शक्रविरचितं लघुकुमारस्तोत्रम्
स्कन्दध्यानम् -
कार्तिकेयं महाभागं मयुरोपरिसंस्तिथम् ।
तप्तकाञ्चन वर्णाभं शक्तिहस्तं वरप्रदम् ॥
द्विभुजं शत्रुहन्ता च नानालङ्कारभूषितम् ।
प्रसन्नवदनं देवम् कुमारं पुत्रदायकम् ॥
अथ लघु कुमारस्तोत्रस्य शतक्रतुः ऋषिः ।
अनुष्टुप् छन्दः । स्कन्दो देवत । ॐ ह्रां ङम् ।
देवदेवं नमस्यामि कुमारं वरमच्युतम् ।
कार्तिकेयं दुराराध्यं वह्नितेजः समुद्भवम् ॥ १ ॥
उमाशङ्करजं भीमं गङ्गाया जठरे धृतम् ।
शक्तिहस्तं विशालाक्षं षण्मुखं दीप्ततेजसम् ॥ २ ॥
भक्तानुकम्पिनं दातं ब्रह्मण्यं वरदं प्रभुम् ।
काकपक्षधरं शान्तं शिखण्डकविभूषितम् ॥ ३ ॥
रक्ताम्बरं महाबाहुं मयूरवरगामिनं॥ ४ ॥
घण्टाप्रियं गणाध्यक्षं महाबलपराक्रमम् ।
देवसेनापतिं देवं सर्वलोकहितेप्सया ॥ ५ ॥
इति शक्रविरचितं लघुकुमारस्तोत्रं सुम्पूर्णम् ।