जैगीषव्यादिकृता स्कन्दस्तुतिः
(शिवरहस्यान्तर्गते ईशाख्ये)
जैगीषव्य उवाच ।
सिन्दूरारुण सिन्धुरेन्द्रवदनं सान्द्राम्बुदानोत्कटं
जातानन्दसुबृंहितारवकृतोद्भ्रान्ताखिलाशागजम् ।
मौल्यान्दोलन कर्णतालसुशिवध्यानोन्मिषोन्मेषणैः
अन्तर्बाह्यगतं शिवं स्वकहृदा पश्यन्तमीक्षे सदा ॥ ४५॥
स्कन्द त्वं शिखिवाह लेखसुमुखः श्रीषण्मुखस्त्वं सखा
भ्राता बन्धुवरस्त्वयाद्य पितृमान् शम्भुः पिता चासि मे ।
ज्ञानाम्भोधिसुधाकरस्त्वमधुना विज्ञानदस्त्वं गुरुः
त्वत्पादार्ककरोरुदारितहृदाकाशान्धकारं परम् ॥ ४६॥
सङ्क्रन्दनानन्दन चन्दनार्द्र-
गात्र त्रिणेत्रवरपुत्र नमो नमस्ते ।
क्रौञ्चाद्रिसूदन सनातनवन्द्यपाद
वृन्दारवन्द्य परिपाहि मुनीन् दृशा ते ॥ ४७॥
अपितामह देव शक्रबन्धो
गिरिमातामह दारिदैत्यसिन्धो ।
प्रणवार्थपदादिबोधहेतुं
विदधे त्वं प्रददासि हे नमस्ते ॥ ४८॥
शरवणभवचरणं शरणं न येषां
न हि तेषां तरणं भवोरुसागरस्य ।
मरणं प्रभवं न भवे भवे-
द्यदि सुब्रह्मदया रसालसानाम् ॥ ४९॥
सुब्रह्मण्यो ब्राह्मणानां हि देवः
अब्रह्मण्यं हंसि पाहि द्विजान्नः ।
त्राता देवानां विजयस्य प्रदाता
गाङ्गेयस्त्वं नन्दितात्मासि भक्ते ॥ ५०॥
सुरा ऊचुः ।
श्रीमारमार सुकुमार करात्तशक्ते
शक्तिप्रियात्मज सुरासुरजेतृशक्ते ।
शूरादितारकहरामरवृन्दसेना-
धीशाशु नाशय सदा भवदुःखजालम् ॥ ५८॥
भ्रातुर्वैरिवहाप्रियात्मज हराहाराङ्ग आहारकृत्
संस्थागान्तक पौत्र हस्तसुमहाशक्ते नमस्ते सदा ।
शूरापारसुदैत्य तारकमहादर्पघ्न कन्दर्पतः
साहस्राधिककान्तिसुन्दर महामारारिहृत्पङ्कज-
द्वाराकार कुमार धीरसुरतासेनापते पाहि नः ॥ ५९॥
गणा ऊचुः ।
कुञ्जरमुखानुकूलः
पञ्चमुखस्य स्वयं किशोरोऽपि ।
श्रिततारकोऽपि सततं
तारकवैरी शिवात्मजो जयतात् ॥ ६१॥
षोढामुखः सुराणां
वोढाऽनीकस्य पानं मृडपुत्रः ।
द्रोढा दनुजकुलेभ्यो
लेढा वल्लीशुभाघरसुधायाः ॥ ६२॥
मुनय ऊचुः ।
स्वर्नारीजनबृन्दवेणिविलसन्मल्लीसुमप्रोद्गल-
न्माध्वी पूरतरङ्गमेदुरपदद्वन्द्वारविन्द प्रभो ।
स्वामिन् प्रोन्नतशैलमास नमतां कष्टापदां वारकः
शक्तस्त्वं खलु शक्तिमानिति गिरं जल्पन्ति लोके जनाः ॥ ६३॥
॥ इति शिवरहस्यान्तर्गते जैगीषव्यादिकृता स्कन्दस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३७ मुनिसमागमः । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 37 munisamAgamaH . vAvRRittashlokAH ..
Notes:
Jaigīṣavya जैगीषव्य, Devāḥ देवाः, Gaṇāḥ गणाः and Muni-s मुनयः, eulogize Skanda स्कन्द towards the conclusion of the discourse of The ŚivaRahasyam शिवरहस्यम्.
Proofread by Ruma Dewan