कार्तिकेयशताष्टनामस्तोत्रम्
(शिवरहस्यान्तर्गते ईशाख्ये)
(विष्णुब्रह्मादयो देवाः कृतम्)
षण्मुखः सुमुखस्त्राता लेखसेनापतिः प्रभुः ॥ ५३.२॥
शक्तिहस्तो दुराधर्षो वीतिहोत्राङ्गजो बली ।
क्रौञ्चाद्रिमथनो योगी सुब्रह्मण्यो मखेडितः ॥ ५४॥
गाङ्गेयो वैद्युतोऽमोघस्तारकान्तकरो रविः ।
महासेनो देववैद्यः प्रणवार्थप्रकाशकः ॥ ५५॥
महासेनः शरवणोद्भवो भवसुतोऽनघः ।
विनायकानुजः श्रीमान् शूरसंहारकारकः ॥ ५६॥
सेनानीर्दुर्दुरो वीरो गर्भो विश्वपतिः कविः ।
गुरुर्हरिहयः शास्ता शरासनकरः शरी ॥ ५७॥
व्यापकोऽनन्तशक्तिः सुकुमारः प्रोज्ज्वलाङ्गकः ।
वीराबाहुर्गणाध्यक्षस्त्र्यक्षप्रीतो विशारदः ॥ ५८॥
कान्तः शान्तो जितारातिरुमाकान्तात्मजोऽपरः ।
वल्लीपतिर्जितारातिः कुक्कुटोत्तमकेतनः ॥ ५९॥
शिवलिङ्गार्चनप्रीतो गन्धपुष्पाद्यलङ्कृतः ।
मुकुटी चाङ्गदी चक्री गदी शङ्खी शिखी जटी ॥ ६०॥
सनातनपरस्तारस्तारकस्तारकान्तकृत् ।
संवर्तो यौवनी(?) वीरो बालो लीलाविनोदकृत् ॥ ६१॥
प्रसन्नाक्षः पङ्कजाक्षः शम्बरः शम्बरप्रियः ।
सुपल्लवः शिवो धन्वी खड्गखेटधरः स्तुतः ॥ ६२॥
विश्वप्रियोऽनन्तशक्तिः सुराध्यक्षो दुरासदः ।
प्रमोदो मेघदमनः शक्रपूज्यः शतक्रतुः ॥ ६३॥
कृत्तिकासूनुरमलः कृत्तिवासःप्रियो विराट् ।
स्वाहाप्रियः कार्तिकेयो हरणो वेगवत्तरः ॥ ६४॥
स्वर्णवर्णः पारिभद्रस्ताम्रस्तारणकारकः ।
सुपुष्करमहामालो ललिताङ्गः सुरावनः ॥ ६५॥
यशस्करोऽमरपरो गीतवान् तत्प्रियोऽर्तिहा (तत्त्वप्रियोऽर्तिहा ? ) ।
वीरभद्रमहागर्वस्तम्भनस्तत्परः सखा ॥ ६६॥
निरञ्जनो निराधारः शक्रसेनापतिर्वटुः ।
ब्रह्मचारी गिरिचरः सर्परूपो दुरासदः ॥ ६७॥
षष्ठीप्रीतः कुमारश्च स्मरस्मेरास्यसुन्दरः ।
विज्ञानदः शिवो ज्ञानी शिवभक्तशिरोमणिः ॥ ६८॥
॥ इति शिवरहस्यान्तर्गते कार्तिकेयशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः २१ कुमारसम्भवः । ५३-६८ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 21 kumArasambhavaH . 53-68 ..
Notes:
Brahmā ब्रह्मा, Viṣṅu विष्णु et al Deva-s देवाः eulogize the newly born Kārtikeya कार्तिकेय who would save them from the atrocities of Tārakāsura तारकासुर.
KārtikeyaŚatāṣṭanāmāvaliḥ कार्तिकेयशताष्टनामावलिः derived from this KārtikeyaŚatāṣṭanāmaStotram कार्तिकेयशताष्टनामस्तोत्रम् can be accessed from one of the links given below.
The count seems to exceed 108 though.
Proofread by Ruma Dewan