प्रज्ञाविवर्धनं कार्तिकेयस्तोत्रनामावलिः
ॐ योगीश्वराय नमः । महासेनाय ।
कार्तिकेयाय । अग्निनन्दनाय ।
स्कन्दाय । कुमाराय । सेनान्ये ।
स्वामिने । शङ्करसम्भवाय ।
गाङ्गेयाय । ताम्रचूडाय ।
ब्रह्मचारिणे । शिखिध्वजाय ।
तारकारये । उमापुत्राय ।
क्रौञ्चारये । षडाननाय ।
शब्दब्रह्मसमुद्राय । सिद्धाय ।
सारस्वताय । गुहाय । सनत्कुमाराय
भगवते । भोगमोक्षफलप्रदाय ।
शरजन्मने । गणाढीशपुर्वजाय ।
मुक्तिमार्गकृते । सर्वागमप्रणेत्रे ।
वाञ्छितार्थप्रदर्शनाय नमः ॥ (२८)
इति प्रज्ञाविवर्धनं कार्तिकेयस्तोत्रनामावलिः समाप्ता ।