श्रीकुमारमङ्गलस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
अथ श्रीकुमारमङ्गलस्तोत्रम् ।
यज्ञोपवीतीकृतभोगिराजो
गणाधिराजो गजराजवक्त्रः ।
सुराधिराजार्चितपादपद्मः
सदा कुमाराय शुभं करोतु ॥ १॥
विधातृपद्माक्षमहोक्षवाहाः
सरस्वतीश्रीगिरिजासमेताः ।
आयुः श्रियं भूमिमनन्तरूपं
भद्रं कुमाराय शुभं दिशन्तु ॥ २॥
मासाश्च पक्षाश्च [दिनानि ताराः]
राशिश्च योगाः करणानि सम्यक्
ग्रहाश्च सर्वेऽदितिजास्समस्थाः
श्रियं कुमाराय शुभं दिशन्तु ॥ ३॥
ऋतुर्वसन्तः सुरभिः सुधा च
वायुस्तथा दक्षिणनामधेयः ।
पुष्पाणि शश्वत्सुरभीणि कामः
श्रियं कुमाराय शुभं करोतु ॥ ४॥
भानुस्त्रिलोकीतिलकोऽमलात्मा
कस्तूरिकालङ्कृतवामभागः ।
पम्पासरश्चैव स सागरश्च
श्रियं कुमाराय शुभं करोतु ॥ ५॥
भास्वत्सुधारोचिकिरीटभूषा
कीर्त्या समं शुभ्रसुगात्रशोभा ।
सरस्वती सर्वजनाभिवन्द्या
श्रियं कुमाराय शुभं करोतु ॥ ६॥
आनन्दयन्निन्दुकलावतंसो
मुखोत्पलं पर्वतराजपुत्र्याः ।
स्पृसन् सलीलं कुचकुम्भयुग्मं
श्रियं कुमाराय शुभं करोतु ॥ ७॥
वृषस्थितः शूलधरः पिनाकी
गिरिन्द्रजालङ्कृतवामभागः ।
समस्तकल्याणकरः श्रितानां
श्रियं कुमाराय शुभं करोतु ॥ ८॥
लोकानशेषानवगाहमाना
प्राज्यैः पयोभिः परिवर्धमाना ।
भागीरथी भासुरवीचिमाला
श्रियं कुमाराय शुभं करोतु ॥ ९॥
श्रद्धां च मेधां च यशश्च विद्यां
प्रज्ञां च बुद्धिं बलसम्पदौ च
आयुष्यमारोग्यमतीव तेजः
सदा कुमाराय शुभं करोतु ॥ १०॥
॥ इति श्रीकुमारमङ्गलस्तोत्रं सम्पूर्णम् ॥
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran