनिशं भावये बाहुलेयम् ॥ १॥
ह्रीं ह्रीं ह्रीं हृष्टषट्कन्धरमघमरणारण्यसंवर्त्तवह्निं
ऐं ऐं ऐं ऐङ्गुदीसत्फलमृदुमिलितप्राशियोगीन्द्रवन्द्यम् ।
क्लीं क्लीं क्लीं क्लिष्टकायक्लमदवदहनक्लेशनिर्मूलनाशं
सौं सौं सौं सौरकान्तिभ्रमहरमनिशं भावये बाहुलेयम् ॥ २॥
शं शं शं शब्दरूपं शशिधरममलं शङ्करं सांबमूर्तिं
शिं शिं शिं शिष्टवन्द्यं शिखरिनिलयनं शिक्षितानेकलोकम् ।
शुं शुं शुं शुभ्रहासं शुभकरमतिसन्देहसन्दोहनाशं
शौं शौं शौं शौक्लिताङ्गं सितभसितगणैर्भावये बाहुलेयम् ॥ ३॥
रं रं रं रम्यदेहं रजतगिरिगृहं रक्तपद्माङ्घ्रियुग्मं
रिं रिं रिं रिक्तशोकप्रकृतिपरमजंघालमानीलनेत्रम् ।
रुं रुं रुं रूक्षकायप्रतिभटहननं रक्तकौशेयवस्त्रं
रौं रौं रौं रौं रौरवादिद्रुतहरकुहरं भावये बाहुलेयम् ॥ ४॥
हं हं हं हंसयोगिप्रवरसुखकरं हस्तलक्ष्मीसमेतं
हिं हिं हिं हीनमानं हितसुखवरदं हिंसयापेतकीलम् ।
हुं हुं हुं हुंकृतिध्वंसितरजनिचरक्रौर्यकौटिल्यमूर्तिं
हैं हैं हैं हैमकुंभायतकरसहजं भावये बाहुलेयम् ॥ ५॥
णं णं णं नन्दिकेशप्रवरभुजगनिर्विघ्नकर्मप्रपञ्चं
णिं णिं णिं नीलकण्ठप्रियसुतमजितं निर्मलाङ्गं निरीहम् ।
णुं णुं णुं णुत्तनाभोत्तरनिभृतनिरालंबकैवल्यमूर्तिं
णौं णौं णौं नामरूपात्मकजगदखिलं भावये बाहुलेयम् ॥ ६॥
भं भं भं भागधेयं भगवदनुचरप्राञ्जलिस्तोत्रपूरं
भिं भिं भिं भीमनादान्तकमदनहरं भीषितारातिवर्गम् ।
भुं भुं भुं भूतिभूषार्च्चितममितसमस्तार्थशास्त्रान्तरङ्गं
भौं भौं भौं भौममुख्यं ग्रहगणनपटुं भावये बाहुलेयम् ॥ ७॥
वं वं वं वाहिनीशं वलरिपुनिलयस्तोत्रसम्पत्समूहं
विं विं विं वीरबाहुप्रभृतिसहचरं विघ्नराजानुजातम् ।
वुं वुं वुं भूतनाथं भुवननिलयनं भूरिकल्याणशीलं
वौं वौं वौं भावितारिप्रतिभयमनिशं भावये बाहुलेयम् ॥ ८॥
इति श्रीनारायणगुरुविरचितं बाहुलेयाष्टकं सम्पूर्णम् ।
Encoded by Shankara and P. S. Ramachandran
Proofread by Shankara, PSA Easwaran