स्कन्दसप्तशती उत्तराङ्गपूजान्तर्गतः जयादि होमः

स्कन्दसप्तशती उत्तराङ्गपूजान्तर्गतः जयादि होमः

सस्वरः

॥ अथ जयादि होमः ॥ (एतत् कर्म समृद्ध्यर्थं जयादि होमं करिष्ये ॥) चि॒त्तं च॒ स्वाहा᳚ । चित्ताया इदन्नमम ॥ १॥ चित्ति॑श्च॒ स्वाहा᳚ । चित्त्यायेदं न मम ॥ २॥ आकू॑तं च॒ स्वाहा᳚ । आकूतायेदं न मम ॥ ३॥ आकू॑तिश्च॒ स्वाहा᳚ । आकूत्यायेदं न मम ॥ ४॥ विज्ञा॑तं च॒ स्वाहा᳚ । विज्ञातायेदं न मम ॥ ५॥ वि॒ज्ञानं॑ च॒ स्वाहा᳚ । विज्ञानायेदं न मम ॥ ६॥ मन॑श्च॒ स्वाहा᳚ । मनस इदन्नमम ॥ ७॥ शक्व॑रीश्च॒ स्वाहा᳚ । शक्वरीभ्य इदन्नमम ॥ ८॥ दर्श॑श्च॒ स्वाहा᳚ । दर्शायेदं न मम ॥ ९॥ पू॒र्णमा॑सश्च॒ स्वाहा᳚ । पूर्णमासायेदं न मम ॥ १०॥ बृ॒हच्च॒ स्वाहा᳚ । बृहत इदन्नमम ॥ ११॥ र॒थ॒न्त॒रं च॒ स्वाहा᳚ । रथन्तरायेदं न मम ॥ १२॥ प्र॒जाप॑तिर्ज॒यानिन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु । तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वाः॒ स उ॒ग्र॑स्स हि हव्यो॑ ब॒भूव॒ स्वाहा᳚ । प्रजापतय इदन्नमम ॥ १३॥ अ॒ग्निर्भूताना॒मधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । अग्नय इदन्नमम ॥ १४॥ इन्द्रो॑ ज्ये॒ष्ठाना॒मधि॑पति॒स्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । इन्द्राय इदन्नमम ॥ १५॥ य॒मः पृथि॒व्या अधि॑पति॒स्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । यमाय इदन्नमम ॥ १६॥ वा॒युर॒न्तरिक्ष॒स्याधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । वायव इदन्नमम ॥ १७॥ सूर्यो॑ दि॒वोऽधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । सूर्याय दिवोधिपतय इदं नमम ॥ १८॥ च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । चन्द्रमस इदन्नमम ॥ १९॥ बृह॒स्पति॒र्ब्रह्म॑णोऽधिपतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । बृहस्पतय इदन्नमम ॥ २०॥ मि॒त्रस्स॒त्याना॒मधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । मित्राय इदन्नमम ॥ २१॥ वरु॑णो॒ऽपामधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । वरुणाय इदन्नमम ॥ २२॥ समु॑द्रस्स्रोत्याना॒मधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । समुद्राय इदन्नमम ॥ २३॥ अन्नँ॒साम्रा᳚ज्यानामधिपति तन्मा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । (अन्नँ॒साम्रा᳚ज्यानामधिपतिस्समा॑वत्व॒स्मिन्) अन्नाय इदं नमम ॥ २४॥ सोम॒ ओष॑धीना॒मधि॑पति॒स्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । सोमाय इदन्नमम ॥ २५॥ स॒वि॒ता प्र॑सवना॒मधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । सवित्र इदन्नमम ॥ २६॥ रु॒द्रः प॒शू॒नामधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । रुद्राय इदन्नमम ॥ २७॥ (अप उपस्पृश्य) त्वष्टा॑ रू॒पाणा॒मधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । त्वष्ट्र इदन्नमम ॥ २८॥ विष्णुः॒ पर्व॑ताना॒मधि॑पतिस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । विष्णव इदन्नमम ॥ २९॥ म॒रुतो ग॒णाना॒मधि॑पतयस्समा॑वत्व॒स्मिन् ब्रह्म॑न्नस्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पुरो॒धाया॑म॒स्मिन् क॑र्मन्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । (ग॒णाना॒मधि॑पतयस्ते) मरुद्भ्य इदन्नमम ॥ पित॑रः पि॒तामहाः परेऽवरे॒ तता᳚स्ततामहा इ॒हमा॑वत । अ॑स्मिन् ब्रह्म॑न्न॒स्मिन् क्षत्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया'म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ । पितृभ्यः इदन्नमम ॥ (अप उपस्पृश्य) मन्त्रोक्त देवताभ्य इदन्नमम । ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ग्निर्गन्ध॒र्वस्तस्योषधयोऽप्स॒रस॒ ऊर्जो॒ नाम स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । अग्नये गन्धर्वायेदं न मम ॥ ३२॥ ताभ्यः॒ स्वाहा᳚ । ओषधीभ्योप्सरोभ्य इदन्नमम ॥ ३३॥ सँ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्सरस॑ आ॒युवो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । सूर्याय गन्धर्वाय इदन्नमम ॥ ३४॥ ताभ्यः॒ स्वाहा᳚ । मरीचिभ्योप्सरोभ्य इदन्नमम ॥ ३५॥ सु॒षु॒म्नः सू॑र्यरश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्सरसो॑ बे॒कु॑रयो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । चन्द्रमसे गन्धर्वायेदं न मम ॥ ३६॥ ताभ्यः॒ स्वाहा᳚ । नक्षत्रेभ्योप्सरोभ्य इदन्नमम ॥ ३७॥ भु॒ज्युस्सुप॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रसः॑स्त॒वा नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । यज्ञाय गन्धर्वायेदं न मम ॥ ३८॥ ताभ्यः॒ स्वाहा᳚ । दक्षिणाभ्योप्सरोभ्य इदन्नमम ॥ ३९॥ प्र॒जाप॑तिःवि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑कर्सा॒मान्य॑प्स॒रसो॒ वह्नयो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । मनसे गन्धर्वायेदं न मम ॥ ४०॥ ताभ्यः॒ स्वाहा᳚ । ऋक्सामेभ्योप्सरोभ्य इदन्नमम ॥ ४१॥ इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापोऽप्स॒रसो॑ मु॒दा नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । वाताय गन्धर्वायेदं न मम ॥ ४२॥ ताभ्यः॒ स्वाहा᳚ । अद्भ्योप्सरोभ्य इदन्नमम ॥ ४३॥ भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॑श्वाज्या॑निँरा॒यस्पोषँ॑सु॒वीर्यँ॑संवत्स॒रीणाँस्व॒स्तिँ स्वाहा᳚ । भुवनस्यपत्ये ब्रह्मण इदन्नमम ॥ ४४॥ प॒र॒मे॒ष्ठ्यधि॑पतिःमृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुवो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । मृत्यवे गन्धर्वायेदं न मम ॥ ४५॥ ताभ्यः॒ स्वाहा᳚ । विश्वेभ्योप्सरोभ्य इदन्नमम ॥ ४६॥ सु॒क्षितिस्सुभू॑तिःभद्र॒कृत्सुप॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । पर्जन्यो गन्धर्वायेदं न मम ॥ ४७॥ ताभ्यः॒ स्वाहा᳚ । विद्युद्भ्योप्सरोभ्य इदन्नमम ॥ ४८॥ दूरेहे॑तिरमृड॒यो मृत्युःगन्धर्व॑स्तस्य॑ प्र॒जा अ॒प्स॒रसो॑ भी॒रुवो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । मृत्युवे गन्धर्वायेदं न मम ॥ ४९॥ ताभ्यः॒ स्वाहा᳚ । प्रजाभ्योप्सरोभ्य इदन्नमम ॥ ५०॥ चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्याधयो᳚ऽप्सरस॑श्शोचय॑न्तीः नाम॒ स इ॒दं ब्रह्म क्ष॒त्रं पा॑तु ता इ॒दं ब्रह्म क्ष॒त्रं पा᳚न्तु॒ त॒स्मै स्वाहा᳚ । कामाय गन्धर्वायेदं न मम ॥ ५१॥ ताभ्यः॒ स्वाहा᳚ । आधिभ्योप्सरोभ्य इदन्नमम ॥ ५२॥ सनो॑ भुवनस्यपते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ । ऊ॒रु ब्रह्म॑णेऽस्मै क्ष॒त्राय॒ म॒हि शर्म॑ यच्छ॒ स्वाहा᳚ । भुवनस्यपत्ये ब्रह्मण इदन्नमम ॥ ५३॥ ॥ उत्तराङ्गम् ॥ प्रजा॑पते॒ नत्वदेतान्यन्योविश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । यत्का॑मास्ते॒ जुहु॒मस्तन्नो॑ अस्तु व॒यँस्या॑म॒ पत॑योरयी॒णाँ स्वाहा᳚ । प्रजापतय इदन्नमम ॥ ५४॥ भूस्स्वाहा᳚ । अग्नय इदन्नमम ॥ ५५॥ भुव॒स्स्वाहा᳚ । वायव इदन्नमम ॥ ५६॥ सुव॒स्स्वाहा᳚ । सूर्यायेदं न मम ॥ ५७॥ यदस्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् । अग्निष्ट॒त्स्वि॑ष्ट॒ कृद्विद्वान् सर्वँस्विष्टँसुहु॑तं करोतु॒ स्वाहा᳚ । अग्नये स्विष्टकृत इदन्नमम ॥ ५८॥ परिध्यंजनम् । परिधिप्रहरणम् । मध्यमं परिधिमग्नौ प्रहृत्य, अन्यौ प्रहरन् । दर्वीद्वयेन संस्रावं जुहोति (स्वाहा᳚) । वसुभ्यो रुद्रेभ्य आदित्येभ्यः सँस्राव भागेभ्य इदम् न मम ॥ ५९॥ ॐ भूर्भु॒वस्सुवः॒ स्वाहा᳚ । प्रजापतय इदन्नमम ॥ ६०॥ इति जयादि होमः सम्पूर्णः ॥

जयादि होमः निःस्वरः

॥ अथ जयादि होमः ॥ (एतत् कर्म समृद्ध्यर्थं जयादि होमं करिष्ये ॥) चित्तं च स्वाहा । चित्ताया इदन्नमम ॥ १॥ चित्तिश्च स्वाहा । चित्त्यायेदं न मम ॥ २॥ आकूतं च स्वाहा । आकूतायेदं न मम ॥ ३॥ आकूतिश्च स्वाहा । आकूत्यायेदं न मम ॥ ४॥ विज्ञातं च स्वाहा । विज्ञातायेदं न मम ॥ ५॥ विज्ञानं च स्वाहा । विज्ञानायेदं न मम ॥ ६॥ मनश्च स्वाहा । मनस इदन्नमम ॥ ७॥ शक्करीश्च स्वाहा । शक्वरीभ्य इदन्नमम ॥ ८॥ दर्शश्च स्वाहा । दर्शायेदं न मम ॥ ९॥ पूर्णमासश्च स्वाहा । पूर्णमासायेदं न मम ॥ १०॥ बृहच्च स्वाहा । बृहत इदन्नमम ॥ ११॥ रथन्तरं च स्वाहा । रथन्तरायेदं न मम ॥ १२॥ प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु । तस्मै विशस्समनमन्त सर्वाः स उग्रस्स हि हव्यो बभूव स्वाहा । प्रजापतय इदन्नमम ॥ १३॥ अग्निर्भूतानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । अग्नय इदन्नमम ॥ १४॥ इन्द्रो ज्येष्ठानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । इन्द्राय इदन्नमम ॥ १५॥ यमः पृथिव्या अधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । यमांय इदन्नमम ॥ १६॥ वायुरन्तरिक्षस्याधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । वायव इदन्नमम ॥ १७॥ सूर्यो दिवोऽधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । सूर्याय इदं नमम ॥ १८॥ चन्द्रमा नक्षत्राणामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । चन्द्रमस इदन्नमम ॥ १९॥ बृहस्पतिर्ब्रह्मणोऽधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । बृहस्पतय इदन्नमम ॥ २०॥ मित्रस्सत्यानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । मित्राय इदन्नमम ॥ २१॥ वरुणोऽपामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । वरुणाय इदन्नमम ॥ २२॥ समुद्रस्स्रोत्यानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । समुद्राय इदन्नमम ॥ २३॥ अन्नँसाम्राज्यानामधिपति तन्मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । (अन्नँसाम्राज्यानामधिपतिस्समावत्वस्मिन्) अन्नाय इदं नमम ॥ २४॥ सोम ओषधीनामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । सोमाय इदन्नमम ॥ २५॥ सविता प्रसवनामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । सवित्र इदन्नमम ॥ २६॥ रुद्रः पशूनामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । रुद्राय इदन्नमम ॥ २७॥ (अप उपस्पृश्य) त्वष्टा रूपाणामधिपतिस्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । त्वष्ट्र इदन्नमम ॥ २८॥ विष्णुः पर्वतानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । विष्णव इदन्नमम ॥ २९॥ मरुतो गणानामधिपतयस्ते मावन्त्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । मरुद्भ्य इदन्नमम ॥ पितरः पितामहाः परेऽवरे ततास्ततामहा इहमावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया'मस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा । (पितृभ्यः इदन्नमम । ??) मन्त्रोक्त देवताभ्य पितृभ्यः इदन्नमम ॥ (अप उपस्पृश्य) मन्त्रोक्त देवताभ्य इदन्नमम । ऋताषाड् ऋतधामाग्निर्गन्धर्वस्तस्योषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । अग्नये गन्धर्वायेदं न मम ॥ ३२॥ ताभ्यः स्वाहा । ओषधीभ्योप्सरोभ्य इदन्नमम ॥ ३३॥ सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । सूर्याय गन्धर्वाय इदन्नमम ॥ ३४॥ ताभ्यः स्वाहा । मरीचिभ्योप्सरोभ्य इदन्नमम ॥ ३५॥ सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । चन्द्रमसे गन्धर्वायेदं न मम ॥ ३६॥ ताभ्यः स्वाहा । नक्षत्रेभ्योप्सरोभ्य इदन्नमम ॥ ३७॥ भुज्युस्सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणाप्सरसःस्तवा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । यज्ञाय गन्धर्वायेदं न मम ॥ ३८॥ ताभ्यः स्वाहा । दक्षिणाभ्योप्सरोभ्य इदन्नमम ॥ ३९॥ प्रजापतिःविश्वकर्मा मनो गन्धर्वस्तस्यकर्सामान्यप्सरसो वह्नयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । मनसे गन्धर्वायेदं न मम ॥ ४०॥ ताभ्यः स्वाहा । ऋक्सामेभ्योप्सरोभ्य इदन्नमम ॥ ४१॥ इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । वाताय गन्धर्वायेदं न मम ॥ ४२॥ ताभ्यः स्वाहा । अद्भ्योप्सरोभ्य इदन्नमम ॥ ४३॥ भुवनस्य पते यस्य त उपरि गृहा इह च । स नो राश्वाज्यानिँरायस्पोषँसुवीर्यँसंवत्सरीणाँस्वस्तिँ स्वाहा । भुवनस्यपत्ये ब्रह्मण इदन्नमम ॥ ४४॥ परमेष्ठ्यधिपतिःमृत्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । मृत्यवे गन्धर्वायेदं न मम ॥ ४५॥ ताभ्यः स्वाहा । विश्वेभ्योप्सरोभ्य इदन्नमम ॥ ४६॥ सुक्षितिस्सुभूतिःभद्रकृत्सुपर्वान् पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसो रुचो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । पर्जन्यो गन्धर्वायेदं न मम ॥ ४७॥ ताभ्यः स्वाहा । विद्युद्भ्योप्सरोभ्य इदन्नमम ॥ ४८॥ दूरेहेतिरमृडयो मृत्युःगन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । मृत्युवे गन्धर्वायेदं न मम ॥ ४९॥ ताभ्यः स्वाहा । प्रजाभ्योप्सरोभ्य इदन्नमम ॥ ५०॥ चारुः कृपणकाशी कामो गन्धर्वस्तस्याधयोऽप्सरसश्शोचयन्तीः नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । कामाय गन्धर्वायेदं न मम ॥ ५१॥ ताभ्यः स्वाहा । आधिभ्योप्सरोभ्य इदन्नमम ॥ ५२॥ सनो भुवनस्यपते यस्यत उपरि गृहा इह च । ऊरु ब्रह्मणेऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा । भुवनस्यपत्यै ब्रह्मण इदन्नमम ॥ ५३॥ ॥ उत्तराङ्गम् ॥ प्रजापते नत्वदेतान्यन्योविश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँस्याम पतयोरयीणाँ स्वाहा । प्रजापतय इदन्नमम ॥ ५४॥ भूस्स्वाहा । अग्नय इदन्नमम ॥ ५५॥ भुवस्स्वाहा । वायव इदन्नमम ॥ ५६॥ सुवस्स्वाहा । सूर्यायेदं न मम ॥ ५७॥ यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्ट कृद्विद्वान् सर्वँस्विष्टँसुहुतं करोतु स्वाहा । अग्नये स्विष्टकृत इदन्नमम ॥ ५८॥ परिध्यंजनम् । परिधिप्रहरणम् । मध्यमं परिधिमग्नौ प्रहृत्य, अन्यौ प्रहरन् । दर्वीद्वयेन संस्रावं जुहोति (स्वाहा) । वसुभ्यो रुद्रेभ्य आदित्येभ्यः सँस्राव भागेभ्य इदम् न मम ॥ ५९॥ ॐ भूर्भुवस्सुवः स्वाहा । प्रजापतय इदन्नमम ॥ ६०॥ इति जयादि होमः सम्पूर्णः ॥ Encoded by Preeti Bhandare Proofread by Preeti Bhandare, Ranganathan Venkataraman
% Text title            : Jayadi Homa from Skandasaptashati Uttaranga Puja
% File name             : jayAdihomaH.itx
% itxtitle              : jayAdi homaH (skandasaptashatI uttarANgapUjAntargataH)
% engtitle              : jayAdi homaH from skandasaptashatI uttarAngapUjA
% Category              : subrahmanya, pUjA
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% SubDeity              : pUjA
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Preeti Bhandare
% Proofread by          : Preeti Bhandare, Ranganathan Venkataraman
% Indexextra            : (Scans 1, 2, 3, Audio)
% Latest update         : June 25, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org