श्रीशरवनभवमन्त्राक्षरषट्कम्
ॐ श्रीगणेशाय नमः ।
शक्तिस्वरूपाय शरोद्भवाय शक्रार्चितायाथ शचीस्तुताय ।
शमाय शम्भुप्रणवार्थदाय शकाररूपाय नमो गुहाय ॥ १॥
रणन्मणिप्रोज्ज्वलमेखलाय रमासनाथप्रणवार्थदाय ।
रतीशपूज्याय रविप्रभाय रकाररूपाय नमो गुहाय ॥ २॥
वराय वर्णाश्रमरक्षकाय वरत्रिशूलाभयमण्डिताय ।
वलारिकन्यासुकृतालयाय वकाररूपाय नमो गुहाय ॥ ३॥
नगेन्द्रकन्येश्वरतत्त्वदाय नगाधिरूढाय नगार्चिताय ।
नगासुरघ्नाय नगालयाय नकाररूपाय नमो गुहाय ॥ ४॥
भवाय भर्गाय भवात्मजाय भस्मायमानाद्भुतविग्रहाय ।
भक्तेष्टकामप्रदकल्पकाय भकाररूपाय नमो गुहाय ॥ ५॥
वल्लीवलारातिसुतार्चिताय वराङ्गरागाञ्चितविग्रहाय ।
वल्लीकराम्भोरुहमर्दिताय वकाररूपाय नमो गुहाय ॥ ६॥
इति श्रीशरवनभवमन्त्राक्षरषट्कं सम्पूर्णम् ॥
इति शिवम् ॥
Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com,
PSA Easwaran