जैगीषव्यकृता स्कन्दस्तुतिः
(शिवरहस्यान्तर्गते महादेवाख्ये)
जैगीषव्य उवाच ।
नमो ब्रह्मण्यपतये सुब्रह्मण्याय ते नमः ॥ ९॥
प्रणवार्थमाहासारप्रवणायाखिलात्मने ।
द्विजराजकलामौलिपादपङ्कजचेतसे ॥ १०॥
देवसेनापते तुभ्यं लवलीपतये नमः ।
केकिकुक्कुटवाहाय कुमाराय नमोनमः ॥ ११॥
गजाननानुजायाथ सर्वमन्त्रात्मने नमः ।
शैवानन्दरहस्याब्धिसोमधाम्ने नमो नमः ॥ १२॥
॥ इति शिवरहस्यान्तर्गते जैगीषव्यकृता स्कन्दस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १ । २॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 1 . 2..
Proofread by Ruma Dewan