श्रीकार्तिकेयस्तोत्रम् २
ॐ श्रीगणेशाय नमः ।
भास्वद्वज्रप्रकाशो दशशतनयनेनार्चितो वज्रपाणिः
भास्वन्मुक्तासुवर्णाङ्गदमुकुटधरो दिव्यगन्धोज्ज्वलाङ्गः ।
पावञ्जेशो गुणाढ्यो हिमगिरितनयानन्दनो वह्निजातः
पातु श्रीकार्तिकेयो नतजनवरदो भक्तिगम्यो दयालुः ॥ १॥
सेनानीर्देवसेनापतिरमरवरैः सन्ततं पूजिताङ्घ्रिः
सेव्यो ब्रह्मर्षिमुख्यैर्विगतकलिमलैर्ज्ञानिभिर्मोक्षकामैः ।
संसाराब्धौ निमग्नैर्गृहसुखरतिभिः पूजितो भक्तवृन्दैः
सम्यक् श्रीशम्भुसूनुः कलयतु कुशलं श्रीमयूराधिरूढः ॥ २॥
लोकांस्त्रीन् पीडयन्तं दितिदनुजपतिं तारकं देवशत्रुं
लोकेशात्प्राप्तसिद्धिं शितकनकशरैर्लीलया नाशयित्वा ।
ब्रह्मेन्द्राद्यादितेयैर्मणिगणखचिते हेमसिंहासने यो
ब्रह्मण्यः पातु नित्यं परिमलविलसत्पुष्पवृष्ट्याऽभिषिक्तः ॥ ३॥
युद्धे देवासुराणामनिमिषपतिना स्थापितो यूथपत्वे
युक्तः कोदण्डबाणासिकुलिशपरिघैः सेनया देवतानाम् ।
हत्वा दैत्यान्प्रमत्तान् जयनिनदयुतैर्मङ्गलैर्वाद्यघोषैः
हस्तिश्रेष्ठाधिरूढो विबुधयुवतिभिर्वीजितः पातु युक्तः ॥ ४॥
श्रीगौरीकान्तपुत्रं सुरपतनयया विष्णुपुत्र्या च युक्तं
श्रीस्कन्दं ताम्रचूडाभयकुलिशधरं शक्तिहस्तं कुमारम् ।
षड्ग्रीवं मञ्जुवेषं त्रिदिववरसुमस्रग्धरं देवदेवं
षड्वक्त्रं द्वादशाक्षं गणपतिसहजं तारकारिं नमामि ॥ ५॥
कैलासोत्तुङ्गशृङ्गे प्रमथसुरगणैः पूजितं वारिवाहं
कैलासाद्रीशपुत्रं मुनिजनहृदयानन्दनं वारिजाक्षम् ।
गन्धाड्यां पारिजातप्रभृतिसुमकृतां मालिकां धारयन्तं
गङ्गापत्यं भजेऽहं गुहममरनुतं तप्तजाम्बूनदाभम् ॥ ६॥
भक्तेष्टार्थप्रदाने निरतमभयदं ज्ञानशक्तिं सुरेशं
भक्त्या नित्यं सुरर्षिप्रमुखमुनिगणैरर्चितं रक्तवर्णम् ।
वन्द्यं गन्धर्वमुख्यैर्भवजलधितरिं पीतकौशेयवस्त्रं
वन्दे श्रीबाहुलेयं मदनरिपुसुतं कोटिचन्द्रप्रकाशम् ॥ ७॥
तप्तस्वर्णाभकायं मधुरिपुतनयाकान्तमम्भोजनेत्रं
तत्त्वज्ञं चन्द्रमौलिप्रियसुतमिभवक्त्रानुजं शक्तिपाणिम् ।
गाङ्गेयं कार्तिकेयं स्मरसदृशवपुं रत्नहारोज्ज्वलाङ्गं
गानप्रेमं शुभाङ्गं स्मितरुचिरमुखं चारुभूषं नमामि ॥ ८॥
ध्यायेद्बालार्ककान्तिं शरवणजनितं पार्वतीप्रीतिपुत्रं
ध्यानप्रेमं कृपालुं वरदमघहरं पुण्यरूपं पवित्रम् ।
नित्यानन्दं वरेण्यं रजतगिरिवरोत्तुङ्गशृङ्गाधिवासं
नित्यं देवर्षिवन्द्यं भवहरममलं वेदवेद्यं पुराणम् ॥ ९॥
इति श्रीकार्तिकेयस्तोत्रं सम्पूर्णम् ॥
Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com,
PSA Easwaran psaeaswaran at gmail.com