गणेश्वरकृतं स्कन्दकवचम्
(शिवरहस्यान्तर्गते ईशाख्ये)
गणेश्वर उवाच ।
कनककुण्डलमण्डलराजित
सरसिजामलसुन्दरलोचनम् ।
निशितशस्त्रशरासन धारिणं
शरवणोद्भवमीशसुतं नमः ॥ १५६॥
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि-
र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम् ।
अम्भोजाभयशक्ति कुक्कुटधरं दिव्याङ्गरागोज्ज्वलं
सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसिद्धिप्रदम् ॥ १५७॥
- -
शिखां रक्षेत्कुमारस्तु कार्तिकेयः शिरोऽतु ।
ललाटं पार्वतीसूनुर्विशाखोऽवतु भ्रूयुगम् ॥ १५८॥
नेत्रेऽव्यात्क्रौञ्चभेदी च नासिकां शिखिवाहनः ।
कर्णद्वयं शक्तिधरः कर्णमूले षडाननः ॥ १५९॥
गण्डयुग्मं महासेनः कपोलौ तारकान्तकः ।
ओष्ठद्वयं च सेनानी रसनां शिखिकेतनः ॥ १६०॥
तालुं कलाधरः पातु दंष्ट्रां देवशिखामणिः ।
गाङ्गेयश्चुबुकं पातु मुखं पातु शिखोद्भवः ॥ १६१॥
हनू हरसुतः पातु पातु कण्ठं सदाग्निभूः ।
ग्रीवां गौरीसुतः पातु कक्षौ कारुण्यवारिधिः ॥ १६२॥
स्कन्धौ ममावतात्स्कन्दो बाहुलेयो भुजौ मम ।
बाहू भवोद्भवः पातु करौ षाण्मातुरोऽवतु ॥ १६३॥
अङ्गुली पिङ्गलः पातु हृदयं मधुमित्रजित् ।
नाभिं ममोदरं चैव सुब्रह्मण्यः सदावतु ॥ १६४॥
मध्यं जगद्विभुः पातु नाभिं द्वादशलोचनः ।
कटिं द्विषड्भुजः पातु गुह्यं पातु गुहः सदा ॥ १६५॥
जघनं जाह्नवीसूनुः पृष्ठं प्रमथनायकः ।
ऊरू पायादुमापुत्रो जानुयुग्मं जगद्धितः ॥ १६६॥
जङ्घे पातु जगत्पूज्यः पातु गुल्फौ महाबलः ।
पादौ पातु परं ज्योतिः सर्वाङ्गं कुक्कुटध्वजः ॥ १६७॥
ऊर्ध्वं पातु महोदारोऽप्यधस्तात्पातु शाङ्करिः ।
पार्श्वं नः पातु पापघ्नः सर्वतः पातु शक्तिधृक् ॥ १६८॥
पूर्वाह्णेऽव्यात्परं ब्रह्म मध्याह्नेऽवतु तारजित् ।
अपराह्णे गुहः पातु रात्रौ दैत्यान्तकोऽवतु ॥ १६९॥
त्रिसन्ध्यं च सुधीः पातु सर्वदा पातु बर्हिगः ।
बहिष्ठं षण्मुखः पातु अन्तःस्यं कृत्तिकासुतः ॥ १७०॥
व्रजन्तं सुरसैन्येशः अटन्तं पाशधृग्विभुः ।
शयानं पातु शूरघ्नो मार्गे पातु कुमारकः ॥ १७१॥
वने रणे गिरिचरः सदा रक्षतु मां वटुः ।
सुब्रह्मण्यस्य कवचं धर्मकामार्थमोक्षदम् ॥ १७२॥
मन्त्राणां परमं मन्त्रं गुह्याद्गुह्यतरं सदा ।
पठन् श्रृण्वन् सर्वपापैः रोगैश्चापि विमुच्यते ॥ १७३॥
॥ इति शिवरहस्यान्तर्गते गणेश्वरकृतं स्कन्दकवचं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३८ । १५६-१७३ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 38 . 156-173 ..
Notes:
Gaṇeśvara गणेश्वर renders a SkandaKavacaStotram स्कन्दकवचस्तोत्रम् towards the conclusion of the discourse of The ŚivaRahasyam शिवरहस्यम्.
Proofread by Ruma Dewan