श्रीमुत्तुकुमारसुब्रह्मण्यमूर्तिसहस्रनामावलिः
श्रीवैद्येश्वरमन्दिरस्थित (कुम्भघोणनगरस्य निकटवर्ति (तमिळ् नाडु)
वैत्तीश्वरन् कोविल्) मुत्तुक्कुमारन् सुब्रह्मण्यमूर्तिसहस्रनामावलिः
Sahasranamavali is on Lord Subrahmanya at Vaitheeswaran Koil.
॥ध्यानम् ॥
षड्वक्त्रं शिखिवाहनं त्रिनयनं वल्लीशसेनापतिं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं शिवं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥
गाङ्गेयं वह्निबीजं शरवणजनितं ज्ञानशक्तिं कुमारं
ब्रह्माणं स्कन्ददेवं गुहमचलभिदं रौद्रतेजःस्वरूपम् ।
सेनान्यं तारकघ्नं गजमुखसहितं कार्तिकेयं षडास्यं
सुब्रह्मण्यं मयूरध्वजसहितमजं देवदेवं नमामि ॥
॥ॐ श्रीगणेशाय नमः ॥
अथ श्रीकुमारसुब्रह्मण्यमूर्तिसहस्रनामावलिः ।
ॐ अनन्ताय नमः ।
ॐ अमलाय नमः ।
ॐ अनादये नमः ।
ॐ अमराय नमः ।
ॐ अनन्तसद्गुणाय नमः ।
ॐ अच्युताय नमः ।
ॐ अनघाय नमः ।
ॐ अनन्तस्वरूपाय नमः ।
ॐ निष्कलद्युतये नमः ।
ॐ अनन्तफलदाय नमः । १०
ॐ अखण्डरूपाय नमः ।
ॐ अनन्तोदराय नमः ।
ॐ अतुलाय नमः ।
ॐ आनुकूल्याय नमः ।
ॐ अनन्तसौख्याय नमः ।
ॐ सुन्दराय नमः ।
ॐ अमराधिपाय नमः ।
ॐ षाण्मातृनन्दनाय नमः ।
ॐ स्वर्णभूषणाय नमः ।
ॐ षण्मुखाय नमः । २०
ॐ अमृताय नमः ।
ॐ हरसूनवे नमः ।
ॐ पित्रे नमः ।
ॐ अष्टादशार्णाय नमः ।
ॐ आदिदेशिकाय नमः ।
ॐ अगजाकुचपीयूषभोक्त्रे नमः ।
ॐ आखण्डलार्तहृदे नमः ।
ॐ अनेकासुरसंहारिणे नमः ।
ॐ तारकब्रह्मदेशिकाय नमः ।
ॐ सच्चिदानन्दरूपिणे नमः । ३०
ॐ विधीन्द्रसुरवन्दिताय नमः ।
ॐ कुमाराय नमः ।
ॐ शङ्करसुताय नमः ।
ॐ हारकेयूरभूषिताय नमः ।
ॐ षट्किरीटधराय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ आधाराय नमः ।
ॐ परात्पराय नमः ।
ॐ आदित्यसोमभौमादिग्रहदोषविभञ्जनाय नमः ।
ॐ श्रीमते नमः । ४०
ॐ शिवगिरीशानाय नमः ।
ॐ भक्तसंस्तुतवैभवाय नमः ।
ॐ अगस्त्यमुनिसम्बोद्ध्रे नमः ।
ॐ अमरार्तिप्रभञ्जनाय नमः ।
ॐ मुकुन्दभागिनेयाय नमः ।
ॐ द्विषण्णेत्राय नमः ।
ॐ द्विषड्भुजाय नमः ।
ॐ चन्द्रार्ककोटिसदृशाय नमः ।
ॐ शचीमाङ्गल्यरक्षकाय नमः ।
ॐ हिमाचलसुतासूनवे नमः । ५०
ॐ सर्वजीवसुखप्रदाय नमः ।
ॐ आत्मज्योतिषे नमः ।
ॐ शक्तिपाणये नमः ।
ॐ भक्तसंरक्षणोद्यताय नमः ।
ॐ चातुर्वर्ण्येष्टफलदाय नमः ।
ॐ वल्लीशाय नमः ।
ॐ दुःखनाशकाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ मोक्षप्रदाय नमः ।
ॐ पुण्यदृश्याय नमः । ६०
ॐ भक्तदयानिधये नमः ।
ॐ कोटिकन्दर्पलावण्याय नमः ।
ॐ इच्छाज्ञानक्रियान्विताय नमः ।
ॐ हरिब्रह्मेन्द्रमौल्यग्रछन्नपादाम्बुजद्वयाय नमः ।
ॐ वल्लीभाषणसुप्रीताय नमः ।
ॐ दिव्याङ्गवनमालिकाय नमः ।
ॐ इष्टार्थदायकाय नमः ।
ॐ बालाय नमः ।
ॐ बालचन्द्रकलाधराय नमः ।
ॐ शिष्टहृत्पद्मनिलयाय नमः । ७०
ॐ दुष्टचोरकुलान्तकाय नमः ।
ॐ कोटिकोटिमहासिद्धमुनिवन्दितपादुकाय नमः ।
ॐ ईशाय नमः ।
ॐ ईशाधिपाय नमः ।
ॐ ईशदेशिकाय नमः ।
ॐ ईश्वरात्मजाय नमः ।
ॐ ईशानादिमध्यान्तब्रह्मप्रणवषण्मुखाय नमः ।
ॐ ईशाग्राय नमः ।
ॐ लयभीतिघ्नाय नमः ।
ॐ विघ्नराजसहोदराय नमः । ८०
ॐ इन्द्रवारुणकौबेरविरिञ्च्यादिसुखप्रदाय नमः ।
ॐ ईशकैलासनिलयाय नमः ।
ॐ ईशसंस्तुतवैभवाय नमः ।
ॐ कल्पवृक्षादिकौदार्याय नमः ।
ॐ सर्ववेदाग्रवासभुवे नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ सर्वसुखदाय नमः ।
ॐ कीर्तिमते नमः ।
ॐ विभवे नमः ।
ॐ इन्दिरारमणप्रीताय नमः । ९०
ॐ मृत्युभीत्यादिनाशकाय नमः ।
ॐ सर्वशत्रुकुलारण्यज्वालाकुलदवानलाय नमः ।
ॐ अणिमाद्यष्टसिद्धीशाय नमः ।
ॐ विधिविष्ण्वीश्वराधिपाय नमः ।
ॐ षडाधाराम्बुजगतसर्वदेवस्वरूपकाय नमः ।
ॐ श्रीनीपकुसुमप्रीताय नमः ।
ॐ ईतिबाधाविनाशकाय नमः ।
ॐ सर्वपुण्यस्वरूपिणे नमः ।
ॐ दातॄणां फलदायकाय नमः ।
ॐ देवेन्द्रकल्पकाय नमः । १००
ॐ गौरीसुताय नमः ।
ॐ हृत्कमलालयाय नमः ।
ॐ तारकप्राणहरणाय नमः ।
ॐ उग्रशक्त्यायुधाधिपाय नमः ।
ॐ सर्वात्मनायकाय नमः ।
ॐ कुम्भसम्भूतप्रियबोधकाय नमः ।
ॐ चन्द्रकोटिप्रभाय नमः ।
ॐ उल्लासिने नमः ।
ॐ हुम्फट्काराय नमः ।
ॐ उत्सुकाय नमः । ११०
ॐ देवेश्वराय नमः ।
ॐ नागभूषाय नमः ।
ॐ उद्यद्भास्करकुण्डलाय नमः ।
ॐ उद्दण्डधीराय नमः ।
ॐ गम्भीराय नमः ।
ॐ कृपासागरलोचनाय नमः ।
ॐ एककालोदितानेककोटिबालरविप्रभाय नमः ।
ॐ रुद्राधिपाय नमः ।
ॐ जयन्तादिसुरानेककारागृहविमोचकाय नमः ।
ॐ उग्रबालाय नमः । १२०
ॐ रक्ताम्बुजपदद्वयाय नमः ।
ॐ विरिञ्चिकेशवेन्द्रादिसर्वदेवाभयप्रदाय नमः ।
ॐ वल्लीन्द्रतनयादक्षवामालङ्कृतसुन्दराय नमः ।
ॐ नतकुम्भोद्भवानेकभक्तसङ्घप्रियङ्कराय नमः ।
ॐ सत्याचलस्थिताय नमः ।
ॐ शम्भुविज्ञानसुखबोधकाय नमः ।
ॐ गौरीशङ्करमध्यस्थाय नमः ।
ॐ देवसङ्घामृतप्रदाय नमः ।
ॐ उमामहेशनयनपद्माकररविप्रभाय var दिवाकराय नमः ।
ॐ रणरङ्गरमाप्रोक्तजयश्रवणकौतुकाय नमः । १३०
ॐ अहङ्कृतमनोदूराय नमः ।
ॐ दैत्यतूलधनञ्जयाय नमः ।
ॐ भक्तचित्तामृताम्बोधये नमः ।
ॐ मौनानन्तसुखप्रदाय नमः ।
ॐ अनेकक्षेत्रनिलयाय नमः ।
ॐ वाचिकामृतदायकाय नमः ।
ॐ पराद्रिस्थाय नमः ।
ॐ अर्णवक्षेत्रनिलयाय नमः ।
ॐ देवपूजिताय नमः ।
ॐ अनेकशैलनिलयाय नमः । १४०
ॐ फलभूधरनायकाय नमः ।
ॐ शिवाचलनिवासिने नमः ।
ॐ शिवक्षेत्राधिनायकाय नमः ।
ॐ मानसीकपुराधीशाय नमः ।
ॐ श्रीशैलालयसंस्थिताय नमः ।
ॐ मूलाधाराम्बुजगताय नमः ।
ॐ स्वाधिष्ठाननिकेतनाय नमः ।
ॐ मणीपूरकपद्मस्थाय नमः ।
ॐ अनाहतसुमस्थिताय नमः ।
ॐ विशुद्धिकमलारूढाय नमः । १५०
ॐ आज्ञाचक्रान्तरस्थिताय नमः ।
ॐ परमाकाशरूपिणे नमः ।
ॐ नादब्रह्ममयाकृतये नमः ।
ॐ महाशक्तये नमः ।
ॐ महोनाथाय नमः ।
ॐ सर्वलोकात्मविग्रहाय नमः ।
ॐ महावल्लीप्रियाय नमः ।
ॐ सर्वरूपिणे नमः ।
ॐ सर्वान्तरस्थिताय नमः ।
ॐ शिवार्थाय नमः । १६०
ॐ सर्वसञ्जीविने नमः ।
ॐ समस्तभुवनेश्वराय नमः ।
ॐ सर्वसंरक्षकाय नमः ।
ॐ सर्वसंहारकरताण्डवाय नमः ।
ॐ चतुर्मुखशिरोदेशमुष्टिताडनविक्रमाय नमः ।
ॐ ब्रह्मोपदेष्ट्रे नमः ।
ॐ ब्रह्मादिसुरलोकसुखप्रदाय नमः ।
ॐ यज्ञदिव्यहविर्भोक्त्रे नमः ।
ॐ वरदाय नमः ।
ॐ सर्वपालकाय नमः । १७०
ॐ दीनसंरक्षकाय नमः ।
ॐ अव्याजकरुणापूरवारिधये नमः ।
ॐ सर्वलक्षणसम्पन्नाय नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ ब्रह्मानन्दाब्धिशीताम्शवे नमः ।
ॐ करुणापूर्णलोचनाय नमः ।
ॐ एकाक्षरमयाय नमः ।
ॐ एकाक्षरपरार्थदाय नमः ।
ॐ एकाक्षरपरञ्ज्योतिषे नमः ।
ॐ एकान्तमतिबोधकाय नमः । १८०
ॐ एकार्थदायकाय नमः ।
ॐ एकपराय नमः ।
ॐ एकाम्रनायकाय नमः ।
ॐ एकान्तमौनफलदाय नमः ।
ॐ वल्लीमोहनतत्पराय नमः ।
ॐ सप्तर्षिवन्दितपदाय नमः ।
ॐ ब्रह्मातीताय नमः ।
ॐ मुनिस्तुताय नमः ।
ॐ वल्लीदर्शनसन्तुष्टाय नमः ।
ॐ भक्ताभीष्टवरप्रदाय नमः । १९०
ॐ उमाशङ्करमध्यस्थाय नमः ।
ॐ महावृषभसंस्थिताय नमः ।
ॐ सम्पूर्णाय नमः ।
ॐ सर्वलोकात्मने नमः ।
ॐ नीपमाल्यविभूषिताय नमः ।
ॐ कल्मषघ्नाय नमः ।
ॐ गिरिशयाय नमः ।
ॐ पापघ्नाय नमः ।
ॐ दीनरक्षकाय नमः ।
ॐ सर्वाभरणभूषाङ्काय नमः । २००
ॐ वज्रशक्त्यादिधारकाय नमः ।
ॐ पञ्चाक्षरस्थाय नमः ।
ॐ पञ्चास्याय नमः ।
ॐ कण्ठीरवमुखान्तकाय नमः ।
ॐ पञ्चभूतात्मभृते नमः ।
ॐ पञ्चभूतेशाय नमः ।
ॐ शचीवन्दिताय नमः ।
ॐ पञ्चवर्णाय नमः ।
ॐ पञ्चबाणकराय नमः ।
ॐ पञ्चतरुप्रभवे नमः । २१०
ॐ ऐङ्काररूपाय नमः ।
ॐ क्लीङ्काराय नमः ।
ॐ सौःकारकरुणानिधये नमः ।
ॐ अकारादिक्षकारान्तमयाय नमः ।
ॐ ऐरावतार्चिताय नमः ।
ॐ ऐरावतगजारूढाय नमः ।
ॐ सर्वभक्तप्रियङ्कराय नमः ।
ॐ ऐरावतात्मजावल्लीनायिकाप्राणवल्लभाय नमः ।
ॐ चतुष्षष्टिकलानाथाय नमः ।
ॐ द्वात्रिंशल्लक्षणोज्ज्वलाय नमः । २२०
ॐ मदनातीतसौन्दर्याय नमः ।
ॐ पाषण्डजनदूरगाय नमः ।
ॐ पञ्चेन्द्रियप्रेरकाय नमः ।
ॐ पञ्चकृत्यादिदायकाय नमः ।
ॐ पञ्चकृत्येश्वराय नमः ।
ॐ पञ्चमूर्तये नमः ।
ॐ पञ्चामृतप्रियाय नमः ।
ॐ एकार्थाय नमः ।
ॐ निर्नाशाय नमः ।
ॐ प्रणवार्थदाय नमः । २३०
ॐ सर्वज्योतिःप्रकाशिने नमः ।
ॐ रहःकेलिकुतूहलाय नमः ।
ॐ दिव्यज्योतिषे नमः ।
ॐ वेदमयाय नमः ।
ॐ वेदमूलाय नमः ।
ॐ अर्थसङ्ग्रहाय नमः ।
ॐ एकस्मै नमः ।
ॐ अनेकस्वरूपिणे नमः ।
ॐ रव्यादिद्युतिदायकाय नमः ।
ॐ ऐरावताधिपसुतानयनानन्दसुन्दराय नमः । २४०
ॐ चिदाकाशाय नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ लयोत्पत्तिविवर्जिताय नमः ।
ॐ सर्वशत्रुहराय नमः ।
ॐ मेषवरारूढाय नमः ।
ॐ विनायकाय नमः ।
ॐ एकातपत्रसांराज्यदायकाय नमः ।
ॐ सुमुखानुजाय नमः ।
ॐ मृगीपरशुचापासिशक्त्याद्यायुधभृत्कराय नमः ।
ॐ शरत्कालघनानीकमहोदारद्विषट्कराय नमः । २५०
ॐ श्रीवल्लीवामपार्श्वस्थाय नमः ।
ॐ रव्यादिग्रहदोषभिदे नमः ।
ॐ पादकिङ्किणिकानाददैत्यविभ्रमदायकाय नमः ।
ॐ ओङ्कारज्योतिषे नमः ।
ॐ ओङ्काराय नमः ।
ॐ वाचकातीतवैभवाय नमः ।
ॐ ओङ्कारचित्सभासंस्थाय नमः ।
ॐ ओङ्काराद्भुतमन्दिराय नमः ।
ॐ ओङ्कारमनुसन्दात्रे नमः ।
ॐ ओङ्कारगिरिसंस्थिताय नमः । २६०
ॐ ओङ्कारनादश्रवणाय नमः ।
ॐ ओङ्कारातीतविग्राहाय नमः ।
ॐ ओङ्कारनादान्तगताय नमः ।
ॐ ओम्मित्यादिषडक्षराय नमः ।
ॐ ओङ्कारपीठिकान्तस्थाय नमः ।
ॐ ओङ्कारमुकुटाग्रगाय नमः ।
ॐ ओङ्कारमूलसम्भूताय नमः ।
ॐ ओङ्काराद्यन्तमध्यगाय नमः ।
ॐ ओङ्कारमूलबीजार्थाय नमः ।
ॐ ओङ्कारपरशक्तिमते नमः । २७०
ॐ ओङ्कारबिन्दवे नमः ।
ॐ ओङ्कारचित्ताय नमः ।
ॐ ओङ्कारचित्पुराय नमः ।
ॐ ओङ्कारफलसत्साराय नमः ।
ॐ ओङ्कारज्ञानकोविदाय नमः ।
ॐ ओङ्कारसच्चिदानन्दाय नमः ।
ॐ ओङ्कारपरमात्मकाय नमः ।
ॐ ओङ्कारसम्भूतसप्तकोटिमन्त्राधिनायकाय नमः ।
ॐ ओङ्कारप्रणवाकाराय नमः ।
ॐ अकारादिकलात्मकाय नमः । २८०
ॐ षडक्षराय नमः ।
ॐ द्वादशार्णाय नमः ।
ॐ प्रणवाग्रार्णसंयुताय नमः ।
ॐ महेशस्तुतिसन्तुष्टाय नमः ।
ॐ शिवशक्त्यक्षरान्विताय नमः ।
ॐ पराक्षरकलोपेताय नमः ।
ॐ शिवबीजकलाश्रयाय नमः ।
ॐ औङ्कारनादकरुणाय नमः ।
ॐ औदासीनजनान्तकाय नमः ।
ॐ औदुम्बराश्वत्थनीपबिल्वादिसमिदाहुतये नमः । २९०
ॐ दुष्टक्रुद्धमनोदूराय नमः ।
ॐ शिष्टसङ्घसमाश्रिताय नमः ।
ॐ अकाराद्यक्षरप्राणाय नमः ।
ॐ अकारद्यक्षरार्थकाय नमः ।
ॐ उदारसद्गुणोपेताय नमः ।
ॐ भक्तैश्वर्यप्रदायकाय नमः ।
ॐ वल्लीपतये नमः ।
ॐ अकारादिक्षकारान्तकलाकल्पितविग्रहाय नमः ।
ॐ श्रीकुम्भसम्भवादीनां सर्वज्ञानोपदेशकृते नमः ।
ॐ षडर्णमन्त्रस्मरणभक्ताभीष्टप्रदायकाय नमः । ३००
ॐ स्कन्दमूर्तये नमः ।
ॐ गाङ्गेयाय नमः ।
ॐ कलिकल्मषनाशनाय नमः ।
ॐ भक्तसन्निहिताय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ शङ्खपाणिमुखस्तुताय नमः ।
ॐ ओंश्रींह्रींसौंशरवणभवाय नमः ।
ॐ शङ्करानन्दाय नमः ।
ॐ शतलक्षेन्दुसङ्काशाय नमः ।
ॐ शान्ताय नमः । ३१०
ॐ शशिधरात्मजाय नमः ।
ॐ शत्रुनाशकराय नमः ।
ॐ शम्भवे नमः ।
ॐ शचीपतिवरप्रदाय नमः ।
ॐ शक्तिमते नमः ।
ॐ शक्तिहस्ताय नमः ।
ॐ शान्तसर्वप्रकाशकाय नमः ।
ॐ शरभाय नमः ।
ॐ शङ्खचक्रादिधराय नमः ।
ॐ शङ्करबोधकाय नमः । ३२०
ॐ कृत्तिकातनयाय नमः ।
ॐ कृष्णाय नमः ।
ॐ शङ्खपद्मनिधिप्रदाय नमः ।
ॐ शक्तिवज्रादिसम्पन्नद्विषट्करसरोरुहाय नमः ।
ॐ शङ्कुकर्णमहाकर्णघण्टाकर्णादिवन्दिताय नमः ।
ॐ मूलादिद्वादशान्तस्थपद्ममध्यनिकेतनाय नमः ।
ॐ सद्गुणाय नमः ।
ॐ शङ्कराय नमः ।
ॐ साक्षिणे नमः ।
ॐ सदानन्दाय नमः । ३३०
ॐ सदाशिवाय नमः ।
ॐ ज्ञानेश्वराय नमः ।
ॐ सृष्टिकर्त्रे नमः ।
ॐ सर्ववश्यप्रदायकाय नमः ।
ॐ विचित्रवेषाय नमः ।
ॐ समरविजयायुधधारकाय नमः ।
ॐ क्रौञ्चासुररिपवे नमः ।
ॐ शङ्खपतये नमः ।
ॐ सर्वगणेश्वराय नमः ।
ॐ णकारतुर्यमन्त्रार्णाय नमः । ३४०
ॐ णकारार्णस्वरूपकाय नमः ।
ॐ णकारमूलमन्त्राग्राय नमः ।
ॐ णकाररवसंस्थिताय नमः ।
ॐ णकारशिखरारूढाय नमः ।
ॐ णकाराक्षरमध्यगाय नमः ।
ॐ णद्वितीयाय नमः ।
ॐ णत्रितीयाय नमः ।
ॐ णचतुर्थाय नमः ।
ॐ णपञ्चमाय नमः ।
ॐ णषष्ठवर्णाय नमः । ३५०
ॐ णार्णादिमन्त्रषड्भेदभासुराय नमः ।
ॐ णकारपीठनिलयाय नमः ।
ॐ नलिनोद्भवशिक्षकाय नमः ।
ॐ नादान्तकूटस्थाय नमः ।
ॐ नारदप्रियाय नमः ।
ॐ नागाशनरथारूढाय नमः ।
ॐ नान्दात्मने नमः ।
ॐ नागभूषणाय नमः ।
ॐ नागाचलपतये नमः ।
ॐ नागाय नमः । ३६०
ॐ नवतत्त्वाय नमः ।
ॐ नटप्रियाय नमः ।
ॐ नवग्रहादिदोषघ्नाय नमः ।
ॐ णकारस्तम्भनिष्क्रियाय नमः ।
ॐ णकाराक्षाय नमः ।
ॐ णकारेशाय नमः ।
ॐ णकारवृषवाहनाय नमः ।
ॐ तत्त्वबोद्ध्रे नमः ।
ॐ दैवमणये नमः ।
ॐ धनधान्यादिदायकाय नमः । ३७०
ॐ वल्लीपतये नमः ।
ॐ शुद्धान्तराय नमः ।
ॐ तत्वातीताय नमः ।
ॐ हरिप्रियाय नमः ।
ॐ तत्पराय नमः ।
ॐ कमलारूढाय नमः ।
ॐ षडाननसरोरूहाय नमः ।
ॐ भगवते नमः ।
ॐ भयहन्त्रे नमः ।
ॐ भर्गाय नमः । ३८०
ॐ भवविमोचकाय नमः ।
ॐ भानुकोपादिदैत्यघ्नाय नमः ।
ॐ भद्राय नमः ।
ॐ भागीरथीसुताय नमः ।
ॐ भवाचलमहावज्राय नमः ।
ॐ भवारण्यदवानलाय नमः ।
ॐ भवतापसुधावृष्टये नमः ।
ॐ भवरोगमहौषधाय नमः ।
ॐ भानुचन्द्राग्निनयनाय नमः ।
ॐ भावनातीतविग्रहाय नमः । ३९०
ॐ भक्तचित्ताम्बुजारूढाय नमः ।
ॐ भरतोक्तक्रियाप्रियाय नमः ।
ॐ भक्तदेवाय नमः ।
ॐ भयार्तिघ्नाय नमः ।
ॐ भकारोच्चाटनक्रियाय नमः ।
ॐ भारतीशमुकुन्दादिवाङ्मनोऽतीतवैभवाय नमः ।
ॐ विचित्रपक्षाश्वारूढाय नमः ।
ॐ भुजङ्गेशाय नमः ।
ॐ दयानिधये नमः ।
ॐ ईशफालाक्षिसम्भूताय नमः । ४००
ॐ वीराय नमः ।
ॐ षट्समयाधिपाय नमः ।
ॐ महाव्रताय नमः ।
ॐ महादेवाय नमः ।
ॐ भूतेशाय नमः ।
ॐ शिववल्लभाय नमः ।
ॐ महामायिने नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ मन्त्रस्थाय नमः ।
ॐ यक्षराट्प्रियाय नमः । ४१०
ॐ सर्वश्रेष्ठाय नमः ।
ॐ महामृत्युरूपासुरविनाशकाय नमः ।
ॐ रागाब्जमालिकाभूषाय नमः ।
ॐ रागिणे नमः ।
ॐ रागाम्बरप्रियाय नमः ।
ॐ रागद्वेषादिदोषघ्नाय नमः ।
ॐ रागरत्नविभूषणाय नमः ।
ॐ रावणस्तुतिसन्तुष्टाय नमः ।
ॐ रतीनायकवन्दिताय नमः ।
ॐ रम्भादिनाट्यसुप्रीताय नमः । ४२०
ॐ राजीवदललोचनाय नमः ।
ॐ रवचापधराय नमः ।
ॐ रक्षोवृन्दतूलहुताशनाय नमः ।
ॐ रविचन्द्रादिसम्पूज्याय नमः ।
ॐ रथारोहकुतूहलाय नमः ।
ॐ रवकाञ्चीवरधराय नमः ।
ॐ रवयुक्ताङ्घ्रिभूषणाय नमः ।
ॐ रव्युद्भवसमानेकहारकेयूरभूषिताय नमः ।
ॐ रविकोटिसमानाभाय नमः ।
ॐ रत्नहाटकदायकाय नमः । ४३०
ॐ शिखीन्द्राय नमः ।
ॐ उरगाकाराय नमः ।
ॐ निशादिनविवर्जिताय नमः ।
ॐ रमावाण्यादिसम्पूज्याय नमः ।
ॐ लक्षवीरभटस्तुताय नमः ।
ॐ वीरभूतगणस्तुत्याय नमः ।
ॐ श्रीरामाय नमः ।
ॐ अरुणाय नमः ।
ॐ रवये नमः ।
ॐ वरदाय नमः । ४४०
ॐ वज्रहस्ताय नमः ।
ॐ वामदेवादिवन्दिताय नमः ।
ॐ वलारितनयानाथाय नमः ।
ॐ वरदाभयसत्कराय नमः ।
ॐ वल्लीश्वरीपतये नमः ।
ॐ वाग्मिने नमः ।
ॐ वल्लीकल्याणसुन्दराय नमः ।
ॐ वलारिमुख्यविबुधवृन्ददुःखविमोचकाय नमः ।
ॐ वातरोगहराय नमः ।
ॐ वर्मरहिताय नमः । ४५०
ॐ वासवेश्वराय नमः ।
ॐ वाचकस्थाय नमः ।
ॐ वासुदेववन्दिताय नमः ।
ॐ वकुलप्रियाय नमः ।
ॐ वासनाङ्कितताम्बूलपूरिताननपङ्कजाय नमः ।
ॐ वचनागमनातीताय नमः ।
ॐ वामाङ्गाय नमः ।
ॐ वन्दिमोहनाय नमः ।
ॐ वल्लीमनोहराय नमः ।
ॐ साधवे नमः । ४६०
ॐ देवेन्द्रप्राणदायकाय नमः ।
ॐ दिगन्तवल्लभाय नमः ।
ॐ अनन्तमदनोज्ज्वलरूपभृते नमः ।
ॐ सौन्दर्यार्णवपीयूषाय नमः ।
ॐ सर्वावयवसुन्दराय नमः ।
ॐ शिशवे नमः ।
ॐ कृपालवे नमः ।
ॐ कादम्बधराय नमः ।
ॐ कौबेरनायकाय नमः ।
ॐ धर्माधाराय नमः । ४७०
ॐ सर्वधर्मस्वरूपाय नमः ।
ॐ धर्मरक्षकाय नमः ।
ॐ सर्वधर्मेश्वराय नमः ।
ॐ बन्धवे नमः ।
ॐ तीक्ष्णाय नमः ।
ॐ अनन्तकलान्विताय नमः ।
ॐ अनन्तवेदसंवेद्याय नमः ।
ॐ स्वामिने नमः ।
ॐ कनकसुप्रभाय नमः ।
ॐ सर्वसाक्षिणे नमः । ४८०
ॐ सर्वकलाश्रवणाय नमः ।
ॐ करुणालयाय नमः ।
ॐ वासवाय नमः ।
ॐ सर्वकर्त्रे नमः ।
ॐ कामाय नमः ।
ॐ कपिलसंस्तुताय नमः ।
ॐ कामदाय नमः ।
ॐ कालसंहर्त्रे नमः ।
ॐ कालाय नमः ।
ॐ कामारिसम्भवाय नमः । ४९०
ॐ कामायुधाय नमः ।
ॐ कामधराय नमः ।
ॐ श्रीकृष्णाय नमः ।
ॐ शिखिवाहनाय नमः ।
ॐ कृपानिधये नमः ।
ॐ कृपासिन्धवे नमः ।
ॐ गिरिराजे नमः ।
ॐ कृत्तिकाप्रियाय नमः ।
ॐ कीर्तिप्रदाय नमः ।
ॐ कीर्तिधराय नमः । ५००
ॐ गीतनाट्यादिकप्रियाय नमः ।
ॐ नर्क्कीरस्तोत्रसन्तुष्टाय नमः ।
ॐ तीर्थेशाय नमः ।
ॐ कुलविदे नमः ।
ॐ गुहाय नमः ।
ॐ कौमाराय नमः ।
ॐ सर्वगुप्ताय नमः ।
ॐ क्रौञ्चासुरविमर्दनाय नमः ।
ॐ इन्द्रपुण्याय नमः ।
ॐ कुलोत्तुङ्गाय नमः । ५१०
ॐ अतितीक्ष्णायुधाय नमः ।
ॐ नटाय नमः ।
ॐ कूटस्थाय नमः ।
ॐ श्रीकराय नमः ।
ॐ कूटेशाय नमः ।
ॐ अन्तकान्तकसम्भवाय नमः ।
ॐ वल्लीभाषणसुप्रीताय नमः ।
ॐ गम्भीराय नमः ।
ॐ भक्तनायकाय नमः ।
ॐ सर्वदेवालयान्तस्थाय नमः । ५२०
ॐ निश्शोकाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ केदाराय नमः ।
ॐ मदनाधीशाय नमः ।
ॐ लयघ्नाय नमः ।
ॐ श्रवणान्विताय नमः ।
ॐ पद्महस्ताय नमः ।
ॐ देवनुताय नमः ।
ॐ भक्तार्थाय नमः ।
ॐ द्वादशायुधाय नमः । ५३०
ॐ कैवल्याय नमः ।
ॐ रजताद्रीशाय नमः ।
ॐ महाराजे नमः ।
ॐ गोकर्णाधिपाय नमः ।
ॐ शूरमायाम्रतरुभिदे नमः ।
ॐ खण्डितासुरमण्डलाय नमः ।
ॐ जयदुर्गातिसन्तुष्टाय नमः ।
ॐ सर्वदेवस्तवाङ्किताय नमः ।
ॐ हिताय नमः ।
ॐ कोलाहलाय नमः । ५४०
ॐ चित्राय नमः ।
ॐ नन्दिताय नमः ।
ॐ वृषापतये नमः ।
ॐ निगमाग्य्राय नमः ।
ॐ महाघोरास्त्रनाथाय नमः ।
ॐ गव्यमोदिने नमः ।
ॐ सर्वेशाय नमः ।
ॐ सुगुणाय नमः ।
ॐ चण्डाय नमः ।
ॐ दिव्यकौस्तुभसन्निभाय नमः । ५५०
ॐ चण्डप्रचण्डाय नमः ।
ॐ समरविजयिने नमः ।
ॐ निरहङ्कृतये नमः ।
ॐ सर्वस्वामिने नमः ।
ॐ चण्डहर्त्रे नमः ।
ॐ षड्वक्त्राय नमः ।
ॐ शाम्भवाय नमः ।
ॐ सुखिने नमः ।
ॐ साङ्गाय नमः ।
ॐ सायुज्यदाय नमः । ५६०
ॐ साराय नमः ।
ॐ सामाय नमः ।
ॐ साम्राज्यदायकाय नमः ।
ॐ सिद्धाय नमः ।
ॐ शिवाय नमः ।
ॐ चिद्गुणाय नमः ।
ॐ चिन्मयाय नमः ।
ॐ चित्स्वरूपकाय नमः ।
ॐ शृङ्गाररससम्पूर्णाय नमः ।
ॐ चित्तस्थाय नमः । ५७०
ॐ सामपारगाय नमः ।
ॐ शिवलोकेश्वराय नमः ।
ॐ सिद्धवराय नमः ।
ॐ सिद्धवरार्चिताय नमः ।
ॐ सर्वजीवस्वरूपिणे नमः ।
ॐ श्रीदाय नमः ।
ॐ श्रीधरवन्दिताय नमः ।
ॐ शुद्धाय नमः ।
ॐ शीताय नमः ।
ॐ स्वयञ्ज्योतिषे नमः । ५८०
ॐ सुब्रह्मण्याय नमः ।
ॐ शुभप्रदाय नमः ।
ॐ श्रुतिज्ञाय नमः ।
ॐ सुलभाय नमः ।
ॐ शूराय नमः ।
ॐ शुद्धधीराय नमः ।
ॐ शूरघ्ने नमः ।
ॐ शूरात्मशोधकाय नमः ।
ॐ शूरस्मर्त्रे नमः ।
ॐ विभवप्रदाय नमः । ५९०
ॐ सर्वैश्वर्यप्रदाय नमः ।
ॐ सर्वजयदाय नमः ।
ॐ ब्रह्मसम्भवाय नमः ।
ॐ जयधीराय नमः ।
ॐ श्रीकराय नमः ।
ॐ सिन्धुक्षेत्राय नमः ।
ॐ सुलक्षणाय नमः ।
ॐ अभक्तकालाय नमः ।
ॐ रक्ताभशेखराय नमः ।
ॐ अतुलविक्रमाय नमः । ६००
ॐ शैवाधिपाय नमः ।
ॐ शैवमणये नमः ।
ॐ शैवधन्याय नमः ।
ॐ शिवात्पराय नमः ।
ॐ चैतन्याय नमः ।
ॐ क्रौञ्चभेदिने नमः ।
ॐ गिरीशाय नमः ।
ॐ निगमेश्वराय नमः ।
ॐ स्वर्गाधिपाय नमः ।
ॐ सुरूपिणे नमः । ६१०
ॐ स्वर्गलोकादिसौख्यदाय नमः ।
ॐ स्वच्छाय नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ भौमाख्याय नमः ।
ॐ सोमधृते नमः ।
ॐ कुक्कुटध्वजाय नमः ।
ॐ ज्योतिषे नमः ।
ॐ हल्लकशैलस्थाय नमः ।
ॐ सोमाय नमः ।
ॐ शोकभयापहाय नमः । ६२०
ॐ हिताय नमः ।
ॐ पशुपतये नमः ।
ॐ सौम्याय नमः ।
ॐ नतसौभाग्यदायकाय नमः ।
ॐ सौवर्णबीजाय नमः ।
ॐ सौन्दर्याय नमः ।
ॐ दण्डपाणये नमः ।
ॐ धनप्रदाय नमः ।
ॐ एकदेवाय नमः ।
ॐ सर्वपित्रे नमः । ६३०
ॐ धनिकाय नमः ।
ॐ द्राविडप्रियाय नमः ।
ॐ चण्डारये नमः ।
ॐ तारकाय नमः ।
ॐ स्थाणवे नमः ।
ॐ सर्वधान्यप्रदायकाय नमः ।
ॐ मातृभूताय नमः ।
ॐ तारकारये नमः ।
ॐ दिव्यमाल्यविभूषिताय नमः ।
ॐ चित्सभेशाय नमः । ६४०
ॐ दिशान्नाथाय नमः ।
ॐ धनुर्हस्ताय नमः ।
ॐ महाभुजाय नमः ।
ॐ महागुणाय नमः ।
ॐ महाशौर्याय नमः ।
ॐ सर्वदारिद्र्यनाशकाय नमः ।
ॐ दीर्घाय नमः ।
ॐ दिगम्बराय नमः ।
ॐ तीर्थाय नमः ।
ॐ सर्वतीर्थफलप्रदाय नमः । ६५०
ॐ रोगघ्नाय नमः ।
ॐ दुष्टहर्त्रे नमः ।
ॐ सर्वदुष्टभयङ्कराय नमः ।
ॐ आत्मज्योतिषे नमः ।
ॐ पवित्राय नमः ।
ॐ हृद्गताय नमः ।
ॐ सहायकृते नमः ।
ॐ कारणस्थूलसूक्ष्मान्ताय नमः ।
ॐ अमृतवर्षिणे नमः ।
ॐ चिदम्बराय नमः । ६६०
ॐ परमाकाशरूपिणे नमः ।
ॐ प्रलयानलसन्निभाय नमः ।
ॐ देवाय नमः ।
ॐ दक्षिणकैलासवासिने नमः ।
ॐ वल्लीकराञ्चिताय नमः ।
ॐ दृढाय नमः ।
ॐ दिव्याय नमः ।
ॐ अमृतकराय नमः ।
ॐ देवेशाय नमः ।
ॐ दैवतप्रभवे नमः । ६७०
ॐ कदम्बमालापीयूषाप्लुतवक्षस्थलान्विताय नमः ।
ॐ देवसेनापतये नमः ।
ॐ देवधन्याय नमः ।
ॐ देवगिरिस्थिताय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ देशिकाय नमः ।
ॐ धैर्याय नमः ।
ॐ सुरवैरिकुलान्तकाय नमः ।
ॐ वटुकानन्दनायोद्यद्वाद्यघोषामितप्रियाय नमः ।
ॐ पुष्यर्क्षाय नमः । ६८०
ॐ कुण्डलधराय नमः ।
ॐ नित्याय नमः ।
ॐ दोषविभञ्जनाय नमः ।
ॐ प्रारब्धसञ्चितागाम्यपातकादिप्रभञ्जनाय नमः ।
ॐ महाजयाय नमः ।
ॐ महाभूताय नमः ।
ॐ वीरबाह्वादिवन्दिताय नमः ।
ॐ चोरारये नमः ।
ॐ सत्त्वमार्गस्थाय नमः ।
ॐ अलक्ष्मीमलनाशकाय नमः । ६९०
ॐ स्तुतिमालालङ्कृताढ्याय नमः ।
ॐ नन्दीकेशाय नमः ।
ॐ हरप्रियाय नमः ।
ॐ सर्वसौख्यप्रदात्रे नमः ।
ॐ नववीरसमावृताय नमः ।
ॐ परमेशाय नमः ।
ॐ महारुद्राय नमः ।
ॐ महाविष्णवे नमः ।
ॐ प्रजापतये नमः ।
ॐ वीणाधरमुनिस्तुत्याय नमः । ७००
ॐ चतुर्वर्गफलप्रदाय नमः ।
ॐ निर्गुणाय नमः ।
ॐ निरालम्बाय नमः ।
ॐ निर्मलाय नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ निरामयाय नमः ।
ॐ नित्यशुद्धाय नमः ।
ॐ नित्यमङ्गलविग्रहाय नमः ।
ॐ शिखण्डिने नमः ।
ॐ नीपबाहवे नमः । ७१०
ॐ नीतये नमः ।
ॐ नीराजनद्युतये नमः ।
ॐ निष्कोपाय नमः ।
ॐ महोद्यानाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ मेर्वादिमन्दिराय नमः ।
ॐ सूक्ष्मातिसूक्ष्माय नमः ।
ॐ भालाक्षाय नमः ।
ॐ महते नमः ।
ॐ सर्वोपदेशकाय नमः । ७२०
ॐ सर्ववेषकलातीताय नमः ।
ॐ उपवीतिने नमः ।
ॐ शतक्रतवे नमः ।
ॐ वेदागमपुराणज्ञाय नमः ।
ॐ नूपुराङ्घ्रिसरोरूहाय नमः ।
ॐ हृत्पूर्णाय नमः ।
ॐ पञ्चभूतस्थाय नमः ।
ॐ कृपामार्गाय नमः ।
ॐ अम्बुजाश्रयाय नमः ।
ॐ सन्निधये नमः । ७३०
ॐ प्रीतचित्ताय नमः ।
ॐ निष्प्रीतये नमः ।
ॐ आत्मसंस्थिताय नमः ।
ॐ औपम्यरहिताय नमः ।
ॐ प्रीतचित्तगाय नमः ।
ॐ नैमिशाश्रयाय नमः ।
ॐ नैमिशारण्यनिवसन्मुनीन्द्रनिकरस्तुताय नमः ।
ॐ घण्टारवप्रीतमनसे नमः ।
ॐ दयाचित्ताय नमः ।
ॐ सताङ्गतये नमः । ७४०
ॐ सर्वापदान्निहन्त्रे नमः ।
ॐ सद्योऽभीष्टवरप्रदाय नमः ।
ॐ सर्वजीवान्तरज्योतिषे नमः ।
ॐ छन्दस्साराय नमः ।
ॐ महौषधये नमः ।
ॐ पञ्चाक्षरपरञ्ज्योतिषे नमः ।
ॐ सूक्ष्मपञ्चेन्द्रियद्युतये नमः ।
ॐ ज्ञानचक्षुर्गतज्योतिषे नमः ।
ॐ सौङ्कारपरमद्युतये नमः ।
ॐ परस्मै । ७५०
ॐ फलशैलस्थाय नमः ।
ॐ बालरूपाय नमः ।
ॐ पराङ्गकाय नमः ।
ॐ परमेष्ठिने नमः ।
ॐ परन्धाम्ने नमः ।
ॐ पापनाशिने नमः ।
ॐ परात्पराय नमः ।
ॐ गोक्षीरधवलप्रख्याय नमः ।
ॐ पार्वतीप्रियनन्दनाय नमः ।
ॐ कटाक्षकरुणासिन्धवे नमः । ७६०
ॐ यमवृक्षकुठारिकाय नमः ।
ॐ प्रभवे नमः ।
ॐ कपर्दिने नमः ।
ॐ ब्रह्मेशाय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ पिङ्गलप्रभाय नमः ।
ॐ स्वाधिष्ठानपुराधीशाय नमः ।
ॐ सर्वव्याधिविनाशकाय नमः ।
ॐ वैभवाय नमः ।
ॐ कनकाभासाय नमः । ७७०
ॐ भीषणाय नमः ।
ॐ निगमासनाय नमः ।
ॐ भीतिघ्नाय नमः ।
ॐ सर्वदेवेड्याय नमः ।
ॐ पुण्याय नमः ।
ॐ सत्त्वगुणालयाय नमः ।
ॐ पुण्याधिपाय नमः ।
ॐ पुष्कराक्षाय नमः ।
ॐ पुण्डरीकपुराश्रयाय नमः ।
ॐ पुराणाय नमः । ७८०
ॐ पुङ्गवाय नमः ।
ॐ पूर्णाय नमः ।
ॐ भूधराय नमः ।
ॐ भूतिधारकाय नमः ।
ॐ प्राचीनाय नमः ।
ॐ पुष्पसद्गन्धाय नमः ।
ॐ रक्तपुष्पप्रियङ्कराय नमः ।
ॐ वृद्धाय नमः ।
ॐ महामतिकराय नमः ।
ॐ महोल्लासाय नमः । ७९०
ॐ महागुणाय नमः ।
ॐ मोक्षदायिने नमः ।
ॐ वृषाङ्कस्थाय नमः ।
ॐ यजमानस्वरूपभृते नमः ।
ॐ अभेद्याय नमः ।
ॐ मौनरूपिणे नमः ।
ॐ ब्रह्मानन्दाय नमः ।
ॐ महोदराय नमः ।
ॐ भूतप्रेतपिशाचघ्नाय नमः ।
ॐ शिखिने नमः । ८००
ॐ साहस्रनामकाय नमः ।
ॐ किराततनयापाणिपद्मग्रहणलोलुपाय नमः ।
ॐ नीलोत्पलधराय नमः ।
ॐ नागकङ्कणाय नमः ।
ॐ स्वर्णपङ्कजाय नमः ।
ॐ सुवर्णपङ्कजारूढाय नमः ।
ॐ सुवर्णमणिभूषणाय नमः ।
ॐ सुवर्णशैलशृङ्गस्थाय नमः ।
ॐ सुवर्णाङ्गदशोभिताय नमः ।
ॐ कालज्ञानिने नमः । ८१०
ॐ महाज्ञानिने नमः ।
ॐ अमराचलनायकाय नमः ।
ॐ लयसम्भवनिर्मुक्ताय नमः ।
ॐ कमलोद्भवदण्डकाय नमः ।
ॐ सप्ताब्धिशोषकृते नमः ।
ॐ अष्टकुलाचलविभेदकाय नमः ।
ॐ मन्त्रबीजाय नमः ।
ॐ वराबीजाय नमः ।
ॐ मन्त्रात्मने नमः ।
ॐ मन्त्रनायकाय नमः । ८२०
ॐ मन्त्रालयाय नमः ।
ॐ मयूरस्थाय नमः ।
ॐ मयूराचलनायकाय नमः ।
ॐ मायाधराय नमः ।
ॐ महामन्त्राय नमः ।
ॐ महादेवाय नमः ।
ॐ महाबुधाय नमः ।
ॐ मायापराय नमः ।
ॐ महामायिने नमः ।
ॐ महासेनाय नमः । ८३०
ॐ महाप्रभवे नमः ।
ॐ अग्रबुद्धये नमः ।
ॐ अग्रगण्याय नमः ।
ॐ मिथ्यावादिकुलान्तकाय नमः ।
ॐ मुक्तिग्रहाय नमः ।
ॐ कल्मषघ्नाय नमः ।
ॐ सर्वदेवजरापहाय नमः ।
ॐ सर्वदेवाङ्कुराय नमः ।
ॐ मुक्ताय नमः ।
ॐ अतिबालाय नमः । ८४०
ॐ मुनीश्वराय नमः ।
ॐ दिगम्बराय नमः ।
ॐ भक्तिनिधये नमः ।
ॐ सर्वदेवाग्रगण्यकाय नमः ।
ॐ अच्युताय नमः ।
ॐ सर्वसम्पूर्णाय नमः ।
ॐ महाविष्णुसुसंस्तुताय नमः ।
ॐ मूर्तये नमः ।
ॐ ब्रह्माण्डकूटस्थाय नमः ।
ॐ मूलभूताय नमः । ८५०
ॐ त्रिमूर्तिभृते नमः ।
ॐ नामपारायणपरभक्ताभीष्टप्रदायकाय नमः ।
ॐ चिद्रूपाय नमः ।
ॐ षट्क्रमानन्दाय नमः ।
ॐ महासारस्वतप्रदाय नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ गिरिशयाय नमः ।
ॐ नवदुर्गाभिवन्दिताय नमः ।
ॐ मुकुटाङ्गदकेयूरकाञ्चीकिङ्किणिभूषिताय नमः ।
ॐ नारायणविरिञ्च्यादिदेवाभीतिप्रदायकाय नमः । ८६०
ॐ मेषारूढाय नमः ।
ॐ पञ्चवर्णाय नमः ।
ॐ सर्ववाद्यप्रियङ्कराय नमः ।
ॐ मौनेश्वराय नमः ।
ॐ मोक्षनाथाय नमः ।
ॐ द्वादशान्तःपुरेश्वराय नमः ।
ॐ देवावृताय नमः ।
ॐ दीनबन्धवे नमः ।
ॐ वल्लीलीलामनोहराय नमः ।
ॐ वन्दारुमहदैश्वर्यदायकाय नमः । ८७०
ॐ वन्दनप्रियाय नमः ।
ॐ वकाराच्छत्रुसंहर्त्रे नमः ।
ॐ वकाराच्छत्रुपीडकाय नमः ।
ॐ वकाराच्छत्रुवाक्स्तम्भाय नमः ।
ॐ वकारात्कलिनाशकाय नमः ।
ॐ वकाराच्छत्रुसंहारिणे नमः ।
ॐ सकाराच्छत्रुवञ्चकाय नमः ।
ॐ वकाराद्भूतपैशाचप्रेतादिभयमोचकाय नमः ।
ॐ वकाराद्ग्रहदोषघ्नाय नमः ।
ॐ वकाराच्चोरनाशनाय नमः । ८८०
ॐ वकारात्सिंहसर्पाश्वव्याघ्रादिभयमोचकाय नमः ।
ॐ वकारान्निन्दकश्रोत्रनेत्रवाक्स्तम्भनोद्यताय नमः ।
ॐ वकारान्मृत्युसंहर्त्रे नमः ।
ॐ वकारकुलिशायुधाय नमः ।
ॐ वकारार्णमहारुद्राय नमः ।
ॐ वकारार्णमहासिकाय नमः ।
ॐ वकारादिवैरिनरराट्चोरचित्तादिविभ्रमाय नमः ।
ॐ वचस्याय नमः ।
ॐ वटुकाय नमः ।
ॐ वह्नये नमः । ८९०
ॐ वरुणाय नमः ।
ॐ वाचकाय नमः ।
ॐ वसवे नमः ।
ॐ वश्याय नमः ।
ॐ वसुप्रदाय नमः ।
ॐ दात्रे नमः ।
ॐ वामनाय नमः ।
ॐ वचनात्पराय नमः ।
ॐ वागीशाय नमः ।
ॐ वामनयनाय नमः । ९००
ॐ वामाय नमः ।
ॐ सामपरायणाय नमः ।
ॐ वामक्रमार्चनप्रीताय नमः ।
ॐ विशाखाय नमः ।
ॐ विमलाय नमः ।
ॐ विधवे नमः ।
ॐ विद्रुमाभाय नमः ।
ॐ धनाय नमः ।
ॐ बीजाय नमः ।
ॐ अनन्तसौदामिनीप्रभाय नमः । ९१०
ॐ निरन्तराय नमः ।
ॐ मन्दिराय नमः ।
ॐ नववीरनुताङ्घ्रिकाय नमः ।
ॐ वीराय नमः ।
ॐ भीमाय नमः ।
ॐ किराताय नमः ।
ॐ सदाभक्तमनोहराय नमः ।
ॐ सर्वालयाय नमः ।
ॐ रथारूढाय नमः ।
ॐ अनन्तप्रलयाधिपाय नमः । ९२०
ॐ नामरूपगुणक्षेत्रभेदावस्थाविवर्जिताय नमः ।
ॐ सर्वपुण्याध्वरफलाय नमः ।
ॐ सर्वकर्मफलप्रदाय नमः ।
ॐ सर्वागमपुराणादिपाठकृत्फलदायकाय नमः ।
ॐ सर्वसम्पत्प्रदाय नमः ।
ॐ सत्याय नमः ।
ॐ राजभोगसुखप्रदाय नमः ।
ॐ एकस्मै नमः ।
ॐ प्रभवे नमः ।
ॐ सभानाथाय नमः । ९३०
ॐ निष्कलाय नमः ।
ॐ अनन्तवल्लभाय नमः ।
ॐ ओङ्कारसिन्धुनादाग्रनटनानन्दवैभवाय नमः ।
ॐ षडक्षरजपोद्युक्तप्रारब्धादिप्रभेदकाय नमः ।
ॐ अनन्तभुवनाधीशाय नमः ।
ॐ आदिमध्यान्तवर्जिताय नमः ।
ॐ इन्द्राणीमुखमाङ्गल्यरक्षकाय नमः ।
ॐ ईप्सितार्थदाय नमः ।
ॐ उद्यत्कोटिरविप्रख्याय नमः ।
ॐ ऊरुदण्डकरद्वयाय नमः । ९४०
ॐ रुद्रकोटिसमाकीर्णलतामण्डपमध्यगाय नमः ।
ॐ एलादिवासनाप्रीताय नमः ।
ॐ ऐरावतगजस्थिताय नमः ।
ॐ ओङ्कारचित्सभानाथाय नमः ।
ॐ औदार्यगुणदायकाय नमः ।
ॐ अम्बिकाहृदयानन्दाय नमः ।
ॐ अच्युतेशविधिस्तुताय नमः ।
ॐ करुणारसनिष्यन्दसम्पूर्णद्वादशेक्षणाय नमः ।
ॐ खादिपृध्व्यन्तभूतात्मने नमः ।
ॐ गण्डमण्डलशोभिताय नमः । ९५०
ॐ घटसम्भवसुप्रीताय नमः ।
ॐ सुन्दराय नमः ।
ॐ चन्द्रभूषणाय नमः ।
ॐ छत्रवर्यधराय नमः ।
ॐ जम्भभेत्तृसर्वेष्टदायकाय नमः ।
ॐ झलज्झलितझङ्कारकालीकङ्कणभूषिताय नमः ।
ॐ ज्ञानसागरपूर्णेन्दवे नमः ।
ॐ टङ्कशूलादिधारकाय नमः ।
ॐ ठकारमध्यगाय नमः ।
ॐ डम्भगम्भीरगुणसम्भ्रमाय नमः । ९६०
ॐ ढक्काशूलधरानेकवटुकादिमसेविताय नमः ।
ॐ णकारमूलनिलयाय नमः ।
ॐ ताटङ्काभरणोज्ज्वलाय नमः ।
ॐ स्थाणवे नमः ।
ॐ दयालवे नमः ।
ॐ धनदाय नमः ।
ॐ नववीरादिसंवृताय नमः ।
ॐ पापाचलमहावज्राय नमः ।
ॐ फणिभुग्वाहनस्थिताय नमः ।
ॐ बलिप्रियाय नमः । ९७०
ॐ भयार्तिघ्नाय नमः ।
ॐ वरषट्चक्रमध्यगाय नमः ।
ॐ यक्षाधिपेशाय नमः ।
ॐ राजीवलोचनाय नमः ।
ॐ लक्षणोज्ज्वलाय नमः ।
ॐ वल्मीकेशाय नमः ।
ॐ शरवणभवाय नमः ।
ॐ षण्मुखसुन्दराय नमः ।
ॐ समस्तजगदाधाराय नमः ।
ॐ हस्तद्वादशपङ्कजाय नमः । ९८०
ॐ लकारतत्त्वरूपिणे नमः ।
ॐ क्षमासम्पूर्णवारिधये नमः ।
ॐ ज्ञानशक्तिधराय नमः ।
ॐ स्कन्दाय नमः ।
ॐ अग्निभुवे नमः ।
ॐ बाहुलेयकाय नमः ।
ॐ कुमाराय नमः ।
ॐ षण्मुखाय नमः ।
ॐ कृत्तिकासुताय नमः ।
ॐ शक्त्यायुधधराय नमः । ९९०
ॐ शरसम्भवाय नमः ।
ॐ शरवणोद्भवाय नमः ।
ॐ गाङ्गेयाय नमः ।
ॐ तारकारये नमः ।
ॐ देवसेनापतये नमः ।
ॐ गुहाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ शिवज्योतिषे नमः ।
ॐ क्रौञ्चधारिणे नमः ।
ॐ शिखिस्थिताय नमः । १०००
ॐ विद्याप्रदाय नमः ।
ॐ विजयदाय नमः ।
ॐ बलदाय नमः ।
ॐ सर्वरक्षकाय नमः ।
ॐ स्वाश्रितश्रीकराय नमः ।
ॐ स्वर्णवर्णाङ्गाय नमः ।
ॐ सौख्यदायकाय नमः ।
ॐ भवस्यदेवस्यसुताय नमः ।
ॐ सर्वस्यदेवस्यसुताय नमः ।
ॐ ईशानस्यदेवस्यसुताय नमः । १०१०
ॐ पशुपतेर्देवस्यसुताय नमः ।
ॐ रुद्रस्यदेवस्यसुताय नमः ।
ॐ उग्रस्यदेवस्यसुताय नमः ।
ॐ भीमस्यदेवस्यसुताय नमः ।
ॐ महतोदेवस्यसुताय नमः ।
ॐ श्रीवल्लीदेवसेनसमेतश्रीकुमारसुब्रह्मण्यमूर्तये नमः । १०१६
॥ इति श्रीकुमारसुब्रह्मण्यमूर्तिसहस्रनामावलिः सम्पूर्णा ॥
॥ ॐ नमोभगवतेसुब्रह्मण्याय ॥
Encoded and proofread by Psa Easwaran psaeaswaran at gmail.com
Sivakumar Thyagarajan shivakumar24 at gmail.com