श्रीगुहस्तोत्रम्
(शिवगिरिक्षेत्रे)
पार्थक्येन हि पित्रोः कर्तुं सेवामशक्तेषु ।
भक्तेषु किं कृपातः पित्रोरैक्यं विभो धत्से ॥ १॥
शिवगिरिनिवासलोलं हिमगिरितनयामुखाम्बुजातरविम् ।
शिरसा नमामि मनसाप्युरसा गुहमनिशमिष्टकल्पतरुम् ॥ २॥
वज्रशूलवरदाभयहस्तं वज्रधारितनयाश्रितवामम् ।
कालकालहृदयाम्बुजभानुं नीलकण्ठवरवाहनमीडे ॥ ३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीगुहस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com