स्कन्ददण्डकम्
ॐश्रीगणेशाय नमः ।
(हरिगीतपुरेशश्रीसुब्रह्मण्यस्तुतिः - हरिप्पाड् क्षेत्रं - केरळेषु)
अयि! जय जयाम्भोजिनीजानिडिम्भोदयोद्यत्-
कुसुम्भोल्लसत्फुल्लदम्भोपमर्दप्रवीणप्रभाधोरणीपूरिता-
शावकाश! वरानन्दसान्द्रप्रकाश! ॥
सहैवोत्तरङ्गीभवत्सौहृदावेशमीशानपञ्चाननीपार्वतीवक्त्र-
सञ्चुम्ब्यमानाननाम्भोजषट्क! द्विषत्कायरक्तौघरज्यत्पृषत्क ! ॥
स्वकीयप्रभुद्वादशात्मद्रढीयस्तमप्रेमधामायितद्वादशा-
म्भोजवृन्दिष्ठबंहिष्ठसौन्दर्यधुर्येक्षण ! साधुसंरक्षण ! ॥
निजचरणवन्दनासक्तसद्वृन्दभूयस्तरानन्ददायिस्फुर-
न्मन्दहासद्युतिस्यन्ददूरीकृतामन्दकुन्दप्रसूनप्रभा-
कन्दळीसुन्दरत्वाभिमान ! समस्तामरस्तोमसंस्तूयमान ! ॥
जगत्याहितात्याहितादित्यपत्याहितप्रौढवक्षःस्थलोद्गच्छ-
दास्रच्छटाधूमळच्छायशक्तिस्फुरत्पाणिपाथोरुह !
भक्तमन्दारपृथ्वीरुह ॥
विहितपरिरम्भवल्लीवपुर्वल्लरीमेळनोल्लासितोरस्तटश्री-
निरस्ताचिरज्योतिराश्लिष्टसन्ध्याम्बुदानोपमाडम्बर !
तप्तजाम्बूनदभ्राजमानाम्बर ! ॥
पिञ्छभारप्रभामण्डलीपिण्डिताखण्डलेष्वासनाखण्ड-
रोचिश्शिखण्डिप्रकाण्डोपरेद्योतमान !
पदश्रीहृतश्रीगृहव्रातमान ! ॥
प्रथितहरिगीतालयालङ्कृते ! कार्तिकेय ! आर्तबन्धो !
दयापूरसिन्धो ! नमस्ते समस्तेश ! मां पाहि पाहि प्रसीद प्रसीद ॥
कारुण्याम्बुनिधे! समस्तसुमनस्सन्तापदानोद्यत-
स्फायद्दर्पभरासुरप्रभुसमूलोन्मूलनैकायन !
बिभ्राणः क्षितिभृद्विभेदनचणां शक्तिं त्वमाग्नेय ! मां
पाहि श्रीहरिगीतपत्तनपते ! देहि श्रियं मे जवात् ॥
इति स्कन्ददण्डकं सम्पूर्णम् ।
Entered by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan, PSA Easwaran