श्रीदण्डपाणिपञ्चरत्नम्
चण्डपापहरपादसेवनं गण्डशोभिवरकुण्डलद्वयम् ।
दण्डिताखिलसुरारिमण्डलं दण्डपाणिमनिशं विभावये ॥ १॥
कालकालतनुजं कृपालयं बालचन्द्रविलसज्जटाधरम् ।
चेलधूतशिशुवासरेश्वरं दण्डपाणिमनिशं विभावये ॥ २॥
तारकेशसदृशाननोज्ज्वलं तारकारिमखिलार्थदं जवात् ।
तारकं निरवधेर्भवाम्बुधेर्दण्डपाणिमनिशं विभावये ॥ ३॥
तापहारिनिजपादसंस्तुतिं कोपकाममुखवैरिवारकम् ।
प्रापकं निजपदस्य सत्वरं दण्डपाणिमनिशं विभावये ॥ ४॥
कामनीयकविनिर्जिताङ्गजं रामलक्ष्मणकराम्बुजार्चितम् ।
कोमलाङ्गमतिसुन्दराकृतिं दण्डपाणिमनिशं विभावये ॥ ५॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदण्डपाणिपञ्चरत्नं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com