स्कन्दसप्तशती उत्तराङ्गपूजान्तर्गतः जयादि होमः
सस्वरः
॥ अथ जयादि होमः ॥
(एतत् कर्म समृद्ध्यर्थं जयादि होमं करिष्ये ॥)
चि॒त्तं च॒ स्वाहा᳚ ।
चित्ताया इदं न मम ॥ १ ॥
चित्ति॑श्च॒ स्वाहा᳚ ।
चित्त्यायेदं न मम ॥ २ ॥
आकू॑तं च॒ स्वाहा᳚ ।
आकूतायेदं न मम ॥ ३ ॥
आकू॑तिश्च॒ स्वाहा᳚ ।
आकूत्यायेदं न मम ॥ ४ ॥
विज्ञा॑तं च॒ स्वाहा᳚ ।
विज्ञातायेदं न मम ॥ ५ ॥
वि॒ज्ञानं॑ च॒ स्वाहा᳚ ।
विज्ञानायेदं न मम ॥ ६ ॥
मन॑श्च॒ स्वाहा᳚ ।
मनस इदं न मम ॥ ७ ॥
शक्क॑रीश्च॒ स्वाहा᳚ ।
शक्वरीभ्य इदं न मम ॥ ८ ॥
दर्श॑श्च॒ स्वाहा᳚ ।
दर्शायेदं न मम ॥ ९ ॥
पू॒र्णमा॑सश्च॒ स्वाहा᳚ ।
पूर्णमासायेदं न मम ॥ १० ॥
बृ॒हच्च॒ स्वाहा᳚ ।
बृहत इदं न मम ॥ ११ ॥
र॒थ॒न्त॒रं च॒ स्वाहा᳚ ।
रथन्तरायेदं न मम ॥ १२ ॥
प्र॒जाप॑तिर्ज॒यानिन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छ-दु॒ग्रः पृ॑त॒नाज्ये॑षु ।
तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वाः॒ स उ॒ग्र॑स्स हि हव्यो॑ ब॒भूव॒ स्वाहा᳚ ।
प्रजापतय इदं न मम ॥ १३ ॥
अ॒ग्निर्भूताना॒-मधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
अग्नय भूतानामधिपतय इदं न मम ॥ १४ ॥
इन्द्रो॑ ज्ये॒ष्ठाना॒-मधि॑पति॒-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
इन्द्राय ज्येष्ठानामधिपतय इदं न मम ॥ १५ ॥
य॒मः पृथि॒व्या अधि॑पति॒-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
यमांय पृथिव्याधिपतय इदं न मम ॥ १६ ॥
वा॒युर॒न्तरिक्ष॒स्याधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
वायव अन्तरिक्षस्याधिपतय इदं न मम ॥ १७ ॥
सूर्यो॑ दि॒वोऽधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
सूर्याय दिवोधिपतय इदं नमम ॥ ७ ॥
च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
चन्द्रमस नक्षत्राणामधिपतय इदं न मम ॥ १९ ॥
बृह॒स्पति॒र्ब्रह्म॑णोऽधिपति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
बृहस्पतय ब्रह्मणोधिपतय इदं न मम ॥ २० ॥
मि॒त्रस्स॒त्याना॒मधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
मित्राय सत्यनामधिपतय इदं न मम ॥ २१ ॥
वरु॑णो॒ऽपामधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
वरुणायापामधिपतय इदं न मम ॥ २२ ॥
समु॑द्रस्स्रोत्याना॒मधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
समुद्राय स्रोत्यानामधिपतय इदं न मम ॥ २३ ॥
अन्नँ॒साम्रा᳚ज्यानामधिपति तन्मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । (अन्नँ॒साम्रा᳚ज्यानामधिपतिस्समा॑वत्व॒स्मिन्)
अन्नाय साम्राज्यानामधिपतय इदं नमम ॥ २४ ॥
सोम॒ ओष॑धीना॒मधि॑पति॒-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
सोमाय ओषधीनामधिपतय इदं न मम ॥ २५ ॥
स॒वि॒ता प्र॑सवना॒मधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
सवित्र प्रसवानामधिपतय इदं न मम ॥ २६ ॥
रु॒द्रः प॒शू॒नामधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
रुद्राय पशूनामधिपतय इदं न मम ॥ २७ ॥
(अप उपस्पृश्य)
त्वष्टा॑ रू॒पाणा॒मधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽत्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
त्वष्ट्र रूपाणामधिपतय इदं न मम ॥ २८ ॥
विष्णुः॒ पर्व॑ताना॒मधि॑पति-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
विष्णव पर्वतानामधिपतय इदं न मम ॥ २९ ॥
म॒रुतो ग॒णाना॒मधि॑पतय-स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्या-मा॒शिष्य॒स्यां पुरो॒धाया॑-म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । (ग॒णाना॒मधि॑पतय-स्ते)
मरुद्भ्य गणानामधिपतय इदं न मम ॥
पित॑रः पि॒तामहाः परेऽवरे॒ तता᳚स्ततामहा इ॒हमा॑वत । अ॑स्मिन् ब्रह्म॑न्न॒स्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया'म॒स्मिन्
कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ।
पितृभ्यः पितामहेभ्यः परेभ्योवरेभ्यः इदं न मम ॥
(अप उपस्पृश्य)
मन्त्रोक्त देवताभ्य इदं न मम ।
ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ग्नि-र्गन्ध॒र्वस्तस्योषधयोऽप्स॒रस॒ ऊर्जो॒ नाम स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
अग्नये गन्धर्वायेदं इदं न मम ॥ ३२ ॥
ताभ्यः॒ स्वाहा᳚ ।
ओषधीभ्यो अप्सरोभ्य इदं न मम ॥ ३३ ॥
सँ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्व-स्तस्य॒ मरी॑चयोऽप्सरस॑ आ॒युवो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
सूर्याय गन्धर्वाय इदं न मम ॥ ३४ ॥
ताभ्यः॒ स्वाहा᳚ ।
मरीचिभ्योऽप्सरोभ्य इदं न मम ॥ ३५ ॥
सु॒षु॒म्नः सू॑र्यरश्मि-श्च॒न्द्रमा॑ गन्ध॒र्व-स्तस्य॒ नक्ष॑त्राण्यप्सरसो॑ बे॒कु॑रयो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
चन्द्रमसे गन्धर्वायेदं न मम ॥ ३६ ॥
ताभ्यः॒ स्वाहा᳚ । नक्षत्रेभ्योऽप्सरोभ्य इदं न मम ॥ ३७ ॥
भु॒ज्युस्सुप॒र्णो य॒ज्ञो ग॑न्ध॒र्व-स्तस्य॒ दक्षि॑णा अप्स॒रसः॑स्त॒वा नाम॒ स स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
यज्ञाय गन्धर्वायेदं न मम ॥ ३८ ॥
ताभ्यः॒ स्वाहा᳚ । दक्षिणाभ्योऽप्सरोभ्य इदं न मम ॥ ३९ ॥
प्र॒जाप॑तिः-वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्व-स्तस्य॑कर्सा॒मान्य॑प्स॒रसो॒ वह्नयो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
मनसे गन्धर्वायेदं न मम ॥ ४० ॥
ताभ्यः॒ स्वाहा᳚ । ऋक्सामेभ्योऽप्सरोभ्य इदं न मम ॥ ४१ ॥
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापोऽप्स॒रसो॑ मु॒दा नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
वाताय गन्धर्वायेदं न मम ॥ ४२ ॥
ताभ्यः॒ स्वाहा᳚ । अद्भ्योऽप्सरोभ्य इदं न मम ॥ ४३ ॥
भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॑श्वा-ज्या॑निँरा॒यस्पोषँ॑सु॒वीर्यँ॑संवत्स॒रीणाँस्व॒स्तिँ स्वाहा᳚ ।
भुवनस्यपत्ये ब्रह्मण इदं न मम ॥ ४४ ॥
प॒र॒मे॒ष्ठ्यधि॑पतिः-मृ॒त्युर्ग॑न्ध॒र्व स्तस्य॒ विश्व॑मप्स॒रसो॒ भुवो॒ नाम॒ स स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
मृत्यवे गन्धर्वायेदं न मम ॥ ४५ ॥
ताभ्यः॒ स्वाहा᳚ । विश्वेभ्यो अप्सरोभ्य इदं न मम ॥ ४६ ॥
सु॒क्षिति-स्सुभू॑तिः-भद्र॒कृत्सुप॑र्वान् प॒र्जन्यो॑ गन्ध॒र्व-स्तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
पर्जन्यो गन्धर्वायेदं न मम ॥ ४७ ॥
ताभ्यः॒ स्वाहा᳚ । विद्युद्भ्योऽप्सरोभ्य इदं न मम ॥ ४८ ॥
दूरेहे॑ति-रमृड॒यो मृत्युः-गन्धर्व॑-स्तस्य॑ प्र॒जा अ॒प्स॒रसो॑ भी॒रुवो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
मृत्युवे गन्धर्वायेदं न मम ॥ ४९ ॥
ताभ्यः॒ स्वाहा᳚ । प्रजाभ्योऽप्सरोभ्य इदं न मम ॥ ५० ॥
चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्व-स्तस्याधयो᳚ऽप्सरस॑श्शोचय॑न्तीः - नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ ।
कामाय गन्धर्वायेदं न मम ॥ ५१ ॥
ताभ्यः॒ स्वाहा᳚ । आधिभ्योऽप्सरोभ्य इदं न मम ॥ ५२ ॥
सनो॑ भुवनस्यपते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ । ऊ॒रु ब्रह्म॑णेऽस्मै क्ष॒त्राय॒ म॒हि शर्म॑ यच्छ॒ स्वाहा᳚ ।
भुवनस्यपत्ये ब्रह्मण इदं न मम ॥ ५३ ॥
॥ उत्तराङ्गम् ॥
प्रजा॑पते॒ नत्वदेतान्यन्योविश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । यत्का॑मास्ते॒ जुहु॒मस्तन्नो॑ अस्तु व॒यँस्या॑म॒ पत॑योरयी॒णाँ
स्वाहा᳚ । प्रजापतय इदं न मम ॥ ५४ ॥
भूस्स्वाहा᳚ । अग्नय इदं न मम ॥ ५५ ॥
भुव॒स्स्वाहा᳚ । वायव इदं न मम ॥ ५६ ॥
सुव॒स्स्वाहा᳚ । सूर्यायेदं न मम ॥ ५७ ॥
यदस्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् । अग्निष्ट॒त्स्वि॑ष्ट॒ कृद्विद्वान् सर्वँस्विष्टँसुहु॑तं करोतु॒ स्वाहा᳚ ।
अग्नये स्विष्टकृत इदं न मम ॥ ५८ ॥
परिध्यंजनम् । परिधिप्रहरणम् । मध्यमं परिधिमग्नौ प्रहृत्य, अन्यौ प्रहरन् । दर्वीद्वयेन संस्रावं जुहोति (स्वाहा᳚) । वसुभ्यो रुद्रेभ्य आदित्येभ्यः सँस्राव भागेभ्य इदम् न मम ॥ ५९ ॥
ओं भूर्भु॒वस्सुवः॒ स्वाहा᳚ । प्रजापतय इदं न मम ॥ ६० ॥
इति जयादि होमः सम्पूर्णः ॥
जयादि होमः निःस्वरः
॥ अथ जयादि होमः ॥
(एतत् कर्म समृद्ध्यर्थं जयादि होमं करिष्ये ॥)
चित्तं च स्वाहा ।
चित्ताया इदं न मम ॥ १ ॥
चित्तिश्च स्वाहा ।
चित्त्यायेदं न मम ॥ २ ॥
आकूतं च स्वाहा ।
आकूतायेदं न मम ॥ ३ ॥
आकूतिश्च स्वाहा ।
आकूत्यायेदं न मम ॥ ४ ॥
विज्ञातं च स्वाहा ।
विज्ञातायेदं न मम ॥ ५ ॥
विज्ञानं च स्वाहा ।
विज्ञानायेदं न मम ॥ ६ ॥
मनश्च स्वाहा ।
मनस इदं न मम ॥ ७ ॥
शक्करीश्च स्वाहा ।
शक्वरीभ्य इदं न मम ॥ ८ ॥
दर्शश्च स्वाहा ।
दर्शायेदं न मम ॥ ९ ॥
पूर्णमासश्च स्वाहा ।
पूर्णमासायेदं न मम ॥ १० ॥
बृहच्च स्वाहा ।
बृहत इदं न मम ॥ ११ ॥
रथन्तरं च स्वाहा ।
रथन्तरायेदं न मम ॥ १२ ॥
प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छ-दुग्रः पृतनाज्येषु ।
तस्मै विशस्समनमन्त सर्वाः स उग्रस्स हि हव्यो बभूव स्वाहा ।
प्रजापतय इदं न मम ॥ १३ ॥
अग्निर्भूताना-मधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
अग्नय भूतानामधिपतय इदं न मम ॥ १४ ॥
इन्द्रो ज्येष्ठाना-मधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
इन्द्राय ज्येष्ठानामधिपतय इदं न मम ॥ १५ ॥
यमः पृथिव्या अधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
यमांय पृथिव्याधिपतय इदं न मम ॥ १६ ॥
वायुरन्तरिक्षस्याधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
वायव अन्तरिक्षस्याधिपतय इदं न मम ॥ १७ ॥
सूर्यो दिवोऽधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
सूर्याय दिवोधिपतय इदं नमम ॥ ७ ॥
चन्द्रमा नक्षत्राणामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
चन्द्रमस नक्षत्राणामधिपतय इदं न मम ॥ १९ ॥
बृहस्पतिर्ब्रह्मणोऽधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
बृहस्पतय ब्रह्मणोधिपतय इदं न मम ॥ २० ॥
मित्रस्सत्यानामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
मित्राय सत्यनामधिपतय इदं न मम ॥ २१ ॥
वरुणोऽपामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
वरुणायापामधिपतय इदं न मम ॥ २२ ॥
समुद्रस्स्रोत्यानामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
समुद्राय स्रोत्यानामधिपतय इदं न मम ॥ २३ ॥
अन्नँसाम्राज्यानामधिपति तन्मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । (अन्नँसाम्राज्यानामधिपतिस्समावत्वस्मिन्)
अन्नाय साम्राज्यानामधिपतय इदं नमम ॥ २४ ॥
सोम ओषधीनामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
सोमाय ओषधीनामधिपतय इदं न मम ॥ २५ ॥
सविता प्रसवनामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
सवित्र प्रसवानामधिपतय इदं न मम ॥ २६ ॥
रुद्रः पशूनामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
रुद्राय पशूनामधिपतय इदं न मम ॥ २७ ॥
(अप उपस्पृश्य)
त्वष्टा रूपाणामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽत्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
त्वष्ट्र रूपाणामधिपतय इदं न मम ॥ २८ ॥
विष्णुः पर्वतानामधिपति-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ।
विष्णव पर्वतानामधिपतय इदं न मम ॥ २९ ॥
मरुतो गणानामधिपतय-स्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधाया-मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । (गणानामधिपतय-स्ते)
मरुद्भ्य गणानामधिपतय इदं न मम ॥
पितरः पितामहाः परेऽवरे ततास्ततामहा इहमावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया'मस्मिन्
कर्मन्नस्यां देवहूत्याँ स्वाहा ।
पितृभ्यः पितामहेभ्यः परेभ्योवरेभ्यः इदं न मम ॥
(अप उपस्पृश्य)
मन्त्रोक्त देवताभ्य इदं न मम ।
ऋताषाड् ऋतधामाग्नि-र्गन्धर्वस्तस्योषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
अग्नये गन्धर्वायेदं इदं न मम ॥ ३२ ॥
ताभ्यः स्वाहा ।
ओषधीभ्यो अप्सरोभ्य इदं न मम ॥ ३३ ॥
सँहितो विश्वसामा सूर्यो गन्धर्व-स्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
सूर्याय गन्धर्वाय इदं न मम ॥ ३४ ॥
ताभ्यः स्वाहा ।
मरीचिभ्योऽप्सरोभ्य इदं न मम ॥ ३५ ॥
सुषुम्नः सूर्यरश्मि-श्चन्द्रमा गन्धर्व-स्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
चन्द्रमसे गन्धर्वायेदं न मम ॥ ३६ ॥
ताभ्यः स्वाहा । नक्षत्रेभ्योऽप्सरोभ्य इदं न मम ॥ ३७ ॥
भुज्युस्सुपर्णो यज्ञो गन्धर्व-स्तस्य दक्षिणा अप्सरसःस्तवा नाम स स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
यज्ञाय गन्धर्वायेदं न मम ॥ ३८ ॥
ताभ्यः स्वाहा । दक्षिणाभ्योऽप्सरोभ्य इदं न मम ॥ ३९ ॥
प्रजापतिः-विश्वकर्मा मनो गन्धर्व-स्तस्यकर्सामान्यप्सरसो वह्नयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
मनसे गन्धर्वायेदं न मम ॥ ४० ॥
ताभ्यः स्वाहा । ऋक्सामेभ्योऽप्सरोभ्य इदं न मम ॥ ४१ ॥
इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
वाताय गन्धर्वायेदं न मम ॥ ४२ ॥
ताभ्यः स्वाहा । अद्भ्योऽप्सरोभ्य इदं न मम ॥ ४३ ॥
भुवनस्य पते यस्य त उपरि गृहा इह च । स नो राश्वा-ज्यानिँरायस्पोषँसुवीर्यँसंवत्सरीणाँस्वस्तिँ स्वाहा ।
भुवनस्यपत्ये ब्रह्मण इदं न मम ॥ ४४ ॥
परमेष्ठ्यधिपतिः-मृत्युर्गन्धर्व स्तस्य विश्वमप्सरसो भुवो नाम स स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
मृत्यवे गन्धर्वायेदं न मम ॥ ४५ ॥
ताभ्यः स्वाहा । विश्वेभ्यो अप्सरोभ्य इदं न मम ॥ ४६ ॥
सुक्षिति-स्सुभूतिः-भद्रकृत्सुपर्वान् पर्जन्यो गन्धर्व-स्तस्य विद्युतोऽप्सरसो रुचो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
पर्जन्यो गन्धर्वायेदं न मम ॥ ४७ ॥
ताभ्यः स्वाहा । विद्युद्भ्योऽप्सरोभ्य इदं न मम ॥ ४८ ॥
दूरेहेति-रमृडयो मृत्युः-गन्धर्व-स्तस्य प्रजा अप्सरसो भीरुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
मृत्युवे गन्धर्वायेदं न मम ॥ ४९ ॥
ताभ्यः स्वाहा । प्रजाभ्योऽप्सरोभ्य इदं न मम ॥ ५० ॥
चारुः कृपणकाशी कामो गन्धर्व-स्तस्याधयोऽप्सरसश्शोचयन्तीः - नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ।
कामाय गन्धर्वायेदं न मम ॥ ५१ ॥
ताभ्यः स्वाहा । आधिभ्योऽप्सरोभ्य इदं न मम ॥ ५२ ॥
सनो भुवनस्यपते यस्यत उपरि गृहा इह च । ऊरु ब्रह्मणेऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ।
भुवनस्यपत्ये ब्रह्मण इदं न मम ॥ ५३ ॥
॥ उत्तराङ्गम् ॥
प्रजापते नत्वदेतान्यन्योविश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँस्याम पतयोरयीणाँ
स्वाहा । प्रजापतय इदं न मम ॥ ५४ ॥
भूस्स्वाहा । अग्नय इदं न मम ॥ ५५ ॥
भुवस्स्वाहा । वायव इदं न मम ॥ ५६ ॥
सुवस्स्वाहा । सूर्यायेदं न मम ॥ ५७ ॥
यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्ट कृद्विद्वान् सर्वँस्विष्टँसुहुतं करोतु स्वाहा ।
अग्नये स्विष्टकृत इदं न मम ॥ ५८ ॥
परिध्यंजनम् । परिधिप्रहरणम् । मध्यमं परिधिमग्नौ प्रहृत्य, अन्यौ प्रहरन् । दर्वीद्वयेन संस्रावं जुहोति (स्वाहा) । वसुभ्यो रुद्रेभ्य आदित्येभ्यः सँस्राव भागेभ्य इदम् न मम ॥ ५९ ॥
ओं भूर्भुवस्सुवः स्वाहा । प्रजापतय इदं न मम ॥ ६० ॥
इति जयादि होमः सम्पूर्णः ॥
Encoded and proofread by Preeti Bhandare