मुनयः कृतं स्कन्दशताष्टनामस्तोत्रम्

मुनयः कृतं स्कन्दशताष्टनामस्तोत्रम्

(शिवरहस्यान्तर्गते ईशाख्ये) मुनय ऊचुः । (ध्यानम्) द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्यसमानतेजसम् । वन्दे मयूरासनमग्निसन्निभं सेनान्यमीशं सकलेष्वभीष्टदम् ॥ १४०॥ (शताष्टनामस्तोत्रम्) स्कन्दो गुहः षण्मुखश्च भालनेत्रसुतः प्रभुः । पिङ्गळः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥ १४१॥ द्विषण्णेत्रः कुमारश्च पिशिताशनभञ्जनः । तारकासुरसंहर्ता रक्षोबलनिषूदनः ॥ १४१॥ मत्तः प्रमत्त उन्मत्तः सुरसैन्याभिरक्षकः । देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥ १४२॥ उमासुतो महासेनः कुमारः क्रौञ्चदारणः । सेनानीरग्रजन्मा च विशाखः शङ्कारात्मजः ॥ १४३॥ शिवस्वामी गणस्वामी सर्वस्वामी सनातनः । अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥ १४४॥ गङ्गासुतः शरोद्भूत आहुतः पावकात्मजः । जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसन्नुतः ॥ १४५॥ एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः । चातुर्वर्ण्यः पञ्चवर्णः प्रजापतिरहःपतिः ॥ १४६॥ अग्निगर्भः शमीगर्भो विश्वगर्भः सुरारिहा । हरिद्वर्णः शुभकरः पटुवाक् वटुवेषधृक् ॥ १४७॥ पूषा गभस्तिर्गगनश्चन्द्रवर्णः कलाधरः । मायाधरो महामायः कैलासावसथः शिखी ॥ १४८॥ विश्वयोनिरमेयात्मा तेजोनिधिरनामयः । परमेष्ठी परब्रह्म वेदगर्भो विराड् वसुः ॥ १४९॥ पुलिन्दकन्याभर्ता च महासारस्वतप्रदः । आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥ १५०॥ अनन्तशक्तिरानन्दः शिखण्डिकृतकेतनः । डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥ १५१॥ कारणं कान्तदेहश्च कारणातीतविग्रहः । अहिरूपोऽमृतवपुः प्राणायामपरायणः ॥ १५२॥ विरुद्धहर्ता वीरघ्नो रक्तश्यामललोचनः । बहुवर्णो गणपतिः स्वभक्ताभीष्टदायकः ॥ १५३॥ सर्वेश्वरो लोकगुरुरसुरानीकनाशनः । सुब्रह्मण्यो गुहः स्कन्दो ब्रह्मण्यो ब्राह्मणप्रियः ॥ १५४॥ (फलम्) एवमष्टोत्तरशतनामभिः स्तौति यो नरः । तस्याभीष्टानि सर्वाणि प्रयच्छति गुहो मुहुः ॥ १५५॥ ॥ इति शिवरहस्यान्तर्गते मुनयः कृतं स्कन्दशताष्टनामस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३८ । १४०-१५५ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 38 . 140-155 .. Notes: Muni-s मुनयः eulogize Skanda स्कन्द with ŚatāṣṭanāmaStotram शताष्टनामस्तोत्रम् towards the conclusion of the discourse of The ŚivaRahasyam शिवरहस्यम्. SkandaŚatāṣṭanāmāvaliḥ स्कन्दशताष्टनामावलिः derived from the SkandaŚatāṣṭanāmaStotram स्कन्दशताष्टनामस्तोत्रम्, can be accessed from one of the links given below. Proofread by Ruma Dewan
% Text title            : Munayah Kritam Skandashatashtanama Stotram
% File name             : munayaHkRRitaMskandashatAShTanAmastotram.itx
% itxtitle              : skandashatAShTanAmastotram (munayaH kRitaM shivarahasyAntargatam)
% engtitle              : munayaH kRRitaM skandashatAShTanAmastotram
% Category              : subrahmanya, shivarahasya, aShTottarashatanAma, stotra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | 38 | 140-155 || See corresponding nAmAvalI
% Indexextra            : (Scan , nAmAvalI)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org